कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

प्रतिसर

pratisaraपुं · masc.

In 12 kośas: 12 synonym verses, 10 as a nānārtha head word, 1 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.663 · p. 28
केयूरमङ्गदं बाहुभूषाथ करभूषणम् ॥ ६६२ ॥कटको वलयं पारिहार्यावापौ तु कङ्कणम् ।हस्तसूत्रं प्रतिसर ऊर्मिका त्वङ्गुलीयकम् ॥ ६६३ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.558 · p. 63
कङ्कणं हस्तसूत्रं च विदुः प्रतिसरं बुधाः ।ग्रीवालङ्करणं सर्वं ग्रैवेयकमितीष्यते ॥ ५५८ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.259 · p. 49
कलापः पुंसि मुक्तार्थाद्धारः प्रालम्ब इत्यपि ।स्त्र्यावली स्रग्लता यष्टिः सूत्रं प्रतिसरस्त्रिषु ॥ २५९ ॥
अनुष्टुप्
genderविadj.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.201 · p. 483
मुस्ताकुथेङ्गुदानां च जृम्भदाडिमयोरपि ।पुरोदरप्रतिसरविवराणामतः पुनः ॥ २०१ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.79 · p. 226
आवापः कङ्कणश्चैव बालकः करभूषणम् ।हस्तसूत्रं प्रतिसरस्त्रिषु रात्नं तु पुष्पकम् ॥ ७९ ॥
अनुष्टुप्
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.13 · p. 264
क्षुद्रकानां मालवानां सेनायां वृन्दसंयुता ।वदन्ति तां कोषविदो बुधाः क्षौद्रकमालवीम् ॥सेनाजघनभागे तु भवेत्प्रतिस[120b]रस्त्रिषु ।नासीरं ना न सेनाग्रं सज्जनं तूपरक्षणम् ॥शस्त्रं ना न प्रहरण-वधत्रास्त्र-धनूंषि च ॥ १३ ॥
अनुष्टुप्metre not read in every line
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्वतस्त्रिलिङ्गाधिकारः Koṣakalpataru 4.7.89 · p. 118
genderपुंस्त्रीक्लीm. f. n.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1074 · p. 165
अवापः पारिहार्यश्च परिहार्यः प्रतिसरः ॥ १०७४ ॥
metre not recognised
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.352 · p. 105
कटकञ्च कङ्कणोऽस्त्री कौतुकं करभूषणम् ।करसूत्रं प्रतिसरं चूडा या वाभटीति च ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ञ्च (wrong syllable)
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण ब्रह्माध्यायः Śabdaratnākara 3.2.1234 · p. 151
हस्तसूत्रं प्रतिसरो दायो हरणयौतके ।विगतान्यानुरक्ता स्यान्नष्टा तु स्पृष्टमैथुना ॥ १२३४ ॥
अनुष्टुप्
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव लिङ्गादिसंग्रहः Trikāṇḍaśeṣa 4.21 · p. 283
genderपुंस्त्रीक्लीm. f. n.
वैजयन्ती Vaijayantī · यादवप्रकाश ब्राह्मणाध्यायः Vaijayantī 3.6.59 · p. 87
सैव वन्दनमालापि कुहलिः पूगपुष्पिका ।हस्तसूत्रं प्रतिसरस्तद्बन्धे हस्तकोहलिः ॥ ५९ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नानार्थवर्गः Amarakośa 3.3.174
ना चमूजघने हस्तसूत्रे प्रतिसरोऽस्त्रियाम् ॥ १७४ ॥
अनुष्टुप्
धरणिकोश Dharaṇikośa · धरणिदास रार्धश्लोकः Dharaṇikośa 26.2.69 · p. 176
द्वैमातुरौ समाख्यातौ जरासंधविनायकौ ।प्रतिसरः प्रदेशे स्याद्वार्ताहारसहाययोः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 स (wrong syllable)
धरणिकोश Dharaṇikośa · धरणिदास रश्लोकः Dharaṇikośa 26.3.48 · p. 187
प्रतिसरं समाख्यातं हस्तकङ्कणसूत्रके ।आरक्षे मण्डने माल्ये चमूपृष्ठनियोज्ययोः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 स (wrong syllable)
कोषकल्पतरु Koṣakalpataru · विश्वनाथ रान्ताः Koṣakalpataru 6.27.94 · p. 330
दशपुरं पुरि मुस्तकदेशयोःप्रतिसरस्त्रिषु मण्डनमाल्ययोः ।करगतेऽपि च मङ्गलसूत्रकेव्रणविशोधनकङ्कणवाचकः ॥ ९४ ॥
द्रुतविलम्बितम्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ रान्ताः Koṣakalpataru 6.27.95 · p. 330
नियोज्यारक्षयोर्मन्त्रभेदे स्यात्सैन्यपृष्ठके ।भवेत्परिसरो मृत्यौ दैवप्रान्तप्रदेशयोः ॥ ९५ ॥
अनुष्टुप्
doubtful
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् चतुरक्षरकाण्डः Nānārthārṇavasaṃkṣepa 6.327 · p. 54
पुत्रे प्रतिसरस्तु स्याद्धस्तसूत्रे नृशण्डयोः ।स्याच्चमूजघने चापि ना त्वारक्षे च मण्डने ॥ ३२७ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् चतुरक्षरकाण्डः Nānārthārṇavasaṃkṣepa 6.329 · p. 54
भेद्यवत् तु नियोज्ये स्यात् त्रिषु तु स्यात् प्रतिष्कशः ।प्रतिगन्तरि प्रष्ठे च सहायेऽप्यथ पुंस्ययम् ॥ ३२९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 रि (wrong syllable)
doubtful
शब्दरत्नावली Śabdaratnāvalī · मथुरेश रेफान्ताः Śabdaratnāvalī 7.27.133 · p. 276
प्रतिसरश्चमूपृष्ठे भेदे माल्ये च कङ्कणे ।मण्डले करसूत्रे च व्रणशुद्धिनियोज्ययोः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 स (wrong syllable)
वैजयन्ती Vaijayantī · यादवप्रकाश नानालिङ्गाध्यायः Vaijayantī 8.5.14 · p. 278
प्रतिष्कशः पुमान् द्यूते त्रिष्वग्रगसहाययोः ।अस्त्री प्रतिसरो हस्तसूत्रे ना तु चमूकटौ ॥ १४ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश नानालिङ्गाध्यायः Vaijayantī 8.5.15 · p. 278
आरक्षे व्रणशुद्धौ च नियोज्ये त्वभिधेयवत् ।पारावतः खगातस्योरीषत्पाण्डौ च पारदे ॥ १५ ॥
अनुष्टुप्
doubtful

प्रतिसर as a meaning in nānārtha verses