कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

कङ्कण

kaṅkaṇaक्ली · neut.

In 19 kośas: 19 synonym verses, 7 as a nānārtha head word, 7 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.663 · p. 28
केयूरमङ्गदं बाहुभूषाथ करभूषणम् ॥ ६६२ ॥कटको वलयं पारिहार्यावापौ तु कङ्कणम् ।हस्तसूत्रं प्रतिसर ऊर्मिका त्वङ्गुलीयकम् ॥ ६६३ ॥
अनुष्टुप्
genderक्लीneut.
अभिधानचिन्तामशिलोञ्छ Abhidhānacintāmaśiloñcha · जिनदेवमुनीश्वर मर्त्यकाण्डः Abhidhānacintāmaśiloñcha 3.58 · p. 3
कर्णान्दूरपि कर्णान्दुः परिहार्योऽपि कङ्कणम् ।
अनुष्टुप्
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह मनुष्यवर्गः Amarakośa 2.6.189
साक्षराङ्गुलिमुद्रा स्यात्कङ्कणं करभूषणम् ।
अनुष्टुप्
genderक्लीneut.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.558 · p. 63
कङ्कणं हस्तसूत्रं च विदुः प्रतिसरं बुधाः ।ग्रीवालङ्करणं सर्वं ग्रैवेयकमितीष्यते ॥ ५५८ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.265 · p. 49
कङ्कणं न स्त्रियां तद्वदंगुलीयकमूर्मिका ।साक्षराङ्गुलिमुद्रा स्यात् करारोहः पुमानथ ॥ २६५ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.156 · p. 478
कार्षापणपक्वणयोर्वारवाणापराह्णयोः ।वाणस्य कङ्कणद्रोणसुवर्णानां तृणस्य च ॥ १५६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ण (wrong syllable)
genderपुंक्लीm. n.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.79 · p. 226
आवापः कङ्कणश्चैव बालकः करभूषणम् ।हस्तसूत्रं प्रतिसरस्त्रिषु रात्नं तु पुष्पकम् ॥ ७९ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पुंनपुंसकलिङ्गाधिकारः Koṣakalpataru 4.5.46 · p. 112
पक्कण-कङ्कण-शिङ्घाणाः स्यु-र्वर्णः शुक्लाद्यक्षरवाची ।वास्तुः सक्तुर्जीवातुः स्या-द्भूतः प्रेते पूर्त-निकेते ॥ ४६ ॥
metre not recognised
genderपुंक्लीm. n.
एते शब्दाः पुंसि भवन्ति । अयं रयो वेगः । मण्डपो जनाश्रयः । नरको दुर्गतिः अवीचिरित्यादि असुरश्च । कपालः शि[सि]रोऽवयवः भिक्षाभाजनं च । गुड इक्षुविकारः । मणिः रत्नम् । मेढ्रः शिश्नम् । दर्दुरो भेकः । कुसूलो धान्यादिस्थित्याधारः । युग्माकाशव्रतशृङ्गवर्जिता इति । युग्मादयश्च नपुंसके भवन्ति । इदं युग्मं युगलम् । आकाशं नभः । व्रतं नियमः । शृङ्गं विषाणं पर्वतस्य च । मञ्चः काष्ठकृतः ।स्थूलालक्तककर्पाससूर्यकूर्पाससारथितरङ्गाः ।अलकसमुडावराटकनूपुरकङ्कणाः पुंसि ॥ ७० ॥
metre not recognised
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.310 · p. 140
कङ्कणं कटकः पारिहार्यो वलयमेव च ।अवापो हस्तसूत्रं चोर्मिका स्यादङ्गुलीयकम् ॥ ३१० ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास पुंनपुंसकलिङ्गसंग्रहः Paramānandīyanāmamālā 6.5.138 · p. 228
पक्कणश्रवणद्रोणकङ्कणाः स्वर्णभूषणे ।दूषणश्चरणो भारणोऽपराह्णस्तृणतोरणौ ॥ १३८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंक्लीm. n.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त मनुष्यमरीचिः Pañcatattvaprakāśa 1.1.99 · p. 7
कङ्कणं वलयं चूली चूलिका वलयोर्मिका ।बाह्वटं बाहुवलयं केयूरं कटकाङ्गदे ॥ ९९ ॥
अनुष्टुप्
genderक्लीneut.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति अङ्गवर्गः Śāradīyākhyanāmamālā 2.1.51 · p. 24
मुद्रिका ऊर्मिका मुद्राभिज्ञानं चाङ्गुलीयकम् ।कटको वलयावापौ कङ्कणं करभूषणम् ॥ ५१ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1075 · p. 166
कङ्कणं हस्तसूत्रं च कटकः करभूषणम् ।वलयं चेति नामानि वदन्ति विबुधाः सदा ॥ १०७५ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.352 · p. 105
कटकञ्च कङ्कणोऽस्त्री कौतुकं करभूषणम् ।करसूत्रं प्रतिसरं चूडा या वाभटीति च ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ञ्च (wrong syllable)
genderपुंक्लीm. n.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि तृतीयः काण्डः Śabdaratnākara 3.214 · p. 206
सारिकाऽप्येकावल्यां तु कण्ठी कण्ठिकया सह ।कटिके तु पारिहार्यः परिहार्यश्च कङ्कणम् ॥ २१४ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 का (wrong syllable); pāda 3, syllable 4 तु (wrong syllable)
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण मनुष्याध्यायः Śabdaratnākara 3.1.1166 · p. 143
समे त्वङ्गदकेयूरे वलयं कटकोऽस्त्रियाम् ।कङ्कणं करभूषा स्यादङ्गुलीयकमूर्मिका ॥ ११६६ ॥
अनुष्टुप्
genderक्लीneut.
झो जिह्वा वामहस्तश्च कङ्कणः कृतमण्डलः ।अकल्पक(त)श्च झङ्कारी दक्षशाखा गुहस्तथा ॥ ३४ ॥
अनुष्टुप्
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव लिङ्गादिसंग्रहः Trikāṇḍaśeṣa 4.12 · p. 276
genderपुंक्लीm. n.
धरणिकोश Dharaṇikośa · धरणिदास णार्धश्लोकः Dharaṇikośa 14.2.7 · p. 51
धर्षणं निधुवने पराभवे धर्षणी च गदिताथ पुंश्चली ।कङ्कणं वरविवाहमुद्रके मण्डने च वलये च शेखरे ॥
रथोद्धता
कोषकल्पतरु Koṣakalpataru · विश्वनाथ णान्ताः Koṣakalpataru 6.15.34 · p. 199
सर्पे शाखिनि धर्मणोऽथ करगे सूत्रेऽस्त्रियां शेखरेभूषाभिद्यपि कङ्कणोऽथ पुरणश्चन्द्रे समुद्रे नरि ।स्यात्पिष्टान्तरवाचि पूरणमथ त्रय्यां भवेत्पूरितेशा[ल्म]ल्यां पटसूत्रके च वनितालिङ्गे भवेत्पूरणी ॥ ३४ ॥
शार्दूलविक्रीडितम्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.326 · p. 75
स्त्रियां स्यात् करकेऽथ क्ली कङ्कणं करभूषणे ।तथा भूषणमात्रे च सूत्रे त्वजय उक्तवान् ॥ ३२६ ॥
अनुष्टुप्
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास ककारादयः Paramānandīyanāmamālā 5.7.130 · p. 178
कुसुमं नेत्ररो[19]गे स्त्रीरजःपुष्पफलेष्वथ ।कङ्कणं मण्डने हस्तभूषणे कमठोऽप्यथ ॥ १३० ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश णान्ताः Śabdaratnāvalī 7.15.29 · p. 209
कङ्कणं मण्डने सूत्रे कौतुके करभूषणे ।करेणुः स्त्री तु हस्तिन्यां मातङ्गे तु भवेत्पुमान् ॥कार्मणः कर्मठे क्लीबं मन्त्रतन्त्रादि योजने ।काकिनीमानदण्डे स्यात्पणतूर्यांशकेपि च ॥
अनुष्टुप्
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.124 · p. 133
पिप्पली द्रौपदी कृष्णा हस्तसूत्रेपि कङ्कणम् ।श्रुतिराधेययोः कर्णः पिप्पल्यां जीरके कणा ॥ १२४ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश नपुंसकलिङ्गाध्यायः Vaijayantī 7.3.11 · p. 250
कामे ख्याते मंगले च हस्तसूत्रेऽपि कंकणम् ।कटित्रं चर्म सुस्यूतं कटीवेष्टनचर्म च ॥ ११ ॥
अनुष्टुप्
doubtful

कङ्कण as a meaning in nānārtha verses

  • धरणिकोश वलयवलयः कण्ठरोगे स्याद्वलयं कङ्कणं विदुः । अनयो विपदि दैवे व्यसने दुर्णयेऽपि च ॥ Dharaṇikośa 25.2.20
  • कोषकल्पतरु प्रतिसरदशपुरं पुरि मुस्तकदेशयोः प्रतिसरस्त्रिषु मण्डनमाल्ययोः । करगतेऽपि च मङ्गलसूत्रके व्रणविशोधनकङ्कणवाचकः ॥ ९४ ॥ Koṣakalpataru 6.27.94
  • परमानन्दीयनाममाला लीलोऽमृते चलने शक्रे ला दाने लीस्तु कङ्कणे । श्लेषबन्धनयोः श्रीश्च सरलद्रवसम्पदोः ॥ ३८ ॥ Paramānandīyanāmamālā 1.38
  • परमानन्दीयनाममाला कटककटकं कङ्कणे सैन्ये राजधानीनितम्बयोः । कुलिकस्तु तरौ नागे कुलश्रेष्ठेऽपि कथ्यते ॥ १२५ ॥ Paramānandīyanāmamālā 5.7.125
  • शब्दरत्नावली वलयपानीयं सलिले क्लीबं पातव्ये पुनरन्यवत् । पौलस्त्यो ना धनाधीशे दशकण्ठे विभीषणे ॥ वलयं कङ्कणे क्लीबं कण्ठरोगे पुमानयम् । वालेयं स्याद्वलिहिते मृदौ त्रिषु खरे पुमान् ॥ ब्राह्मण्यं ब्रह्मवृन्दे स्यात्ब्राह्मणत्वेऽपि न द्वयोः । भरण्युर्ना चण्डभानौ मृगाङ्के च विभावसौ ॥ भुजिष्यः पुंसि दासे स्यात्स्वन्त्रहस्तसूतत्रके । स्त्रियां दासीगणिकयोः स्वतन्त्रायामपि क्वचित् ॥ मलयो ना चलारामदेशेषु स्त्री तथौषधे । मङ्गल्यो ना त्रायमानामसूराश्वत्थबिल्वके ॥ स्त्रियात्तु रोचनाशुक्लवचाशमीमिमीषु च । अधःपुष्प्यां स्त्रियां दध्नि क्लीबं शिवकरे त्रिषु ॥ मृगयुर्ना शृगाले स्याद् व्याधे पितामहेऽपि च । रहस्या स्त्री सरिद्भदे गोपनीयेऽभिधेयवत् ॥ विजया पार्वतीसख्यां तिथिभेदेऽपि च स्त्रियाम् । विजयस्तु जये पुंसि तथा गाण्डीवधन्वनि ॥ विस्मयः पुंसि दर्ये स्यात्स्यन्देहाश्चर्ययोरपि । विषयो यस्य यो ज्ञातस्तत्रदेशे च गोचरे ॥ रूपादौ स्याज्जनपदे कान्तादौ च भवेत्पुमान् ॥ Śabdaratnāvalī 7.26.46
  • शब्दरत्नावली प्रतिसरप्रतिसरश्चमूपृष्ठे भेदे माल्ये च कङ्कणे । मण्डले करसूत्रे च व्रणशुद्धिनियोज्ययोः ॥ Śabdaratnāvalī 7.27.133
  • त्रिकाण्डशेष पुष्पकपर्यस्त्यामपि पल्यङ्कः प्रियको मृगनीपयोः । पुष्पकं कङ्कणेऽपि स्यात्पराको व्रतखड्गयोः ॥ ३१ ॥ Trikāṇḍaśeṣa 3.3.31