कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

अगदंकार

agadaṃkāraपुं · masc.

In 8 kośas: 8 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.473 · p. 22
दोषज्ञस्तु भिषग्वैद्य आयुर्वेदी चिकित्सकः ।रोगहार्यगदंकारो भेषजं तन्त्रमौषधम् ॥ ४७२ ॥भैषज्यमगदो जायुश्चिकित्सा रुक्प्रतिक्रिया ।उपचर्योपचारौ च लङ्घनं त्वपतर्पणम् ॥ ४७३ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.363 · p. 60
वार्त्तोपि स्यादथो वैद्य आयुर्वेदी चिकित्सकः ।रोगहार्यगदंकारो रोगज्ञो जीवदो भिषक् ॥ ३६३ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.77 · p. 313
दोषज्ञस्तु भिषग्वैद्य आयुर्वेदी चिकित्सकः ।स्यादायुर्वेदिकः प्राणाचार्यः प्राणद इत्यपि ।रोगहार्यगदंकारो ग्लानाद्याः स्युर्विशेष्यवत् ॥ ७७ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.135 · p. 118
मान्द्यभेदाश्च विद्रधिभगंदरज्वरादयः ।रोगहारी भिषग्वैद्योऽगदंकारचिकित्सकौ ॥ १३५ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.122 · p. 41
शिश्नपाषाणरोगे स्यादश्मरी मूत्रकृच्छ्रकृत् ।रोगहार्यगदंकारश्चिकित्सायां(त्सुर्यः?) प्रकीर्तितः ॥ १२२ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति पण्डितवर्गः Śāradīyākhyanāmamālā 2.4.143 · p. 33
चिकित्सिको भिषग्वैद्योऽगदंकारश्च रोगहृत् ।चिकित्सितज्ञो दोषज्ञ आयुर्वेदस्तु वैद्यकः ॥ १४३ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण मनुष्याध्यायः Śabdaratnākara 3.1.1111 · p. 137
कुण्ठः क्रियासु मन्दः स्यान्मन्दाभ्यन्तादयस्त्रिषु ।रोगहार्यगदंकारभिषग्वैद्यचिकित्सकाः ॥ ११११ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश भूताध्यायः Vaijayantī 4.4.143 · p. 184
त्रिष्वतः पटुरुल्लाघो वार्तः कल्यो निरामयः ।रोगहार्यगदंकारो भिषग्वैद्यश्चिकित्सकः ॥ १४३ ॥
अनुष्टुप्
genderपुंmasc.