कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

उपचर्या

upacaryāस्त्री · fem.

In 9 kośas: 9 synonym verses, 1 as a nānārtha head word, 1 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.473 · p. 22
दोषज्ञस्तु भिषग्वैद्य आयुर्वेदी चिकित्सकः ।रोगहार्यगदंकारो भेषजं तन्त्रमौषधम् ॥ ४७२ ॥भैषज्यमगदो जायुश्चिकित्सा रुक्प्रतिक्रिया ।उपचर्योपचारौ च लङ्घनं त्वपतर्पणम् ॥ ४७३ ॥
अनुष्टुप्
genderस्त्रीfem.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.612 · p. 69
आयुर्वेदी भिषग्वैद्यो दोषज्ञः स्याच्चिकित्सकः ।उपचर्या चिकित्सा स्यान्निदानं हेतुरुच्यते ॥ ६१२ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.361 · p. 60
उपचर्याथात्मनीनमायुष्यं च हितं च तत् ।पथ्यं स्यादप्यथारोग्यं वार्त्तं पाटवलाघवे ॥ ३६१ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.85 · p. 239
सेवोपास्तिश्च भजनं सेवनं चाप्युपासनम् ।उपचर्योपचारोऽथ प्रतिपत्तिश्च गौ[102b]रवम् ॥ ८५ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.79 · p. 313
उपचर्योपचारोऽथ भे(भै)षज्यं भेषजं स[156b]मे ।तन्त्रं जीवन्त-जायू नागद औषधमस्त्रियाम् ॥ ७९ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.137 · p. 118
उपचारश्चिकित्सा चोपचर्या रुक्प्रतिक्रिया ।क्वाथचूर्णादिभेदेन लङ्घनं त्वपतर्पणम् ॥ १३७ ॥
अनुष्टुप्
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.728 · p. 101
उपचारश्चिकित्सा स्यादुपचर्या रुक्प्रतिक्रिया ॥ ७२८ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि तृतीयः काण्डः Śabdaratnākara 3.94 · p. 196
उपचर्यापि, सत्कृत्यालङ्कृतस्वकनीदये ।कूकुदः कूपदश्चाऽऽपदापदे विपदे विपदा विपद् ॥ ९४ ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश भूताध्यायः Vaijayantī 4.4.139 · p. 184
उपचर्या चिकित्सा स्याल्लंघनं त्वपतर्पणम् ।कुशी भग्नास्थिबन्धः स्यादरिष्टो दंशबन्धनम् ॥ १३९ ॥
अनुष्टुप्
genderस्त्रीfem.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् चतुरक्षरकाण्डः Nānārthārṇavasaṃkṣepa 6.13 · p. 2
इरावती नदीमात्रे नदीभेदेऽप्यथोच्यते ।उपचर्या चिकित्सायां पूजायां चेति मन्वते ॥ १३ ॥
अनुष्टुप्

उपचर्या as a meaning in nānārtha verses