भिषज्
bhiṣajपुं · masc.In 14 kośas: 14 synonym verses, 7 as a meaning of another word.
दोषज्ञस्तु भिषग्वैद्य आयुर्वेदी चिकित्सकः ।रोगहार्यगदंकारो भेषजं तन्त्रमौषधम् ॥ ४७२ ॥भैषज्यमगदो जायुश्चिकित्सा रुक्प्रतिक्रिया ।उपचर्योपचारौ च लङ्घनं त्वपतर्पणम् ॥ ४७३ ॥
अनुष्टुप्
genderपुंmasc.
genderपुंmasc.
आयुर्वेदी भिषग्वैद्यो दोषज्ञः स्याच्चिकित्सकः ।उपचर्या चिकित्सा स्यान्निदानं हेतुरुच्यते ॥ ६१२ ॥
अनुष्टुप्
genderपुंmasc.
वार्त्तोपि स्यादथो वैद्य आयुर्वेदी चिकित्सकः ।रोगहार्यगदंकारो रोगज्ञो जीवदो भिषक् ॥ ३६३ ॥
अनुष्टुप्
genderपुंmasc.
दोषज्ञस्तु भिषग्वैद्य आयुर्वेदी चिकित्सकः ।स्यादायुर्वेदिकः प्राणाचार्यः प्राणद इत्यपि ।रोगहार्यगदंकारो ग्लानाद्याः स्युर्विशेष्यवत् ॥ ७७ ॥
अनुष्टुप्
genderपुंmasc.
भिषक्सहाय-भेषजामयाविनश्चतुर्गुणाः ।चिकित्सितस्य पादकाश्चिकित्सकैर्निरूपिताः ॥ १०० ॥
पञ्चचामरम्
genderपुंmasc.
मान्द्यभेदाश्च विद्रधिभगंदरज्वरादयः ।रोगहारी भिषग्वैद्योऽगदंकारचिकित्सकौ ॥ १३५ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
सांवत्सरो ज्योतिषिको मौहूर्तो गदहा भिषक् ।चिकित्सको भेषजविद्वैद्यो व्यासः पुराणकृत् ॥ २० ॥
अनुष्टुप्
genderपुंmasc.
चिकित्सिको भिषग्वैद्योऽगदंकारश्च रोगहृत् ।चिकित्सितज्ञो दोषज्ञ आयुर्वेदस्तु वैद्यकः ॥ १४३ ॥
अनुष्टुप्
genderपुंmasc.
भिषग्वैद्यस्तु दोषज्ञः आयुर्वेदी चिकित्सकः ।आयुर्वेदिको नामैव रोगहारी भवेज्जनः ॥ ७२६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 को (wrong syllable)
genderपुंmasc.
अर्बुदोऽर्मं दृष्टिरोगेप्यतः शुक्रावधेः त्रिषु ।भिषग्वैद्योऽगदङ्कारो रोगहारी चिकित्सके ॥
अनुष्टुप्
genderपुंmasc.
आयुर्वेद्यायुर्वेदिको भिषग्-भिषज-भिष्णजाः ।जायौ भेषज-भैषज्ये उपचारश्चिकित्सने ॥ ९३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 र्वे (wrong syllable)
genderपुंmasc.
कुण्ठः क्रियासु मन्दः स्यान्मन्दाभ्यन्तादयस्त्रिषु ।रोगहार्यगदंकारभिषग्वैद्यचिकित्सकाः ॥ ११११ ॥
अनुष्टुप्
genderपुंmasc.
त्रिष्वतः पटुरुल्लाघो वार्तः कल्यो निरामयः ।रोगहार्यगदंकारो भिषग्वैद्यश्चिकित्सकः ॥ १४३ ॥
अनुष्टुप्
genderपुंmasc.
भिषज् as a meaning in nānārtha verses
- कोषकल्पतरु दोषज्ञसर्वज्ञः स्मरहरबुद्धयोः कृतज्ञः कार्यज्ञे शुनि च भिषग्विपश्चितोस्तु । दोषज्ञोऽपरनिभ एष दोषविज्ञे क्षेत्रज्ञस्त्रिषु कुशले पुमांस्तु जीवे ॥ ४८ ॥ Koṣakalpataru 6.9.48
- कोषकल्पतरु सुषेणसुग्रीवे करमर्दके भिषजि च श्रीशे सुषेणः पुमा- ************* द्रोषणः कोपने । कुष्ठेऽन्त्ये पशुशृङ्गनागरदयोस्त्रय्यां विषाणं स्त्रियां काकोल्यामजशृङ्गिकास्वथ करेणुः स्याद्गरेणुस्तथा ॥ ३५ ॥ Koṣakalpataru 6.15.35
- कोषकल्पतरु नरेन्द्रवाशुरो नरि खरेऽथ वासिता- रात्रिगो भवति चै[59a]ष योषिति । स्यान्नरेन्द्र इह वार्तिकभूप- कालकूटभिषगर्थक उक्तः ॥ ६९ ॥ Koṣakalpataru 6.27.69
- नानार्थार्णवसंक्षेप दोषज्ञसदेवासत्कृतं सभ्यैर्यत् तत्राप्यथ दुर्विधः । नीचे दरिद्रे दोषज्ञः पुनर्भिषजि पण्डिते ॥ २५ ॥ Nānārthārṇavasaṃkṣepa 3.4.25
- नानार्थार्णवसंक्षेप जैवातृकधने तु क्ली त्रिरायुष्मत्कृषीवलभिषक्षु सः । तपनीयं सुवर्णे क्ली शालिभेदे तु पुंस्ययम् ॥ २४७ ॥ Nānārthārṇavasaṃkṣepa 6.247
- वैजयन्ती दोषज्ञद्रुहिणौ हरिधातारौ शास्त्रोदाहरणयोस्तु दृष्टान्तः । दोषज्ञौ बुधभिषजौ धरुणाः स्तनधातृलोकार्काः ॥ ३२ ॥ Vaijayantī 7.1.32
- वैजयन्ती जैवातृकजैवातृकश्चन्द्रभिषगायुष्मत्सु कृषीवले । अम्ललोण्यां दन्तशठा त्रिष्वम्लेऽम्लगुणे तु ना ॥ ९ ॥ Vaijayantī 8.5.9