प्राणद
prāṇadaक्ली · neut.In 8 kośas: 17 synonym verses, 2 as a nānārtha head word.
रक्तं रुधिरमाग्नेयं विस्रं तेजोभवं रसात् ।शोणितं लोहितमसृक्वासिष्ठं प्राणदासुरे ॥ ६२१ ॥क्षतजं मांसकार्यस्त्रं मांसं पललजङ्गले ।रक्तात्तेजोभवे क्रव्यं काश्यपं तरसामिषे ॥ ६२२ ॥मेदस्कृत्पिशितं कीनं पलं पेश्यस्तु तल्लताः ।
अनुष्टुप्
genderक्लीneut.
नीरं वारि जलं दकं कमुदकं पानीयमम्भः कुशंतोयं जीवनजीवनीयसलिलार्णांस्यम्बु वाः संवरम् ।क्षीरं पुष्करमेघपुष्पकमलान्यापः पयःपाथसीकीलालं भुवनं वनं घनरसो यादोनिवासोऽमृतम् ॥ १०६९ ॥कुलीनसं कबन्धं च प्राणदं सर्वतोमुखम् ।
शार्दूलविक्रीडितम्
genderक्लीneut.
पुंसि क्लीबे च चर्माम्भो रसो नर्यथ शोणितम् ।आसुरं प्राणदं रक्तमाग्नेयं मांसकार्यपि ॥ २२३ ॥
अनुष्टुप्
genderक्लीneut.
जीवको जीवनो जीव्यः शृङ्गाख्यः प्राणदः प्रियः ।चिरञ्जीवी च मधुरो मङ्गल्यः कूर्चशीर्षकः ॥ ५३५ ॥
अनुष्टुप्
genderपुंmasc.
स्त्रियां तृप्तिरिरापः स्त्री भूम्नि पुंसि रसो द्वयोः ।गौः क्लीबे प्राणदं क्षीरं वाश्चापि सलिलं जलम् ॥ ७ ॥
अनुष्टुप्
genderक्लीneut.
आयुर्वृद्धिकरो यज्ञ आयुष्टोमः प्रकीर्तितः ।आयुष्मान् जीवथो जैवातृकः स्याच्चिरजीवनः ॥जीवनीयं जीवहितं प्राणदं च रसायनम् ।जीव्यं त्रिष्वथ जीवातुरस्त्रियां जीवनौषधम् ॥ २८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 जी (wrong syllable)
genderविadj.
सम्बर-शम्बर-कीलालान्न-प्राणद-पुष्कर-नीरापांसि ।पिप्पल-वैष्प(?)-कुलीनस-नारं शरमृत[63b]मूषः(?) सर्वग-तोयम् ॥ २ ॥
metre not recognised
genderक्लीneut.
ह्रस्वाङ्गः प्राणदः श्रेयान्दीर्घायुः स्वरदः शमी ।ऋषभो वृषभः शृङ्गी ककुद्मान्पृषतीपतिः ॥ ४७ ॥
अनुष्टुप्
genderपुंmasc.
मांसकृच्छोणितमसृग्वाशिष्टं प्राणदं तथा ।आसुरं क्षतजन्माथ क्रव्यं पललमस्रजम् ॥ ३२ ॥
अनुष्टुप्
genderक्लीneut.
दोषज्ञस्तु भिषग्वैद्य आयुर्वेदी चिकित्सकः ।स्यादायुर्वेदिकः प्राणाचार्यः प्राणद इत्यपि ।रोगहार्यगदंकारो ग्लानाद्याः स्युर्विशेष्यवत् ॥ ७७ ॥
अनुष्टुप्
genderपुंmasc.
आपः स्त्रियां बहुत्वे च मेघपुष्पार्णसी मते ।अमृतं प्राणदं नारं ? जीवनीयाम्बुनी अपि ॥ ३४६ ॥
अनुष्टुप्
genderक्लीneut.
आग्नेयं लोहितं विस्रं वाशिष्ठं प्राणदं समम् ।आसुरं क्षतजं चास्रमसृग्मांसकरं हि तत् ॥ २७८ ॥
अनुष्टुप्
genderक्लीneut.
अस्रमसृक् च वाशिष्ठं प्राणदं क्षतजं तथा ।विस्त्रं रसभवं शोध्यं मांसकारि च शोणितम् ॥ १००१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 म (wrong syllable)
genderक्लीneut.
पानीयं प्राणदं पाथो मेघपुष्पं च पुष्करम् ।शंवरं संवरं तोयं कीलालं सलिलं कुशम् ॥ १८५५ ॥
अनुष्टुप्
genderक्लीneut.
विश्वात्मा प्राणदः शंभुर्द्रुहिणश्च सनातनः ।मुञ्जकेशो मुररिपुः पुराणपुरुषोऽजितः ॥ १७४४ ॥
अनुष्टुप्
genderपुंmasc.
पद्मभूः प्राणदो वेधा द्रुघणो नाभिजो विधिः ।वाग्वाणी भारती भाषा गौर्गीर्ब्राह्मी सरस्वती ॥ ९ ॥
अनुष्टुप्
genderपुंmasc.
आग्नेयं प्राणदं विस्रं वासिष्ठं शोणितासृजी ।मांसं तु काश्यपं क्रव्यं तरसं पललं पलम् ॥ १०६ ॥
अनुष्टुप्
genderक्लीneut.
प्राकाशस्तु पुमाञ्ज्ञेयः कुण्डलाभरणे त्रि तु ।प्रकाशसम्बन्धिनि हि प्राणदस्तु चिकित्सके ॥ ११२६ ॥
अनुष्टुप्
meaningsचिकित्सक
ना प्राणस्य पुनस्त्रि स्याद् दातरि प्राणदा पुनः ।हरीतक्यामृद्धिनाम्न्यामोषधौ च नपि त्वदः ॥ ११२७ ॥
अनुष्टुप्
meaningsप्राणदातृ