भैषज्य
bhaiṣajyaक्ली · neut.In 13 kośas: 11 synonym verses, 6 as a meaning of another word.
दोषज्ञस्तु भिषग्वैद्य आयुर्वेदी चिकित्सकः ।रोगहार्यगदंकारो भेषजं तन्त्रमौषधम् ॥ ४७२ ॥भैषज्यमगदो जायुश्चिकित्सा रुक्प्रतिक्रिया ।उपचर्योपचारौ च लङ्घनं त्वपतर्पणम् ॥ ४७३ ॥
अनुष्टुप्
genderक्लीneut.
genderक्लीneut.
जाङ्गुलिको विषभिषक् व्यालग्राह्याहितुण्डिकः ।भैषज्यं भेषजं जायुरगदस्तन्त्रमौषधम् ॥ ६१३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 लि (wrong syllable)
genderक्लीneut.
यथा ज्वरितकण्डूलार्शसक्षयितदद्रुणाः ।त्रिष्वथो भेषजं क्लीबे भैषज्यं च भिषग्जितम् ॥ ३५९ ॥
अनुष्टुप्
genderक्लीneut.
उपचर्योपचारोऽथ भे(भै)षज्यं भेषजं स[156b]मे ।तन्त्रं जीवन्त-जायू नागद औषधमस्त्रियाम् ॥ ७९ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
दोषज्ञश्च तथा चायुर्वेदी भेषजमौषधम् ।भैषज्यमगदस्तन्त्रं जायुरप्युच्यते बुधैः ॥ १३६ ॥
अनुष्टुप्
genderक्लीneut.
औषधमगदस्तन्त्रं भैषज्यं चापि भेषजम् ॥ ७२७ ॥
metre not recognised
genderक्लीneut.
औषधं भेषजं जायुर्भैषज्यमगदोऽपि च ।उपतापो रुजा रुक् स्त्री रोगव्याध्यामया गदः ॥
अनुष्टुप्
genderक्लीneut.
आयुर्वेद्यायुर्वेदिको भिषग्-भिषज-भिष्णजाः ।जायौ भेषज-भैषज्ये उपचारश्चिकित्सने ॥ ९३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 र्वे (wrong syllable)
genderक्लीneut.
भेषजभैषज्यौषधमगदो जायुश्च शुक्रवीर्ये तु ।रेतस्तेजश्चेन्द्रियबीजे करणं समे हृद्धृदये ॥ १११२ ॥
गीतिःmetre not read in every line
genderक्लीneut.
जायुः पुंस्यगदस्तन्त्रं भैषज्यौषधभेषजम् ।क्वाथः कषायो निर्यूहः फाण्टोऽतिक्वाथजो रसः ॥ १४१ ॥
अनुष्टुप्
genderक्लीneut.
भैषज्य as a meaning in nānārtha verses
- धरणिकोश योगयोगः स्यात्सदुपायसंनहनयोर्भैषज्यसंयोगयो- र्विष्कम्भादिषु योग आत्ममनसोः संनीलतायामपि । संबन्धेऽपि च कार्मणेऽपि च तथा ध्याने च लाभेऽप्यसौ योगः सद्भिरुदीरितोऽथ वपुषः स्थैर्ये प्रयोगेऽपि च ॥ Dharaṇikośa 3.3.5
- धरणिकोश तन्त्रतन्त्रं कारणशास्त्रयोश्च शपथे भैषज्यसिद्धान्तयो- र्मुख्यार्थेऽपि परिच्छदेऽपि च तथा तन्त्रं कुटुम्बात्मनि । तन्त्रं शाकटसूत्रछन्दमुभयार्थप्रयोजकस्तु सः तन्त्रीः स्यात्तु विपञ्चिकादिकगुणे स्याद्देह[85]नाडीषु च ॥ Dharaṇikośa 26.3.3
- नानार्थार्णवसंक्षेप झषभैषज्ये ना तु विपिने द्वे मत्स्ये मकरेऽपि च । झरो ना निर्झरे स्त्री तु झरा स्याज्झरणे त्रि तु ॥ ४९७ ॥ Nānārthārṇavasaṃkṣepa 2.5.497
- नानार्थार्णवसंक्षेप नटीशैलालिनि नटी तु स्त्री स्याद्विद्रुमलताह्वये । भैषज्य इति कोऽप्याह परे त्वेतदसाध्विति ॥ ६५६ ॥ Nānārthārṇavasaṃkṣepa 2.5.656
- नानार्थार्णवसंक्षेप सहाबलासंज्ञे च भैषज्यस्तम्बयोरोषधावपि । मुद्गपर्ण्यभिधानायां भेद्यलिङ्गं तु सोढरि ॥ १४४५ ॥ Nānārthārṇavasaṃkṣepa 2.5.1445
- नानार्थार्णवसंक्षेप अञ्जनकेशीभैषज्यभेदे हट्टस्थविलासिन्यां च सा स्मृता ॥ १-१/२ ॥ Nānārthārṇavasaṃkṣepa 8.2