औषध
auṣadhaक्ली · neut.In 14 kośas: 21 synonym verses, 21 as a meaning of another word.
दोषज्ञस्तु भिषग्वैद्य आयुर्वेदी चिकित्सकः ।रोगहार्यगदंकारो भेषजं तन्त्रमौषधम् ॥ ४७२ ॥भैषज्यमगदो जायुश्चिकित्सा रुक्प्रतिक्रिया ।उपचर्योपचारौ च लङ्घनं त्वपतर्पणम् ॥ ४७३ ॥
अनुष्टुप्
genderक्लीneut.
कर्चूरको द्राविडकः काल्पको वेधमुख्यकः ।ओषध्यो जातिमात्रे स्युरजातौ सर्वमौषधम् ॥ १३५ ॥
अनुष्टुप्
genderक्लीneut.
genderक्लीneut.
जाङ्गुलिको विषभिषक् व्यालग्राह्याहितुण्डिकः ।भैषज्यं भेषजं जायुरगदस्तन्त्रमौषधम् ॥ ६१३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 लि (wrong syllable)
genderक्लीneut.
गृहार्थे सौकपोलूस्त्री विक्षिप्तस्वस्तरो ह्यसौ ।ओषध्यो जातिमात्राः स्युरजातौ सर्वमौषधम् ॥ २७३ ॥
अनुष्टुप्
genderक्लीneut.
औषधं चागदं जायुः पुंस्यथापि च निग्रहः ।उपचारश्चोपशमश्चिकित्सा रुक् प्रतिक्रिया ॥ ३६० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 श्चो (wrong syllable)
genderक्लीneut.
अन्धसौधौषधानां च राजादनवितानयोः ।शिश्नचन्दनमौनानां गन्धमादनपीनयोः ॥ १६३ ॥
अनुष्टुप्
genderपुंक्लीm. n.
अन्तरापथिका माता भवेन्मधुफला च सा ।ओषध्यो जातिमात्रे स्युरजातौ सर्वमौषधम् ॥ ४२ ॥
अनुष्टुप्
genderक्लीneut.
उपचर्योपचारोऽथ भे(भै)षज्यं भेषजं स[156b]मे ।तन्त्रं जीवन्त-जायू नागद औषधमस्त्रियाम् ॥ ७९ ॥
अनुष्टुप्metre not read in every line
genderपुंक्लीm. n.
श्राद्धो[232b]त्सेध-कबन्ध-सौध-मधु चान्धं चायुधं चौषधंमौनं मानविमानयानपुलिनापीनोदपानासनम् ।उद्यानं नलिनं खलीनखलिनस्थानाभिधानौदन-ब्रह्मप्रेमसमानजानुनिधनप्रस्फोटनं पक्ष्म च ॥ ५० ॥
शार्दूलविक्रीडितम्metre not read in every line
श्राद्धपुंक्लीउत्सेधपुंक्लीकबन्धपुंक्लीसौधपुंक्लीमधुपुंक्लीअन्धपुंक्लीआयुधपुंक्लीऔषधपुंक्लीमौनपुंक्लीमानपुंक्लीविमानपुंक्लीयानपुंक्लीपुलिनपुंक्लीआपीनपुंक्लीउदपानपुंक्लीआसनपुंक्लीउद्यानपुंक्लीनलिनपुंक्लीखलीनपुंक्लीखलिनपुंक्लीस्थानपुंक्लीअभिधानपुंक्लीओदनपुंक्लीब्रह्मन्पुंक्लीप्रेमन्पुंक्लीसमानपुंक्लीजानुपुंक्लीनिधनपुंक्लीप्रस्फोटनपुंक्लीपक्ष्मन्पुंक्ली
genderपुंक्लीm. n.
कोशमस्त्री हिरण्यं च हेमरूप्यं कृताकृतम् ।ओषध्यो जातिमात्रं स्युरजातौ सर्वमौषधम् ॥ २१९ ॥
अनुष्टुप्
genderक्लीneut.
दोषज्ञश्च तथा चायुर्वेदी भेषजमौषधम् ।भैषज्यमगदस्तन्त्रं जायुरप्युच्यते बुधैः ॥ १३६ ॥
अनुष्टुप्
genderक्लीneut.
श्राद्धौषधकबन्धानि गन्धमादनचन्दनौ ।प्रस्फोटनपिधाने च लग्नराजादनाशनाः ॥ १४३ ॥
अनुष्टुप्
genderपुंक्लीm. n.
औषधमगदस्तन्त्रं भैषज्यं चापि भेषजम् ॥ ७२७ ॥
metre not recognised
genderक्लीneut.
ओषधिर्जातिमात्रे स्यादजातौ सर्वमौषधम् ।पत्रपुष्पादिकं शाकं लोकशास्त्रानुसारतः ॥
अनुष्टुप्
genderक्लीneut.
औषधं भेषजं जायुर्भैषज्यमगदोऽपि च ।उपतापो रुजा रुक् स्त्री रोगव्याध्यामया गदः ॥
अनुष्टुप्
genderक्लीneut.
भेषजभैषज्यौषधमगदो जायुश्च शुक्रवीर्ये तु ।रेतस्तेजश्चेन्द्रियबीजे करणं समे हृद्धृदये ॥ १११२ ॥
गीतिःmetre not read in every line
genderक्लीneut.
काकोदरी भुजङ्गी च व्याली विषधरापि च ।कथाप्रसङ्गस्तु विषवैद्ये स्यात्तन्त्रमौषधम् ॥ १७८२ ॥
अनुष्टुप्
genderक्लीneut.
दोर्गडुर्बाहुकुण्टः स्यादौषधं तु भिषग्जितम् ।त्वक्पुष्पिका किलासं स्थाच्छ्लीपदं पादगण्डिरः ॥ १३ ॥
अनुष्टुप्
genderक्लीneut.
ओषध्यो जातिमात्रे स्युरजातौ सर्वमौषधम् ।स्त्री शुण्ठिरूषणं विश्वभेषजं सिंहलं कटम् ॥ ७५ ॥
अनुष्टुप्
genderक्लीneut.
जायुः पुंस्यगदस्तन्त्रं भैषज्यौषधभेषजम् ।क्वाथः कषायो निर्यूहः फाण्टोऽतिक्वाथजो रसः ॥ १४१ ॥
अनुष्टुप्
genderक्लीneut.
औषध as a meaning in nānārtha verses
- कोषकल्पतरु पुण्डरीकस्यात्सोमवल्कः खदिरे सितेऽपि प्रकीर्यके कट्फलकेऽपि तद्वत् । श्वेतातपत्रे सितवारि[259b]जे च तथौषधेऽन्त्ये किल पुण्डरीकम् ॥ ५५ ॥ Koṣakalpataru 6.1.55
- कोषकल्पतरु पुष्करहस्तिहस्ताग्रके द्वीपतीर्थान्तरे वारिजे चौषधेऽसेः फले सायके । पुंसि रागो[रगे]वृष्णिपक्ष्यन्तरे सङ्गरस्तु प्रतिज्ञाक्रियाकारयोः ॥ ३२ ॥ Koṣakalpataru 6.27.32
- कोषकल्पतरु पाकलनिष्कलस्तु कलया विवर्जिते नष्टबीजकनरे तु वाच्यवत् । पाकलं भवति कुष्ठ औषधे कुञ्जरज्वरगतो नृलिङ्गकः ॥ २८ ॥ Koṣakalpataru 6.28.28
- कोषकल्पतरु वाराहीगृष्ट्यौषधेऽपि मातृप्रभेद उक्ता च वाराही । एलापर्ण्यां सुवहा गोधापद्यां च शल्लक्याम् ॥ ५४ ॥ Koṣakalpataru 6.32.54
- नानार्थार्णवसंक्षेप तन्त्रशास्त्रौषधान्त्रमुख्येषु प्रयोगेऽध्वरकर्मणाम् । एकस्यैवोभयार्थत्वे कुटुम्बव्यापृतावपि ॥ २६ ॥ Nānārthārṇavasaṃkṣepa 2.3.26
- नानार्थार्णवसंक्षेप द्रव्यऔषधे पित्तले योग्यऋक्सामेष्विष्टिगामिषु । दानं हस्तिमदे त्यागे खण्डने लवने क्षये ॥ ३१ ॥ Nānārthārṇavasaṃkṣepa 2.3.31
- नानार्थार्णवसंक्षेप जीवातुस्याज्जीवनौषधे केचित् त्वौषधे सलिलान्नयोः । द्रव्ये च रभसस्त्वाह जीवे बहुविदां वरः ॥ ८०८ ॥ Nānārthārṇavasaṃkṣepa 4.808
- नानार्थार्णवसंक्षेप महौषधशुण्ठ्यामतिविषायां च लशुने चाथ पुन्नपोः । औषधे महति स्यात् तु दशस्वपि पलण्डुषु ॥ ४७० ॥ Nānārthārṇavasaṃkṣepa 6.470
- परमानन्दीयनाममाला खण्डपर्शुखञ्जरीटः पक्षिभेदे कृपाणव्रतचारिणि । खण्डपर्शुर्महादेवे राहावौषधरामयोः ॥ १४८ ॥ Paramānandīyanāmamālā 5.8.148
- परमानन्दीयनाममाला द्रविणद्रविणं द्युम्नवद्द्रव्ये सङ्घौषधपराक्रमे । द्वितीया गेहिनीतिथ्योर्दारदः पारदे विषे ॥ २४१ ॥ Paramānandīyanāmamālā 5.16.241
- शब्दरत्नावली मदनशलाकाशृङ्गीमत्स्ये ग्रामयुद्धे ग्राममद्गुरिका भवेत् । अथ कामोद्दीपके स्यात् औषधे सारिकासु च । कोकिलायाञ्च मदनशलाका परिकीर्तिता ॥ Śabdaratnāvalī 7.1.218
- शब्दरत्नावली खरऐन्द्रिर्जयन्ते काके ना स्त्री शचीशिवयोरपि । ओड्रः पुंभूम्नि देशे स्यात्तरुभेदे पुमानयम् ॥ करो रश्मौ च करके शुण्डप्रत्यायपाणिषु । कद्रुस्त्रिषु पिशङ्गे स्यान्नागमातरि तु स्त्रियाम् ॥ कारो हिमगिरौ यत्ने वलौ पत्यौ वधे पुमान् । कारा स्त्रियां बन्धगृहे बन्धे दूत्यां प्रसेवके ॥ कारिः क्रियायां स्त्रीलिङ्गो वाच्यलिङ्गस्तु शिल्पिनी । क्रूरं स्यात्कठिने घोरे नृशंसेऽपि च वाच्यवत् ॥ कारुस्त्वष्टरि पुंसि स्यात्त्रिषु कर्तरि शिल्पिनि । कीरः शुके देशभेदे क्लीबं स्यान्नीरदुग्धयोः ॥ कुरुर्ना भक्तनृपयोः पुंबहुत्वे च निवृति । क्षुद्रः क्रूरेऽधमेऽल्पे च कृपणेऽपि च वाच्यवत् ॥ क्षुद्रा व्यङ्गानटीधृष्टाबृहतीसरधासु च । चाङ्गेरी मक्षिकामात्रे हिंस्रा वादरतासु च ॥ क्षुरः स्याच्छेदनद्रव्ये कोकिलाक्षे च गोक्षुरे । खुरः शफे कोलदले तथा छेदनवस्तुनि ॥ क्रोष्ट्री कृष्णविदार्युक्ताशृगालीलाङ्गलीषु च । खरो धर्मे गर्दभे ना तीक्ष्यो त्रिष्वौषधे स्त्रियाम् ॥ खरुर्दर्पे हरे दन्ते हये ना धवले त्रिषु ॥ Śabdaratnāvalī 7.27.7
- शब्दरत्नावली तन्त्रकुस्तुम्बुरुण्यतिच्छत्रे छत्रः पर्वतभिद्यपि । तन्त्रं प्रधाने सिद्धान्ते तन्त्रवाये परिच्छदे ॥ कुटुम्बकृत्ये हेतौ स्यादुभयार्थप्रयोजके । इतिकर्तव्यतोषध्योः श्रुतिशाखान्तरेऽपि च ॥ शास्त्रभेदे प्रबन्धे च तन्त्री वीणागुणे स्त्रियाम् । गुडूची देहशिरयोर्नदीभिद्युवतीभिदोः ॥ तन्त्रा स्यात्तु प्रमीलायां निद्रायामपि च स्त्रियाम् ॥ Śabdaratnāvalī 7.27.13
- शब्दरत्नावली वालबालः केशे शिशौ मूर्खे वालधौ वालमौषधौ । बालाऽलङ्कारभेदे स्याद्योषिति स्त्रीत्रुटावपि ॥ Śabdaratnāvalī 7.28.28
- शब्दरत्नाकर तन्त्रदृङ्मध्यरज्जुसुग्रीवजायासु स्त्री त्रिषूज्ज्वले । तन्त्रं स्यादौषधे शास्त्रराष्ट्रचिन्तानवाम्बरे ॥ १९३० ॥ Śabdaratnākara 4.1.1930
- शब्दरत्नाकर पद्मपद्मोऽस्त्री पङ्कजे ना तु निधौ व्यूहेऽहिपुंगवे । स्त्री श्रियामौषधे षण्डः संख्यायां गजबिन्दुषु ॥ १९५५ ॥ Śabdaratnākara 4.1.1955
- शब्दरत्नाकर बलसहायस्थौल्यसैन्येषु शक्तौ क्लीबे बलौलौषधे । जन्मसंसारसात्तासु भद्रे भूतपतौ भवः ॥ १९६७ ॥ Śabdaratnākara 4.1.1967
- त्रिकाण्डशेष योगयोगश्चारेऽपूर्वलाभे सूत्रे विश्रब्धघातिनि । उपाये सङ्गतौ ध्यानौषधसन्नाहयुक्तिषु ॥ ६७ ॥ Trikāṇḍaśeṣa 3.3.67
- त्रिकाण्डशेष दन्तविसृष्टे रक्षिते दत्तं द्रुतं शीघ्रविलीनयोः । दशने शैलशृङ्गे च दन्तः स्यादौषधे स्त्रियाम् ॥ १६० ॥ Trikāṇḍaśeṣa 3.3.160
- त्रिकाण्डशेष ऋद्धिउपाधिरुग्रगन्धरन्तु वचा क्षेत्रयमानिके । उपलब्धिर्मतिप्राप्त्योरृद्धिः सम्पदि चौषधे ॥ २१६ ॥ Trikāṇḍaśeṣa 3.3.216
- वैजयन्ती तन्त्रतंत्रं स्वराष्ट्रव्यापारे तन्तुवाने परिच्छदे । शास्त्रौषधान्त्रमुख्येषु प्रयोगेऽध्वरकर्मणां ॥ ११ ॥ Vaijayantī 6.3.11