वैद्य
vaidyaपुं · masc.In 15 kośas: 14 synonym verses, 1 as a nānārtha head word, 4 as a meaning of another word.
दोषज्ञस्तु भिषग्वैद्य आयुर्वेदी चिकित्सकः ।रोगहार्यगदंकारो भेषजं तन्त्रमौषधम् ॥ ४७२ ॥भैषज्यमगदो जायुश्चिकित्सा रुक्प्रतिक्रिया ।उपचर्योपचारौ च लङ्घनं त्वपतर्पणम् ॥ ४७३ ॥
अनुष्टुप्
genderपुंmasc.
genderपुंmasc.
आयुर्वेदी भिषग्वैद्यो दोषज्ञः स्याच्चिकित्सकः ।उपचर्या चिकित्सा स्यान्निदानं हेतुरुच्यते ॥ ६१२ ॥
अनुष्टुप्
genderपुंmasc.
वार्त्तोपि स्यादथो वैद्य आयुर्वेदी चिकित्सकः ।रोगहार्यगदंकारो रोगज्ञो जीवदो भिषक् ॥ ३६३ ॥
अनुष्टुप्
genderपुंmasc.
महिषी मुख्यमन्त्री च वैद्यश्चेति पठन्ति ये ।तेषामिमे त्रयः स्वीयाश्चाराणां स्युरगोचराः ॥ ११३ ॥
अनुष्टुप्
genderपुंmasc.
दोषज्ञस्तु भिषग्वैद्य आयुर्वेदी चिकित्सकः ।स्यादायुर्वेदिकः प्राणाचार्यः प्राणद इत्यपि ।रोगहार्यगदंकारो ग्लानाद्याः स्युर्विशेष्यवत् ॥ ७७ ॥
अनुष्टुप्
genderपुंmasc.
मान्द्यभेदाश्च विद्रधिभगंदरज्वरादयः ।रोगहारी भिषग्वैद्योऽगदंकारचिकित्सकौ ॥ १३५ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
कर्मिणी पूर्वमीमांसा गहना मोहिनी समा ।वेदान्तशास्त्रे वैद्यं स्यादकर्ता च स्वमोहिनी ॥ २३ ॥
अनुष्टुप्
genderक्लीneut.
सांवत्सरो ज्योतिषिको मौहूर्तो गदहा भिषक् ।चिकित्सको भेषजविद्वैद्यो व्यासः पुराणकृत् ॥ २० ॥
अनुष्टुप्
genderपुंmasc.
चिकित्सिको भिषग्वैद्योऽगदंकारश्च रोगहृत् ।चिकित्सितज्ञो दोषज्ञ आयुर्वेदस्तु वैद्यकः ॥ १४३ ॥
अनुष्टुप्
genderपुंmasc.
भिषग्वैद्यस्तु दोषज्ञः आयुर्वेदी चिकित्सकः ।आयुर्वेदिको नामैव रोगहारी भवेज्जनः ॥ ७२६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 को (wrong syllable)
genderपुंmasc.
अर्बुदोऽर्मं दृष्टिरोगेप्यतः शुक्रावधेः त्रिषु ।भिषग्वैद्योऽगदङ्कारो रोगहारी चिकित्सके ॥
अनुष्टुप्
genderपुंmasc.
कुण्ठः क्रियासु मन्दः स्यान्मन्दाभ्यन्तादयस्त्रिषु ।रोगहार्यगदंकारभिषग्वैद्यचिकित्सकाः ॥ ११११ ॥
अनुष्टुप्
genderपुंmasc.
त्रिष्वतः पटुरुल्लाघो वार्तः कल्यो निरामयः ।रोगहार्यगदंकारो भिषग्वैद्यश्चिकित्सकः ॥ १४३ ॥
अनुष्टुप्
genderपुंmasc.
कर्मण्युपाये निकृतौ कृतौ चक्रिया त्रयी तु त्रितये त्रिवेद्याम् ।बुद्धौ पुरन्ध्र्यामथ वैद्यमाहुःसर्वज्ञरोगप्रतिकारिणोश्च ॥ ५४ ॥
उपजातिः
वैद्य as a meaning in nānārtha verses
- कोषकल्पतरु जीवदमत्ते च हर्षे प्रमदः स्त्रियां स्त्री व्यक्ते सिते स्याद्विशदोऽथ वैद्ये । स्याज्जीवदो द्विष्यथ वालिसूनौ स्यादङ्गदो बाहुविभूषणेऽन्त्ये ॥ ३० ॥ Koṣakalpataru 6.19.30
- नानार्थार्णवसंक्षेप जीवदवैद्ये च भेद्यवत् त्वेष जीवस्य स्यात् प्रदातरि । जीवस्य स्थाच्छेत्तरि च जीवातुस्तु नृशण्डयोः ॥ ८०७ ॥ Nānārthārṇavasaṃkṣepa 4.807
- शब्दरत्नावली जीवदगानर्दं सारसे क्लीबं कैवर्तीमुस्तकेऽपि च । जलदो मुस्तके मेघे जीवदो वैरिवैद्ययोः ॥ Śabdaratnāvalī 7.18.14
- त्रिकाण्डशेष सुषेणस्थाणू शङ्कुशिवौ विष्णौ सुषेणः करमर्दके । कपिवैद्यौ चाथऽहृतौ हरणं यौतकेऽपि च ॥ १४२ ॥ Trikāṇḍaśeṣa 3.3.142