आयुर्वेदिन्
āyurvedinपुं · masc.In 8 kośas: 8 synonym verses.
दोषज्ञस्तु भिषग्वैद्य आयुर्वेदी चिकित्सकः ।रोगहार्यगदंकारो भेषजं तन्त्रमौषधम् ॥ ४७२ ॥भैषज्यमगदो जायुश्चिकित्सा रुक्प्रतिक्रिया ।उपचर्योपचारौ च लङ्घनं त्वपतर्पणम् ॥ ४७३ ॥
अनुष्टुप्
genderपुंmasc.
आयुर्वेदी भिषग्वैद्यो दोषज्ञः स्याच्चिकित्सकः ।उपचर्या चिकित्सा स्यान्निदानं हेतुरुच्यते ॥ ६१२ ॥
अनुष्टुप्
genderपुंmasc.
वार्त्तोपि स्यादथो वैद्य आयुर्वेदी चिकित्सकः ।रोगहार्यगदंकारो रोगज्ञो जीवदो भिषक् ॥ ३६३ ॥
अनुष्टुप्
genderपुंmasc.
दोषज्ञस्तु भिषग्वैद्य आयुर्वेदी चिकित्सकः ।स्यादायुर्वेदिकः प्राणाचार्यः प्राणद इत्यपि ।रोगहार्यगदंकारो ग्लानाद्याः स्युर्विशेष्यवत् ॥ ७७ ॥
अनुष्टुप्
genderपुंmasc.
दोषज्ञश्च तथा चायुर्वेदी भेषजमौषधम् ।भैषज्यमगदस्तन्त्रं जायुरप्युच्यते बुधैः ॥ १३६ ॥
अनुष्टुप्
genderपुंmasc.
भिषग्वैद्यस्तु दोषज्ञः आयुर्वेदी चिकित्सकः ।आयुर्वेदिको नामैव रोगहारी भवेज्जनः ॥ ७२६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 को (wrong syllable)
genderपुंmasc.
आयुर्वेद्यायुर्वेदिको भिषग्-भिषज-भिष्णजाः ।जायौ भेषज-भैषज्ये उपचारश्चिकित्सने ॥ ९३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 र्वे (wrong syllable)
genderपुंmasc.
निदानज्ञस्तु दोषज्ञ आयुर्वेदी तु शास्त्रवित् ।आतुरोऽभ्यमितोऽभ्यान्तो विकृतो व्याधितोऽपटुः ॥ १४४ ॥
अनुष्टुप्
genderपुंmasc.