अतीत
atītaवि · adj.In 9 kośas: 1 synonym verse, 26 as a meaning of another word.
अतिक्रान्ते तीता-तीते, गवेषिते तु मार्गितम् ।मृगितवदन्विष्टं स्याद्, अन्वेषितमीप्सिते ॥ ७७ ॥
metre not recognised
genderविadj.
अतीत as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् भूतयुक्ते क्ष्मादावृते भूतं प्राण्यतीते समे त्रिषु । Amarakośa 3.3.152
- नामलिङ्गानुशासनम् वृत्तवृत्तं पद्ये चरित्रे त्रिष्वतीते दृढनिस्तले ॥ ७८ ॥ Amarakośa 3.3.78
- हलायुधकोशः (अभिधानरत्नमाला) भूतचतुर्विधेषु जीवेषु पृथिव्यादिषु पञ्चसु । अतीते देवयोनौ च भूतशब्दं प्रचक्षते ॥ ८५९ ॥ Abhidhānaratnamālā (Halāyudha) 5.859
- धरणिकोश वृत्तवृत्तं दृढमधीतं च वृत्तं वृत्तौ मृतेऽपि च । चरित्रच्छन्दसोर्वृत्तं वर्तनातीतयोरपि ॥ Dharaṇikośa 15.3.3
- धरणिकोश नुनु वितर्केऽप्यनुनये प्रश्नातीतार्थयोश्च नु । न निषेधे इवात्यर्थे स्यादतीतेऽनुनयेऽपि च ॥ Dharaṇikośa 34.11.1
- धरणिकोश विवि श्रेष्ठातीतनानार्थो बिः स्यात्पक्षी त्वनव्ययम् । वै स्यात्संबोधने पादपूरणेऽनुनयेऽपि च ॥ Dharaṇikośa 34.13.2
- धरणिकोश स्मस्म पादपूरणेऽतीते उं प्रश्नेऽङ्गीकृतौ रुषि ॥ Dharaṇikośa 34.15.1
- धरणिकोश पुरापुरात्यर्थे पुराणे च प्रबन्धातीतभाविषु । उरर्युरुरी चोरी च विस्तारेऽङ्गीकृतौ त्रयम् ॥ Dharaṇikośa 34.16.3
- धरणिकोश निस्निर्निश्चये निषेधे च साकल्यातीतयोरपि । मुहुः पुनः [पुनः] ख्यातः प्रकृतेऽर्थे त्वनव्ययम् ॥ Dharaṇikośa 34.20.3
- कोषकल्पतरु नुउत्स्यात्प्रकाशप्रबलत्वशक्ति[244b] वियोगसामर्थ्यविलङ्घनेषु । अद्धा स्फुटे स्यान्नियमेऽथ नु स्या- त्प्रश्ने वितर्केऽनुनयेऽप्यतीते ॥ १०० ॥ Koṣakalpataru 5.1.100
- कोषकल्पतरु पुराप्राधान्यहिंसागतिधर्षणेषु प्रातीप्यवैमुख्यभृशाभिमुख्ये । विमोक्षविक्रान्तिवधे परा स्या- त्पुरा पुराणे निकटेऽप्यतीते ॥ १४ ॥ Koṣakalpataru 5.1.14
- कोषकल्पतरु विव स्यादपूर्तावुपमार्थके च विकल्पसादृश्यसमुच्चये वा । वि तु प्रशस्ये विशयेऽप्यतीते प्रसादसंबोधनपूरणे वै ॥ १९ ॥ Koṣakalpataru 5.1.19
- कोषकल्पतरु वृत्तछन्दस्यपि स्त्री न दृढे त्वतीते मृते वृते वर्तुलकेऽन्यवच्च । अन्तो विनाशे चरमे स्वरूपे प्रान्ते तु न स्त्री निकटे त्रिलिङ्ग्याम् ॥ ३० ॥ Koṣakalpataru 6.16.30
- नानार्थार्णवसंक्षेप गतग्रामादौ ढौकितवति तथातीतेऽपि सज्जनः । गीतिप्रकृतिशब्देषु ये तालव्याः स्थिता अचः ॥ ३३६ ॥ Nānārthārṇavasaṃkṣepa 2.5.336
- नानार्थार्णवसंक्षेप भूतन्याय्ये प्राणिनि चान्यस्तु वाच्ययोरेतयोस्त्रिषु । अतीततुल्यलब्धेषु देवयोन्यन्तरे पुनः ॥ ९१४ ॥ Nānārthārṇavasaṃkṣepa 2.5.914
- नानार्थार्णवसंक्षेप वृत्तअतीताधीतकठिनवर्तुलेषु वृतेऽथ नप् । वृन्तं तरूणां प्रसवबन्धने चूचुकेऽथ ना ॥ १२८० ॥ Nānārthārṇavasaṃkṣepa 2.5.1280
- शब्दरत्नावली वृत्तवृन्तं प्रसवबन्धे स्यात्कुम्भधारास्तनाग्रयोः । वृत्तोऽतीते मृतेऽधीते वृतवर्तुलयोरपि ॥ Śabdaratnāvalī 7.16.56
- शब्दरत्नावली प्राक्चात्योन्यार्थे समाहारेऽन्वाचये पादपूरणे । समुच्चये च निर्द्वन्द्वे पक्षान्तरेऽवधारणे ॥ किञ्च पक्षान्तरारम्भसाकल्यपूर्वदूषणे । प्राक् पूर्वानन्तराग्रेषु प्रभावातीतयोरपि ॥ दिग्देशकालभेदेषु क्रमप्राप्तावपि स्मृतम् । तिर्यक् तिरोऽर्थे वक्रार्थे विरुद्धार्थेऽपि दृश्यते ॥ ननु च प्रश्नदुष्टोक्तयोः सम्यग्दृढप्रतिज्ञयोः ॥ Śabdaratnāvalī 8.1.18
- शब्दरत्नावली नुन निषेधे तूपमायां शिरश्चालन इत्यपि ॥ नि सामीप्ये निवेशेऽतिशये दाने च संशये । नित्यार्थे कोशले क्षेपे बन्धेऽन्तर्भावमोक्षयोः ॥ आश्रये राश्यधोभावविन्यासोयरमेष्वपि । नु प्रश्नातीततर्कानुनयोपमानहेतुषु ॥ Śabdaratnāvalī 8.1.39
- शब्दरत्नावली स्ममा विकल्पे वारणे स्यात्स्मातीते पादपूरणे ॥ मा स्म स्यान्मङ्गले तथ्ये वारणेऽन्यकृतावपि । अमासहार्थे रश्म्यर्थे निकरार्थे रसार्थके ॥ अज्ञाते विस्मये स्मृत्यामुद्यमार्थे निगद्यते । उं प्रश्ने चाभ्युपगमे क्रोधे च कोपगर्जिते ॥ ऊं पृच्छायामपक्रोशे रोषोक्तौ दम्भभाषिते । उमङ्गीकारकल्याणप्रणवोपक्रताह्वये ॥ Śabdaratnāvalī 8.1.48
- शब्दरत्नावली पुराआलिङ्गने निरसने पूजा सन्तोषभाषणे । परा प्राधान्यमोक्षाभिमुख्यविक्रमहर्षणे ॥ प्रातिलोम्ये भृशार्थे च तथा गतिवधार्थयोः । पुरा पुराणे निकटे प्रबन्धातीतभाविषु ॥ स्वराकाशे शोभने च स्वर्गेऽपि च भावान्तरे ॥ Śabdaratnāvalī 8.1.53
- शब्दरत्नाकर वृत्तवृत्तं तु चरिते पद्ये त्रिष्वतीते च वर्तुले । वत्सस्तु तर्णके वर्षे पुत्रादौ कुटजे मुनौ ॥ २००४ ॥ Śabdaratnākara 4.1.2004
- शब्दरत्नाकर पुराप्रबन्धे निकटेऽतीते पुराणानागते पुरा । पुनरप्रथमे पश्ने व्यावृत्ताववधारणे ॥ २२७१ ॥ Śabdaratnākara 5.2.2271
- वैजयन्ती भूतखादौ जन्तौ च भूतं क्ली समातीतोचिते त्रिषु । भास्वानिंदौ भास्वरेऽर्के भेको वर्षाभ्वि कातरे ॥ ५९ ॥ Vaijayantī 6.5.59
- वैजयन्ती वृत्तत्रिष्वतीतदृढाधीतवर्तुलेष्वथ गीष्पतौ । श्रेष्ठोक्षाश्वाखुरेतःसु पुन्धर्मेन्द्रबले वृषः ॥ ७७ ॥ Vaijayantī 6.5.77
- वैजयन्ती पुरानाम प्रकाश्यसंभाव्यक्रोधोपगमकुत्सने । प्रबन्धे निकटेऽतीते पुराणेऽनागते पुरा ॥ २३ ॥ Vaijayantī 8.7.23