आनर्त
ānartaपुं · masc.In 8 kośas: 3 synonym verses, 9 as a nānārtha head word.
नेपथ्यं रङ्गभूमिः स्यादानर्तो वेषधारणम् ।भूमिका वर्णका द्वंद्वे पात्राण्यत्राधिकारिणः ॥ ४१ ॥
अनुष्टुप्
genderपुंmasc.
प्रोक्ता मुरण्डा लम्पाकाः सौवीराः स्युः कुसालकाः ।आनर्तास्तु सुराष्ट्राः स्युस्तीरभुक्तिस्तु निच्छविः ॥ ४० ॥
अनुष्टुप्
genderपुंmasc.
पल्लवचोलानर्ता भोडमहाभोडजोनककलिङ्गाः ।बाह्लीकपारसीका जाङ्गलकाद्याश्च जनपदविशेषाः ॥ ३८० ॥
गीतिः
genderपुंmasc.
आयस्तः क्लिशितो जितः प्रतिहतः क्षुब्ध[श्च] कोपान्वितःअव्यक्तास्त्वपरिस्फुटा इव वचाश्चाव्यक्त ईशः स्मृतः ।जीमूतो जलदे गिरौ धृतिकरे स्याद्देवताडद्रुमेआनर्तोऽपि च नृत्यसारिणि ? जले देशप्रभेदे स्मृतः ॥
शार्दूलविक्रीडितम्
द्वितीयभागस्तत्र स्यात् पार्श्व आनर्तवाक् पुनः ।नृत्तस्थाने जनपदप्रभेदे च जने युधि ॥ १५ ॥
अनुष्टुप्
दैत्ये नृत्यगृहेऽथानद्धं मृदङ्गादिबद्धयोः ।आयस्तस्तेजिते क्षिप्ते कष्टिते कुपिते हते ॥ ३७ ॥
अनुष्टुप्
doubtful
आनर्त्तस्तरणे नृत्यस्थाने देशभिदि जले ।आवर्तश्चिन्तने नीरभ्रमे चावर्त्तने पुमान् ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 दि (wrong syllable)
आनर्तो देशभेदे स्यान्नृत्तवेश्मनि संयुगे ।आशीरः पावके सूर्ये स्यात् क्षीरविकृतावपि ॥ २०५२ ॥
अनुष्टुप्