कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

युध्

yudhस्त्री · fem.

In 15 kośas: 13 synonym verses, 23 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.606 · p. 32
प्राणः स्थाम तरः पराक्रमबलद्युम्नानि शौर्यौजसीशुष्मं शुष्म च शक्तिरूर्जसहसी युद्धं तु संख्यं कलिः ।संग्रामाहवसंप्रहारसमरा जन्यं युदायोधनंसंस्फोटः कलहो मृधं प्रहरणं संयद्रणो विग्रहः ॥ ७९६ ॥द्वन्द्वं समाघातसमाह्वयाभिसंपातसम्मर्दसमित्प्रघाताः ।आस्कन्दनाजिप्रधनान्यनीकमभ्यागमश्च प्रविदारणं च ॥ ७९७ ॥समुदायः समुदयो राटिः समितिसंगरौ ।अभ्यामर्दः संपरायः समीकं सांपरायिकम् ॥ ७९८ ॥आक्रन्दः संयुगश्चाथ नियुद्धं तद्भुजोद्भवम् ।
शार्दूलविक्रीडितम्
प्राणपुंस्थामन्क्लीतरस्क्लीपराक्रमपुंबलक्लीद्युम्नक्लीशौर्यक्लीओजस्क्लीशुष्मक्लीशुष्मन्क्लीशक्तिस्त्रीऊर्जस्क्लीसहस्क्लीयुद्धक्लीसंख्यक्लीकलिपुंसंग्रामपुंआहवपुंसंप्रहारपुंसमरपुंजन्यक्लीयुध्स्त्रीआयोधनक्लीसंस्फोटपुंकलहपुंमृधक्लीप्रहरणक्लीसंयत्स्त्रीरणपुंविग्रहपुंद्वन्द्वक्लीसमाघातपुंसमाह्वयपुंअभिसंपातपुंसंमर्दपुंसमित्स्त्रीप्रघातपुंआस्कन्दनक्लीआजिस्त्रीप्रधनक्लीअनीकक्लीअभ्यागमपुंप्रविदारणक्लीसमुदायपुंसमुदयपुंराटिस्त्रीसमितिस्त्रीसंगरपुंअभ्यामर्दपुंसंपरायपुंसमीकक्लीसांपरायिकक्लीआक्रन्दपुंसंयुगक्लीनियुद्धक्ली
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह क्षत्रियवर्गः Amarakośa 2.8.175
वीरपानं तु यत्पानं वृत्ते भाविनि वारणे ।युद्धमायोधनं जन्यं प्रधनं प्रविदारणम् ॥ १०३ ॥मृधमास्कन्दनं संख्यं समीकं सांपरायिकम् ।अस्त्रियां समरानीकरणाः कलहविग्रहौ ॥ १०४ ॥सम्प्रहाराभिसम्पात कलिसंस्फोट संयुगाः ।अभ्यामर्द समाघात संग्रामाभ्यागमाहवाः ॥ १०५ ॥समुदायः स्त्रियः संयत्समित्याजिसमिद्युधः ।
अनुष्टुप्
genderस्त्रीfem.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.453 · p. 52
सङ्ग्रामः समितिः समिच्च समरं संख्यं समीकं रणं,युद्धं युत्प्रधनं मृधं समुदयः संयत्कलिः संयुगम् ।द्वन्द्वायोधनसम्प्रहारकलहाक्रन्दाहवाभ्यागमाः,संस्फोटप्रविदारणप्रहरणानीकाजयः सङ्गरः ॥ ४५३ ॥
शार्दूलविक्रीडितम्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.349 · p. 127
द्वन्द्वमास्कन्दनं पुंसि संगरश्च समाह्वयः ।युदाहवश्च संघातः समुदायोऽपि विग्रहः ॥ ३४९ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.74 · p. 469
शुभावद्यहृषीकाणां शुक्लस्य जलपुष्पयोः ।दलांशुकमनोदारुविलपिच्छधनुर्युधाम् ॥ ७४ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.48 · p. 268
स्त्रीत्वे स्युः समिदाजि-युत्समितयो न स्त्री रणानीकभाक्संख्यं संयुग-संपराय-समराः संयन्न पुंलिङ्गभाक् ॥ ४८ ॥
शार्दूलविक्रीडितम्
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.396 · p. 151
संगरः समिति राटिः समुदायो विदारणम् ।अभ्यामर्दः समीकं च सम्परायो मृधं च युत् ॥ ३९६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ति (wrong syllable)
genderस्त्रीfem.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.384 · p. 74
युद्धे युद्धं सायुधं युदाजिः संपात इत्यपि ।जन्यं संख्यं मृधं कल्पं कलिरास्कन्दनं तथा ॥ ३८४ ॥
अनुष्टुप्
genderस्त्रीfem.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति राजवर्गः Śāradīyākhyanāmamālā 3.2.34 · p. 37
संयत्समितिराजिर्युध् द्वंद्वमास्कन्दनं मृधम् ।राटिः समीकं संस्फोटो विग्रहः कलहः कलिः ॥ ३४ ॥
अनुष्टुप्
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1326 · p. 209
आजिरास्कन्दनं द्वन्द्वं प्रधनं प्रविदारणम् ।आहवः सम्प्रहारो युत् प्रहरणं कलहः कलिः ॥ १३२६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 1 प्रह (syllable split)
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.378 · p. 135
स्त्रियां संयत्समित्याजिसमित् सम्वित् युधोऽपि च ॥
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि तृतीयः काण्डः Śabdaratnākara 3.289 · p. 212
ऊर्ज ऊर्जो गूर्जः सान्तं क्लीबं च सहसा सहः ।सङ्ग्रामे युद्धं युत् संयत् पुंस्त्रियोश्च संयद्वरः ॥ २८९ ॥
metre not recognised
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण क्षत्रियाध्यायः Śabdaratnākara 3.3.1376 · p. 167
कदनप्रथनक्रन्दनसंख्यसमीकानि संविदाजियुधः ।संयत्समितौ समितिः समररणानीकमस्त्रियां त्रितयम् ॥ १३७६ ॥
गीतिः
genderस्त्रीfem.

युध् as a meaning in nānārtha verses

  • नामलिङ्गानुशासनम् मन्युप्रायो भूम्न्यन्तगमने मन्युर्दैन्ये क्रतौ युधि । Amarakośa 3.3.292
  • कोषकल्पतरु अभ्यागच्छतिसमः समूहे स्थाने च हिनोतिः प्रेषणे प्रतः । समोऽर्तिः संगमे प्रोक्तोऽथाभ्याङो युधि गच्छतिः ॥ २८ ॥ Koṣakalpataru 3.5.28
  • नानार्थार्णवसंक्षेप स्पर्शतृणे च विटपे चाथ स्तम्भः स्यात् प्रतिबन्धने । स्थूणायां च जडीभावे स्पर्शस्तु प्रणिधौ युधि ॥ १२८ ॥ Nānārthārṇavasaṃkṣepa 2.2.128
  • नानार्थार्णवसंक्षेप आज्यकालायसे सुवर्णे च स्यादाज्यं तु घृते युधि । श्रीवेष्टाह्वयनिर्यासे स्तोत्रेषु च चतुर्ष्वपि ॥ १० ॥ Nānārthārṇavasaṃkṣepa 2.3.10
  • नानार्थार्णवसंक्षेप द्वन्द्वन स्त्री भागेऽथ ना द्वन्द्वः समासे चार्थचोदिते । नृशण्डस्तु युधि क्ली तु रहस्ये मिथुनेऽपि च ॥ ५७७ ॥ Nānārthārṇavasaṃkṣepa 2.5.577
  • नानार्थार्णवसंक्षेप रणतस्य स्वीये तद्धिते च रम्या तु रजनौ स्त्रियाम् । रमणीये त्रिषु रणः पुनः पुंशण्डयोर्युधि ॥ १०८६ ॥ Nānārthārṇavasaṃkṣepa 2.5.1086
  • नानार्थार्णवसंक्षेप आनर्तद्वितीयभागस्तत्र स्यात् पार्श्व आनर्तवाक् पुनः । नृत्तस्थाने जनपदप्रभेदे च जने युधि ॥ १५ ॥ Nānārthārṇavasaṃkṣepa 3.2.15
  • नानार्थार्णवसंक्षेप आक्रन्दमित्रे च रभसस्त्रातर्याह्वाने रुदिते युधि । आरावेऽन्ये दारुणे च स्यादाकल्पस्तु कल्पने ॥ १७ ॥ Nānārthārṇavasaṃkṣepa 3.2.17
  • नानार्थार्णवसंक्षेप प्रधनमुद्गे क्लीबं तु विसृतावना तु स्याद्विसारणे । प्रकाशनायां प्रथना क्लीबं तु प्रधनं युधि ॥ १११४ ॥ Nānārthārṇavasaṃkṣepa 4.1114
  • नानार्थार्णवसंक्षेप पुष्करकरण्यामपि चण्डालात् क्षत्त्रियायां च शूद्रतः । पुष्करं करिहस्ताग्रे जले वाद्यमुखे युधि ॥ ११९१ ॥ Nānārthārṇavasaṃkṣepa 4.1191
  • शब्दरत्नावली विदारणविदारणं विडम्बे स्याद् भेदे क्लीबं द्वयोर्मुपि । अथ वैतरणी प्रेतनदयो राक्षसमातरि ॥ Śabdaratnāvalī 7.15.90
  • शब्दरत्नावली संविद्षड्बिन्दुः पुण्डरीकाक्षे कीरभेदे च पुंस्ययम् । सम्पत्स्त्री तु गुणोत्कर्षहारभेदविभूतिषु ॥ सम्बित् ज्ञाने प्रतिज्ञायामाचारे युधितोषणे । क्रियाकारे समाधौ च तथा सम्भाषणे स्त्रियाम् ॥ Śabdaratnāvalī 7.18.22
  • शब्दरत्नावली प्रधनतोदनं व्यथने तोत्रे दंशनं वर्मदंशयोः । दर्शनं दर्पणे शास्त्रे नयनस्वप्नबुद्धिषु ॥ दमनः कुसुमे वीरे उपशान्तेऽपि कुत्रचित् । दशनः शिखरे दन्ते कवचे तु नपुंसकम् ॥ दहनो दुष्टचेष्टाग्निभल्लाते चित्रकेऽपि च । दृशानं तेजसि क्लीबं स्यात्पुमांस्तु विरोचने ॥ देवनन्तु जिगीषायां स्यात्क्रीडाव्यवहारयोः । अक्षेषु देवनः पुंसि सेवायामपि देवना ॥ ध्वजी रथे च भूदेवे भये सर्पे धराधरे । धन्वी ककुभवृक्षे स्यादर्जुने च धनुर्धरे ॥ धन्व क्लीबे स्थले चापे धन्वा ना मरुदेशके । धमनो नालभेदे भस्त्राध्मापकक्रूरयोस्त्रिषु ॥ धमनी च शिराहट्टविलासिन्योरपि स्त्रियाम् । धावनन्तु गतौ शुद्धै पृश्नीपर्ण्यान्तु धावनी ॥ धाम गेहे तनौ रश्मौ स्थाने प्रभावजन्मनोः । नन्दनं वासवोद्यानं पुमानात्यजहर्षयोः ॥ नन्दी हरद्वारपाले कन्दवाले वटद्रुमे । नन्दिन्युमाधेनुभेदगङ्गाननान्दृषु स्त्रियाम् ॥ नलिन्याकाशगङ्गायां पद्मिन्यां कमलाकरे । अम्भोरुहे तु न पुमान् नीलिकायां नपुंसकम् ॥ निदानं वत्सदामादिकारणे क्षयकारणे । निधनं नाशकुलयोः प्रधनं युधि दारुणे ॥ पवनं स्यात्कुम्भकारपाकस्थाने नपुंसकम् । स्यात्पुमांस्तु जगत्प्राणे निष्पावे प्रयतेऽपि च ॥ प्रधानं प्रकृतिप्रज्ञामहामात्यपरात्मसु । एकत्वे चोत्तमे क्लीबं वाच्यलिङ्गन्तु कुत्रचित् ॥ पद्मिनी स्त्रीविशेषे स्यात्पद्मसङ्घे सरोऽम्बुजे । प्रसन्ना स्त्री सुरायां स्यात्सन्तुष्टामलयोस्त्रिषु ॥ प्रसूनं पुष्पफलयोः क्लीबं जाते तु वाच्यवत् । पत्री पत्ररथे श्येनेऽत्रिकाण्डे रथिके त्रिषु ॥ पर्व स्यादुत्सवे ग्रन्थौ प्रस्तावचिह्नभेदयोः । स्याद्दर्शप्रतिपत्सन्धौ विषुवत्प्रभृतिष्वपि ॥ पक्ष्मसूत्रांशमुद्रादिकिञ्जल्कनेत्ररोमसु । पाठीनः पाठके मीनभेदे च गुग्गुलुद्रुमे ॥ Śabdaratnāvalī 7.20.57
  • शब्दरत्नावली सङ्गरक्लीबन्तु प्रतियत्नान्तर्भावमानसकर्मसु । सङ्गरस्तु क्रियाकारे विषाङ्गीकारयोर्युधि ॥ Śabdaratnāvalī 7.27.109
  • शब्दरत्नाकर रणरतिः क्रीडाकामपत्न्योः रदो दन्तविलेखयोः । अंशुप्रग्रहयोः रश्मी रणोऽस्त्री युधि ना स्वने ॥ १९८६ ॥ Śabdaratnākara 4.1.1986
  • शब्दरत्नाकर अनीकअण्डजो ब्रह्मणि व्याले गोधायां सरटे खगे । अशनिर्वज्रतटितोरनीकोऽस्त्री चमूयुधोः ॥ २०४२ ॥ Śabdaratnākara 4.1.2042
  • त्रिकाण्डशेष अम्बरीषभ्राष्ट्रे युध्यम्बरीषं ना किशोरहरिशम्भुषु ॥ ४३४ ॥ Trikāṇḍaśeṣa 3.3.434
  • वैजयन्ती रणराजते भूषणे रूप्यं रजते हेम्नि चाहते । त्रिषु प्रशस्तरूपेऽथ रणोऽस्त्री युधि ना ध्वनौ ॥ ६८ ॥ Vaijayantī 6.5.68
  • वैजयन्ती आनर्तगन्धमाल्योपहारे स्यादायोगो व्यापृतावपि । आनर्तो नृत्तशालायां देशभेदे जने युधि ॥ ४ ॥ Vaijayantī 7.1.4
  • वैजयन्ती पदाजिपदाजिर्युधि मार्गे च रक्षोवृक्षौ पलाशिनौ । प्रतिघौ रुट्प्रतीघातौ प्रतापौ पौरुषातपौ ॥ ५४ ॥ Vaijayantī 7.1.54
  • वैजयन्ती पुष्करसम्यग्वक्तरि चाथ स्यात् प्रायणं मरणे गतौ । पुष्करं हस्तिहस्ताग्रे जले वाद्यमुखे युधि ॥ २४ ॥ Vaijayantī 7.3.24
  • वैजयन्ती अनीकअलसौ पादरुङ्मन्दावण्डीरौ शक्तपूरुषौ । विद्युत्पव्योरक्ल्यशनिरनीकोऽस्त्री चमूयुधोः ॥ १५ ॥ Vaijayantī 7.5.15
  • वैजयन्ती संगरसंगरो ना क्रियाकारे प्रतिज्ञाविपदोर्युधि । शमीफले तु षण्डोऽथ संबाधौ योनिसंकटौ ॥ ९२ ॥ Vaijayantī 7.5.92