कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

देशभेद

deśabheda

In 7 kośas: 0 synonym verses, 31 as a meaning of another word.

देशभेद as a meaning in nānārtha verses

  • धरणिकोश अम्बष्ठअम्बष्ठा विद्धकर्णी स्यादम्बष्ठा चाम्ललोणिका । अम्बष्ठो देशभेदे स्याद्वैश्यापुत्रे च विप्रजे ॥ Dharaṇikośa 11.3.2
  • धरणिकोश द्रोणीद्रोणो मानवि[शे]षे स्यात्काकेऽर्जुनगुरौ तथा । पानीयोद्धरणी द्रोणी देशभेदे च कीर्तिता ॥ Dharaṇikośa 14.3.6
  • धरणिकोश कालञ्जरकालञ्जरो देशभेदे चण्डी कालञ्जरा स्मृता । इन्दीवरं कुवलयमिन्दीवरी शतावरी ॥ Dharaṇikośa 26.2.73
  • कोषकल्पतरु वङ्गसीसेऽपि वङ्गं नरि देशभेदे कार्पासवातिंगणवाचकं स्यात् । षिद्गे च सङ्गे च वदन्ति लङ्गं लिङ्गं तु सांख्यप्रकृतौ च चिह्ने ॥ २ ॥ Koṣakalpataru 6.3.2
  • कोषकल्पतरु अंबष्ठस्थाने प्रतिष्ठा मखनिर्वृतौ च यागस्य सिद्धावपि वृत्तभेदे । व्रीहौ मकुष्ठः त्रिषु मन्थरे स्या- दंबष्ठ उक्तो नरि देशभेदे ॥ ६३ ॥ Koṣakalpataru 6.11.63
  • कोषकल्पतरु ओड्रक्लीबे तु काष्ठे च घृते च दुःखे- ऽथौड्रो जने स्यादपि देशभेदे । जपातरौ पुण्ड्रमुशन्ति दैत्य- [49a]भेदेऽतिमुक्तेक्षुविशेषयोश्च ॥ ५५ ॥ Koṣakalpataru 6.27.55
  • कोषकल्पतरु सौवीरजम्बीर उक्तोऽथ शये च पीठे- प्यौशीरमुक्तं चमरे च दण्डे । सौवीरमन्त्ये बदरारनाले स्रोतोञ्जने पुंसि तु देशभेदे ॥ ५७ ॥ Koṣakalpataru 6.27.57
  • नानार्थार्णवसंक्षेप वृकपापे वृकस्तु ना सूर्ये चन्द्रे जाठरपावके । वज्रे वृके देशभेदे पुनर्भूम्नि च नप् पुनः ॥ १२८३ ॥ Nānārthārṇavasaṃkṣepa 2.5.1283
  • नानार्थार्णवसंक्षेप शकमुद्गरे च त्रिषु त्वेष भीतौ पातरि चाप्यथ । शको ना पशुविष्ठायां देशभेदे जले तु नप् ॥ १३१८ ॥ Nānārthārṇavasaṃkṣepa 2.5.1318
  • नानार्थार्णवसंक्षेप कम्बोजसूरणेऽथात्मगुप्तायां कण्डुरा स्त्री नृभूम्नि तु । कम्बोजा देशभेदे स्यान्ना तु स्यात् तम्य राजनि ॥ ३७५ ॥ Nānārthārṇavasaṃkṣepa 4.375
  • नानार्थार्णवसंक्षेप अनुद्वेषपश्चात्तापे च केचित् तु द्वेषमात्रे परः पुनः । व्याख्यातामरकोशस्य देशभेदेऽप्यभाषत ॥ २७ ॥ Nānārthārṇavasaṃkṣepa 6.27
  • नानार्थार्णवसंक्षेप पारस्करतद्भेदे देवदारौ चाप्यथ पारस्करध्वनिः । देशभेदे तथानर्तनीवृत्स्थनगरान्तरे ॥ ९० ॥ Nānārthārṇavasaṃkṣepa 6.90
  • शब्दरत्नावली कोदण्डउमायामपि कुष्माण्डी तथा यागक्रियान्तरे । कोदण्डं कार्मुके पुंसि भ्रूलतादेशभेदयोः ॥ Śabdaratnāvalī 7.13.29
  • शब्दरत्नावली द्रोणक्लीबे घ्राणं नासिकायां घ्राते स्यादभिधेयवत् । चूर्णो धूल्यां क्षारभेदे चूणं स्यात्पटयुक्तिषु ॥ जिष्णुर्महेन्द्रार्जुनयोर्जित्वरे वाच्यलिङ्गकः । झूणि गुवाकभेदे स्याद्दुटदैवश्रुतौ स्त्रियाम् ॥ त्राणं स्यात्त्रायमाणायां रक्षिते रक्षणेऽपि च । तीक्ष्णं स्याद्विषलौहाजिमुष्ककलवणेषु च ॥ आत्मत्यागिनि तीव्रे च त्रिषु क्लीबं यवाग्रके । द्रोणोऽस्त्रियामाढके तु भवेदाढाचतुष्टये ॥ देशभेदे भारद्वाजे दग्धकाके स्त्रियां क्वचित् । तथा काष्ठाम्बुवाहिन्यां गवादन्यामपि स्त्रियाम् ॥ पणो वराटर्के मूल्ये गृहे कार्षापणेऽपि च । क्रय्ये द्यूते भृतौ वित्ते व्यवहारेऽपि पुंस्ययम् ॥ पार्ष्णि द्वयोः सैन्यपृष्ठे पादग्रन्थ्यधरेऽपि च । स्त्रियामुन्मत्तकान्तायां पार्ष्णी पार्ष्णिरिति द्विधा ॥ प्राणोऽनिले बले काव्यजीवे हृदयमारुते ॥ Śabdaratnāvalī 7.15.9
  • शब्दरत्नावली त्रिगर्तजृम्भितं करणे स्त्रीणां तथा स्फुटितचेष्टयोः । त्रिगर्त्तो देशभेदे स्याद् गणिते कामुकेऽपि च ॥ Śabdaratnāvalī 7.16.105
  • शब्दरत्नावली अनूपअनूपः कासरे पुंसि देशभेदे तु वाच्यवत् ॥ आवापो वपने भाण्डे परिक्षेपालवालयोः ॥ Śabdaratnāvalī 7.21.14
  • शब्दरत्नावली कीरऐन्द्रिर्जयन्ते काके ना स्त्री शचीशिवयोरपि । ओड्रः पुंभूम्नि देशे स्यात्तरुभेदे पुमानयम् ॥ करो रश्मौ च करके शुण्डप्रत्यायपाणिषु । कद्रुस्त्रिषु पिशङ्गे स्यान्नागमातरि तु स्त्रियाम् ॥ कारो हिमगिरौ यत्ने वलौ पत्यौ वधे पुमान् । कारा स्त्रियां बन्धगृहे बन्धे दूत्यां प्रसेवके ॥ कारिः क्रियायां स्त्रीलिङ्गो वाच्यलिङ्गस्तु शिल्पिनी । क्रूरं स्यात्कठिने घोरे नृशंसेऽपि च वाच्यवत् ॥ कारुस्त्वष्टरि पुंसि स्यात्त्रिषु कर्तरि शिल्पिनि । कीरः शुके देशभेदे क्लीबं स्यान्नीरदुग्धयोः ॥ कुरुर्ना भक्तनृपयोः पुंबहुत्वे च निवृति । क्षुद्रः क्रूरेऽधमेऽल्पे च कृपणेऽपि च वाच्यवत् ॥ क्षुद्रा व्यङ्गानटीधृष्टाबृहतीसरधासु च । चाङ्गेरी मक्षिकामात्रे हिंस्रा वादरतासु च ॥ क्षुरः स्याच्छेदनद्रव्ये कोकिलाक्षे च गोक्षुरे । खुरः शफे कोलदले तथा छेदनवस्तुनि ॥ क्रोष्ट्री कृष्णविदार्युक्ताशृगालीलाङ्गलीषु च । खरो धर्मे गर्दभे ना तीक्ष्यो त्रिष्वौषधे स्त्रियाम् ॥ खरुर्दर्पे हरे दन्ते हये ना धवले त्रिषु ॥ Śabdaratnāvalī 7.27.7
  • शब्दरत्नावली बभ्रुदेशभेदे पुमानेव पिङ्गलेऽपि च वाच्यवत् । वक्रः शनौ पुटे क्लीबं कुटिलक्रूरयोस्त्रिषु ॥ वारी मतङ्गवन्धन्यां कलस्यामपि च स्त्रियाम् । वारिर्वाणीभ-वन्धन्योः स्त्रियां क्लीबेऽम्बुवालयौः ॥ Śabdaratnāvalī 7.27.36
  • शब्दरत्नावली गान्धारखण्डाभ्रं न द्वयोर्दन्तक्षतभेदाभ्रलेशयोः । गणेरुः करिणीवेश्याकर्णिकारेषु च स्त्रियाम् ॥ गर्गरो मीनभेदेऽस्त्री मन्थन्यां न पुमानयम् । गह्वरन्तु गुहादम्भवने कुञ्जे तु पुंस्यपि ॥ गान्धारो रागसिन्दूरदेशभेदेषु पुंस्ययम् । घर्घरो नदभेदे ना स्यादुलूके च निर्झरे ॥ Śabdaratnāvalī 7.27.71
  • शब्दरत्नावली वर्वरमुर्मुरः सूर्यतुरगे तुषाग्नौ च मनोभवे । रुधिरं कुङ्कुमे रक्ते स्यात्पुमान् मङ्गलग्रहे ॥ वटरः कुक्कुटे वेष्टे शठे चोरे च चञ्चले । वर्वरः पामरे केशे चक्रले शाकभिद्यपि ॥ पुष्पभेदे देशभेदे वर्वरा मक्षिकाभिदि । वर्करः स्याद्युवपशौ स्याच्छागपरिहासयोः ॥ Śabdaratnāvalī 7.27.97
  • शब्दरत्नावली प्रदेशिन्प्रकाशोऽतिप्रसिद्धे स्यात्प्रहासातपयोः स्फुटे । प्रदेशी देशभेदे स्यात्तर्जन्यङ्गुष्ठसम्मिते ॥ Śabdaratnāvalī 7.30.20
  • शब्दरत्नाकर जीनगवाक्षानाययोर्जालं क्षारके कपटे गणे । जरठे देशभेदे च जीनो बुद्धार्हतोर्जिनः प्राणिनि त्रिषु जीवः स्यात् पुंसि जन्तौ बृहस्पतौ ॥ १९२४ ॥ Śabdaratnākara 4.1.1924
  • शब्दरत्नाकर सिन्धुस्त्री सिन्धुरापगायां ना देशभेदसमुद्रयोः । संधिः सुरुङ्गानाट्याङ्गरन्ध्रसंश्लेषयोनिषु ॥ २०१९ ॥ Śabdaratnākara 4.1.2019
  • शब्दरत्नाकर आनर्तआनर्तो देशभेदे स्यान्नृत्तवेश्मनि संयुगे । आशीरः पावके सूर्ये स्यात् क्षीरविकृतावपि ॥ २०५२ ॥ Śabdaratnākara 4.1.2052
  • शब्दरत्नाकर जाङ्गलअल्पाम्बुद्रुगिरौ देशे देशभेदेऽपि जाङ्गलः । जाङ्गलं पिशितेऽथ स्याज्जटालो बहुपादपि ॥ २०९३ ॥ Śabdaratnākara 4.1.2093
  • शब्दरत्नाकर दक्षिणास्यात् स्त्री पुनर्श्वां तत्पत्यौ दिधिषुर्दीधिषूर्नरौ । दक्षिणः सरले दक्षे देशभेदे तु दक्षिणा ॥ २१०३ ॥ Śabdaratnākara 4.1.2103
  • शब्दरत्नाकर सौवीरबदरे देशभेदे ना स्यन्दनो रथवृक्षयोः । संगरस्तु प्रतिज्ञायां विपत्त्यां सांपरायिके ॥ २१८४ ॥ Śabdaratnākara 4.1.2184
  • त्रिकाण्डशेष काञ्चीइभ्यां स्त्री गुरुपुत्रे ना केशे शुष्कव्रणे कचः । देशभेदेऽपि काञ्ची स्यात्तथा स्थासकतर्कयोः ॥ ७५ ॥ Trikāṇḍaśeṣa 3.3.75
  • वैजयन्ती सिन्धुसारो बले स्थिरांशेऽर्थे पुमान्न्याय्ये वरेऽर्थवत् । स्त्री नद्यां ना नदे सिन्धुर्देशभेदेंऽबुधौ गजे ॥ ९७ ॥ Vaijayantī 6.5.97
  • वैजयन्ती आनर्तगन्धमाल्योपहारे स्यादायोगो व्यापृतावपि । आनर्तो नृत्तशालायां देशभेदे जने युधि ॥ ४ ॥ Vaijayantī 7.1.4
  • वैजयन्ती निषधद्वार्यापीडे क्वाथरसे निर्यूहो नागदन्तके । निषधोऽद्रौ देशभेदे कठिने तस्य राजनि ॥ ३८ ॥ Vaijayantī 7.1.38