कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

पल्लव

pallavaपुं · masc.

In 18 kośas: 26 synonym verses, 10 as a nānārtha head word, 12 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य वनस्पतिकायः Abhidhānacintāmaṇi 4.5.20 · p. 44
नवे तस्मिन्किसलयं किसलं पल्लवोऽत्र तु ॥ ११२३ ॥नवे प्रबालोऽस्य कोशी शुङ्गा माढिर्दलस्नसा ।
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वनौषधिवर्गः Amarakośa 2.4.14
पल्लवोऽस्त्री किसलयं विस्तारो विटपोऽस्त्रियाम् ॥ १४ ॥
अनुष्टुप्
genderपुंक्लीm. n.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.185 · p. 23
पल्लवः स्यात्किसलयं वल्लरी मञ्जरी तथा ।वर्हं पर्णं दलं पत्त्रं पलाशं छदनं छदः ।अङ्कूरश्चाङ्कुरः प्रोक्तो वृन्तं प्रसवबन्धनम् ॥ १८५ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.284 · p. 51
राङ्कवं मृगरोमोत्थं स्त्रियां भूम्नि दशा अपि ।वस्त्रान्ते च स्त्रियां वर्त्तिर्वस्तिश्चापि च पल्लवः ॥ २८४ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.28 · p. 251
वल्लरी वल्लरिश्चापि वल्लरं मञ्जरं त्रिषु ।पल्लवोऽस्त्री किसलयं किसलं विसलं पुनः ॥ २८ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.188 · p. 482
क्लीबप्राग्रीवनिष्ठेवताण्डवानामथापि च ।दैवपूर्वपल्लवानां लल्वकर्शांशयोरपि ॥ १८८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 र्व (wrong syllable)
genderपुंक्लीm. n.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.33 · p. 136
पलाशं छदनं पर्फरीकं कि[स]लयं नवे ।किसलं पल्लवस्त्वस्त्री प्रवालस्त्वचिरोद्गतः ॥ ३३ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पुंनपुंसकलिङ्गाधिकारः Koṣakalpataru 4.5.70 · p. 115
भावारावशरावपल्लवशवक्लीवा अपूर्वं तथानिष्ठीवं च सदैवमर्थविषये स्वं सत्त्वमङ्गिन्यपि ।नल्वः स्याल्लवणे च सैन्धवमधो लोके तथा वाडवःपाशः कर्कशकोशवच्च कुलिशं चाकाश-काशाङ्कुशाः ॥ ७० ॥
शार्दूलविक्रीडितम्
genderपुंक्लीm. n.
मांसाभिधानं विवराभिधानं च तीर्थतुण्डे च नपुंसके विद्धि जानीहि । यथा मांसं पलं पललं क्रव्यमित्यादि । इदं विवरं बिलं छिद्रं रन्ध्रं कुहरं सुषिरमित्यादि । इदं तीर्थं पुण्यस्थानम् । तुण्डं वक्त्रम् । यवमाषाद्या व्रीहयः पुंसि । यथा इमे माषाः मुद्गाः कुलत्थाः सोष्टाः गोधूमाः तिलाः कलापाः मसूराः सर्षपाः । प्रियङ्गवश्च स्त्रियामेव । इमाः प्रियङ्गवः ।पल्लव उक्तः पुंसि नपुंसके किसलयं स्त्रियां लाक्षा ।ऋग्रोचना पिडका कण्डूः क्षपा चैव ॥ ५७ ॥
metre not recognised
genderपुंmasc.
पल्लवशब्दः पुंसि भवति । अयं पल्लवः । इदं किशलयं प्रवालम् । लाक्षा स्त्रियां स्यात् । इयं लाक्षा जतु । ऋगादयः शब्दाः स्त्रियां भवन्ति । इयमृक् वेदावयवः । रोचना गोपित्त[त]म् । पि[पिं]डका शरायगम्? । कण्डूः खर्जूः । क्षपा रात्रिः ।कललकफपूयकुल्माषकल्ककल्पगेहमखलौहित्याः ।झर्झरपुङ्खचषालाश्च पुंसि कटाहमत्स्यौ च ॥ ५८ ॥
metre not recognised
genderपुंmasc.
नाममालिका Nāmamālikā · भोज स्वर्गादिनामधेयप्रकरणम् Nāmamālikā 1.42 · p. 5
कार्मुकं तस्य कान्तारः शरास्तस्य तु पल्लवाः ।रजको वाहनं तस्य रथो मलयजः स्मृतः ॥ ४२ ॥
अनुष्टुप्
genderपुंmasc.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.3 · p. 8
चोलस्तु दक्षिणे देशे काञ्चीदेशस्तु पल्लवः ।समुद्रे तु नदीनाथः शैवलाकरनीरधी ॥ ३ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.35 · p. 56
छदनं च नवे तस्मिन्कशलं पल्लवोऽपि च ।तथा किसलयं तत्र प्रवालः कोशिकास्य तु ॥ ३५ ॥
अनुष्टुप्
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त वृक्षलतौषधिमरीचिः Pañcatattvaprakāśa 1.4.152 · p. 11
पलाशः पल्लवः पर्णं दलं पत्रं छदोऽङ्घ्रिकम् ।कलिका कोरकः कुड्मी प्रफुल्लो विकचः स्फुटः ॥ १५२ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति धरावर्गः Śāradīyākhyanāmamālā 1.3.137 · p. 15
नवं तत्स्यात्किसलयं प्रवालः पल्लवो नवः ।फुल्लं विकसितं स्मेरं प्रबुद्धं विकचं स्मृतम् ॥ १३७ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि वनस्पतिकायनामानि Suśīlanāmamālā 5.5.1973 · p. 325
किशलयं नवे पत्रे किसलयं च पल्लवम् ॥ १९७३ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वनौषधिवर्गप्रकाशः Śabdaratnāvalī 3.4.26 · p. 58
पल्लवोऽस्त्री प्रवालं स्यात् हलं(?) किसलमित्यपि ।किशलं स्यात् किसलयं भवेत् किशलयं तथा ॥
अनुष्टुप्
genderपुंक्लीm. n.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वसुंधराध्यायः Śabdaratnākara 2.1.378 · p. 51
पल्लवकेरलपाण्ड्याश्चेदिमहावीरदारददशार्णाः ।भल्लाटभोजसौकरहेलाहिच्छत्रभौरिकविदर्भाः ॥ ३७८ ॥
गीतिः
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वसुंधराध्यायः Śabdaratnākara 2.1.380 · p. 51
पल्लवचोलानर्ता भोडमहाभोडजोनककलिङ्गाः ।बाह्लीकपारसीका जाङ्गलकाद्याश्च जनपदविशेषाः ॥ ३८० ॥
गीतिः
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वनाध्यायः Śabdaratnākara 2.3.449 · p. 59
पल्लवोऽस्त्री किसलयं प्रवालं पुंनपुंसकम् ।जालकं क्षारकः पुंसि कलिका कोरकोऽस्त्रियाम् ॥ ४४९ ॥
अनुष्टुप्
genderपुंक्लीm. n.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण मनुष्याध्यायः Śabdaratnākara 3.1.1047 · p. 130
आशीःस्वस्त्ययनाभिज्ञा वृद्धवेश्या महत्तरी ।भुजंगः पल्लवो धूर्तो विटः षिद्गः समा इमे ॥ १०४७ ॥
अनुष्टुप्
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव वनौषधिवर्गः Trikāṇḍaśeṣa 2.4.4 · p. 36
स्मितोन्मुद्रौ किलिञ्जस्तु सूक्ष्मदार्वथ पल्लवः ।किशलं किसलं चाथोत्कलिकाङ्गारिते समे ॥ ४ ॥
अनुष्टुप्
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव लिङ्गादिसंग्रहः Trikāṇḍaśeṣa 4.9 · p. 273
genderपुंक्लीm. n.
उत्पलिनी Utpalinī · व्याडि Utpalinī 27 · p. 48
पुंसि क्लीबे च पल्लवः ॥ २७ ॥
genderपुंक्लीm. n.
वैजयन्ती Vaijayantī · यादवप्रकाश वनाध्यायः Vaijayantī 3.3.17 · p. 46
पर्णं बर्हं पतत्रं च त्रयी शुङ्गास्य कोशिका ।पल्लवोऽस्त्री किसलयं किसलोऽपि नवे दले ॥ १७ ॥
अनुष्टुप्
genderपुंक्लीm. n.
वैजयन्ती Vaijayantī · यादवप्रकाश भूताध्यायः Vaijayantī 4.4.39 · p. 176
वेश्यापतौ षिद्गकुंभभुजङ्गविटपल्लवाः ।पुत्रस्तु तनयः सूनुरात्मजो नन्दनोंऽगजः ॥ ३९ ॥
अनुष्टुप्
genderपुंmasc.
धरणिकोश Dharaṇikośa · धरणिदास वार्धश्लोकः Dharaṇikośa 28.2.13 · p. 206
पल्लवः स्यात्किसलये षिङ्गाशृङ्गरयोरपि ।सैन्धवो लवणेऽप्यश्वे सैन्धवः सिन्धुदेशजे ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वान्ताः Koṣakalpataru 6.29.16 · p. 361
नाके तु न स्त्री त्रिदिवः स्त्रियां तु[न]द्यन्तरे गोदुहि बल्लवः स्यात् ।स्यात्सूपकारेऽपि हिडिम्बशत्रौना पल्लवः षिद्गगतोऽस्त्रियां तु ॥ १६ ॥
इन्द्रवज्रा
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वान्ताः Koṣakalpataru 6.29.17 · p. 361
शृङ्गारलाक्षारसविस्तरेषुनवच्छदे स्याद्विटपे बले च ।पलायने विद्रव एष बुद्धौस्यात्पुंगवो ना वृषभेऽन्यवत्तु ॥ १७ ॥
उपजातिः
doubtful
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1054 · p. 139
पल्लवोऽस्त्री किसलये पत्रमात्रप्रकोष्ठयोः ।विस्तारे विटपेऽथाह रभसोऽमुं बलेऽपि च ॥ १०५४ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1055 · p. 139
पुंल्लिङ्गस्तु भवेत् षिद्गे पतङ्गस्तु पुमानयम् ।सूर्ये शालिप्रभेदे च मार्जारे तु द्वयोरयम् ॥ १०५५ ॥
अनुष्टुप्
doubtful
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास पकारादयः Paramānandīyanāmamālā 5.19.309 · p. 201
पल्लवो नवपत्रे स्याद्धूर्तशृङ्गारयोरपि ।पुलकोऽथाश्रुसंताने रोमाञ्चे कृमिभिद्यपि ॥ ३०९ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वान्ताः Śabdaratnāvalī 7.29.30 · p. 287
दीदिविः पुंसि गीर्वाणगुरौ भक्ते समुच्छिते ।निष्पावः सूर्पपवने राजमाषे कडङ्गरे ॥निह्नवः स्यादविश्वासे तथा गुप्तावलापयोः ।पल्लवो विटपे षिङ्गे विस्तारे वलयेऽपि च ॥शृङ्गोरेऽलक्तरागे च चापलेऽपि च न स्त्रियाम् ।प्रभवो जन्महेतौ स्यात्स्थले चाद्योपलब्धये ॥प्रसेवः स्यूतवीणाङ्गे प्रभावः शक्तितेजसोः ॥
अनुष्टुप्
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.2132 · p. 258
पल्लवो ना विटे देशेऽप्यस्त्री किसलयेऽञ्चले ।प्रवालो विद्रुमे वीणादण्डे ना पल्लवे स्त्रियाम् ॥ २१३२ ॥
अनुष्टुप्
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.418 · p. 240
प्लवो निषादे पर्कट्यां भेके भेले गतौ कपौ ।पल्लवो विस्तरे षिड्गे किसले विटपे वने ॥ ४१८ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश नानालिङ्गाध्यायः Vaijayantī 7.5.58 · p. 261
पौरुषं पल्लवं त्वस्त्री प्रकोष्ठेऽप्यतिविस्तृतौ ।पवित्रोऽग्नौ हरौ पूते क्ली तु ताम्रेऽप्सु गोमये ॥ ५८ ॥
अनुष्टुप्

पल्लव as a meaning in nānārtha verses

  • धरणिकोश विटपआवापो भाण्डवपने परिक्षेपालवालयोः । विटपः पल्लवे स्तम्बे शाखायां विटपो मतः ॥ Dharaṇikośa 20.2.6
  • कोषकल्पतरु कच्छकच्छस्त्वनूपेऽपि च तुन्नकद्रौ पाश्चात्त्यवस्त्राञ्चलपल्लवे च । नौकाङ्गके स्त्री तु वराटिकायां स्याच्चीरिकायां स्तबके तु गुच्छः ॥ १७ ॥ Koṣakalpataru 6.6.17
  • कोषकल्पतरु सानुसानुस्तु न स्त्री शिखरे वने च वातावलावध्वनि पल्लवे च । बुधेऽन्यवद्रश्मिदिवाकरौ तु भानू पुमांसा[12a]वथ भेद्यबद्धौ ॥ ३ ॥ Koṣakalpataru 6.21.3
  • कोषकल्पतरु विटपअर्केऽनले स्यादुषपोऽथ मान- भेदे मुनौ ना कुटपस्तथैव । स्यान्निष्कुटेऽथो कुतपः स्त्रियां न दिनाष्टमांशे च[26b]कुशे च वाद्ये । स्यात्कम्बलेऽजस्य पुमांस्तु सूर्ये स्वसुश्च पुत्रेऽ प्युलपस्तु न स्त्री । वीरुद्गतो ना तु मृदौ तृणे स्या- च्चन्द्रे पुमान्स्यादुडुपः प्लवेऽस्त्री । विटाधिपे ना विटपोऽस्त्रियां तु स्कन्धोर्ध्वशाखासु तरोस्ततौ च । स्यात्पल्लवे चाथ निशाचरे ना स्याद्रक्तपः स्त्री नुवि( ? )पादपस्तु । स्यात्पादपीठे च तरौ च पुंसि स्त्री पादुकायां महिषे त्वनूपो ऽम्बुप्रायदेशे तु विशेष्यलिङ्गः । स्यात्पूतिगन्धे कुणपः शवेऽस्त्री न स्त्री तथावाप इहालवाले ॥ १३ ॥ Koṣakalpataru 6.22.13
  • नानार्थार्णवसंक्षेप ललवरणे बन्धने कुड्ये रोधसी इति रोदसोः । ललं पल्लव उद्याने लक्ष्म चिह्नप्रधानयोः ॥ ५३ ॥ Nānārthārṇavasaṃkṣepa 2.3.53
  • परमानन्दीयनाममाला पद्मपद्मं तु पङ्कजे हस्तिबिन्दुष्वपि च पल्लवे । पीथं जले रवौ पीथः पद्मा लक्ष्म्यां प्लवः कपौ ॥ २८५ ॥ Paramānandīyanāmamālā 5.19.285
  • शब्दरत्नावली विटपकुतपोऽस्त्री कुशे वाद्ये दौहित्रे छागकम्बले । दिवसस्याष्टमांशे च भवेद्दिनकरे पुमान् ॥ कुणपः पूतिगन्धौ स्याच्छवे स्त्री शारिकादिषे । जिह्वापः कुक्कुरे व्याघ्रे मार्जारे भल्लुकेऽपि च ॥ प्रतापः पुंसि तापे स्याच् शौर्ये तीक्ष्णांशुतेजसि । रक्तपा स्त्री जलोकायां डाकिन्यां राक्षसे पुमान् ॥ विटपोऽस्त्री वृक्षशाखाविस्तारे पल्लवेषु च ॥ Śabdaratnāvalī 7.21.18
  • शब्दरत्नावली प्रवालपरिच्छदे च तिलके न क्लीबं ग्रन्थवृक्षयोः । प्रवालोऽस्त्री पल्लवे स्याद् वीणादण्डे च विद्रुमे ॥ Śabdaratnāvalī 7.28.72
  • शब्दरत्नाकर विटपउल्लोचाध्वरयोरस्त्री षण्डः शून्यसमूहयोः । वितानोऽथ द्रुविस्तारे पल्लवे स्तम्बशाखयोः ॥ २१७१ ॥ Śabdaratnākara 4.1.2171
  • त्रिकाण्डशेष विटपशररोपणयो रोपो लेपो लेपनभोजने । विटपः पल्लवे स्तम्बे षिड्गे मेदोबिले वा ॥ २७९ ॥ Trikāṇḍaśeṣa 3.3.279
  • वैजयन्ती ललललं पल्लव उद्याने लक्ष्म चिह्नवरिष्ठयोः । स्यादुपच्छन्दने लालं गुह्यार्थपरभार्ययोः ॥ २९ ॥ Vaijayantī 6.3.29
  • वैजयन्ती विटपविटपोऽस्त्री द्रुविस्तारे पल्लवे स्तंबशाखयोः । विषाणस्त्रिषु लिङ्गेषु पश्वङ्गगजदन्तयोः ॥ ८२ ॥ Vaijayantī 7.5.82