कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Dharaṇikośa

धरणिकोश Dharaṇikośa

1,382 verses · 11,274 words tagged · 1,895 marked doubtful (dashed)

तान्ताः · तपादः

॥ इति णान्तवर्गः ॥

॥ तपादः ॥

द्युतिः प्रभा द्युतिः कान्तिर्भृतिर्भरणमूल्ययोः ।सुप्तिः स्पर्शाज्ञता [33] निद्रा भित्तिः कुड्यप्रदेशयोः ॥
15.1.1 · p. 60
अनुष्टुप्
चितिः समूहे चित्यायां सृतिः स्यात्पद्धतौ गतौ ।क्षितिर्भूक्षयवासेषु मतिर्धीच्छास्मृतिष्वपि ॥
15.1.2 · p. 60
अनुष्टुप्
अर्तिः पीडाध[नु]ष्कोटयोर्भ्रान्तिर्मिथ्यामतिर्भ्रमिः ।कीर्तिः प्रसादयशसोः कृत्तिश्च चर्म कीर्तिता ॥
15.1.3 · p. 60
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 श्च (wrong syllable)
शान्तिः शमे च कल्याणे कान्तिः शोभेच्छयोरपि ।ऊतिः स्यूतौ च रक्षायां सातिर्दानावसानयोः ॥
15.1.4 · p. 61
अनुष्टुप्
मुक्तिः स्यान्मोचने मोक्षे युक्तिर्न्याये नियोजने ।चिता छन्ने चुल्लिकायां त्रेता वह्नित्रये युगे ॥
15.1.5 · p. 61
अनुष्टुप्
सातिर्मूर्खकृतं सातिः? प्रोतं गुम्फितवाससोः ।व्यक्तं स्फुटं बुधो व्यक्तः श्रुतं शास्त्रेऽवधारिते ॥
15.1.6 · p. 61
अनुष्टुप्
घृतमाज्यं घृतं तोये युतं न्याये च संहते ।रक्तः क्रीडारते रक्ते शुक्तं स्यात्परुषाम्लयोः ॥
15.1.7 · p. 61
अनुष्टुप्
मृतं स्याद्याचिते मृत्यौ जातं जन्मसमूहयोः ।धुतं तु कम्पिते त्यक्ते वृत्ते चारित्रनिर्वृते ॥
15.1.8 · p. 61
अनुष्टुप्
प्राप्ते समञ्जसावाप्ते धूते कम्पिततर्जिते ।मूर्तो मूर्छान्विते व्यक्ते दीप्तं दग्धे प्रभास्वरे ॥
15.1.9 · p. 62
अनुष्टुप्
प्रेतो मृते च भूते च पोतः शिशुवहित्रयोः ।पीतिस्तुरंगमे पाने शितिः श्वेते च मेचके ॥
15.1.10 · p. 62
अनुष्टुप्
सुतौ पुत्रमहीपालावेतावागतकर्बुरौ ।क्रतुर्मुनौ च यज्ञे च ज्ञातिः पितृसगोत्रयोः ।धूर्तौ कितवधूस्तूरौ प्राप्तिः स्याल्लब्धिसिद्धयोः ॥
15.1.11 · p. 62
अनुष्टुप्
कान्तौ प्रस्तरलोहकौ प्रियधवौ कान्ते प्रियङ्गुस्त्रियौकेतुश्चिह्नपताकयोश्च करणे केतुश्च शेषग्रहे ।अन्तो नाश[स]मीपयोर्निगदितः प्रान्ते स्वरूपेऽप्यसौद[न्तः] [34] सानुनिकुञ्जयोश्च दशने दन्ती स्मृता चौषधिः ॥
15.1.12 · p. 62
शार्दूलविक्रीडितम्
यन्ता हस्तिपके सूते भर्ता धातरि पोष्टरि ।शास्ता च शासके शुल्के (?) वप्ता पितरि वापके ॥
15.1.13 · p. 62
अनुष्टुप्
अर्हंस्तु बुद्धे पूज्ये च पतन्पक्षिणि पातुके ।कुर्वन्कर्मकरे भृत्ये अर्वन्स्यात्कुत्सिताश्वयोः ॥
15.1.14 · p. 63
अनुष्टुप्
महद्राज्ये विशाले च गञ्जडुं ? गमशोक्रयोः ।पर्वतौ गिरिदेवर्षी संहतौ दृढसंगतौ ॥
15.1.15 · p. 63
अनुष्टुप्
प्रहतौ क्षीणव्यासन्नौ विगतौ वीतनिष्प्रभौ ।द्विजाती विप्रशकुनौ जीवातुर्जायुजीवयोः ॥
15.1.16 · p. 63
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ण (wrong syllable)
स्तिमितो निश्चले क्लिन्ने आदृतः सादरेऽर्चिते ।गभस्तिः किरणे सूर्ये अगस्तिः पादपे मुनौ ॥
15.1.17 · p. 63
अनुष्टुप्
गोदन्तो हरितालेऽपि दंशितो वर्मितेऽपि च ।सहिता प्रवहिता कॢप्ता तृणता प्रहणं द्वयोः ॥
15.1.18 · p. 63
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
प्रसूती प्रसवोत्पादौ निकृती शाठ्यभर्त्सने ।दुर्गतिर्नरके नैःस्व्ये संततिः पङ्क्तिगोत्रयोः ॥
15.1.19 · p. 64
अनुष्टुप्
आयतिः प्रापणे दैर्ध्ये प्रवृत्तिर्वृत्तिवार्तयोः ।सुव्रता गौः सुदोहापि विवृतान्यागदेऽपि च ॥
15.1.20 · p. 64
अनुष्टुप्
द्रवन्ती स्यादोषधिश्च विजाता सूतिकापि च ।हसन्त्यङ्गारधानी च अवन्ती तु सरित्यपि ॥
15.1.21 · p. 64
अनुष्टुप्
उचितं न्याय्यमभ्यस्तं प्रसृतं स्फुरदुर्गतम् ।ऋन्दितं रुदितेऽऽह्वाने उषितं क्षिप्तदग्धयोः ॥
15.1.22 · p. 64
अनुष्टुप्
प्रसूतं कुसुमे जाते निमित्तं हेतुचिह्नयोः ।कलिते स्वीकृतज्ञाते [ग्रथिते क्रान्त?]गुम्फिते ॥
15.1.23 · p. 64
अनुष्टुप्
अनृतं कृषावसत्ये स्यादिङ्गितं गतिचेष्टयोः ।भाविते रोपितप्राप्ते उदिते भा[35]षितोद्गते ॥
15.1.24 · p. 64
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
स्थापिते निश्चितन्यस्ते वर्धिते दिग्धपूरिते ॥
15.1.25 · p. 65
आयस्तः क्लिशितो जितः प्रतिहतः क्षुब्ध[श्च] कोपान्वितःअव्यक्तास्त्वपरिस्फुटा इव वचाश्चाव्यक्त ईशः स्मृतः ।जीमूतो जलदे गिरौ धृतिकरे स्याद्देवताडद्रुमेआनर्तोऽपि च नृत्यसारिणि ? जले देशप्रभेदे स्मृतः ॥
15.1.26 · p. 65
शार्दूलविक्रीडितम्
गरुत्मान्विहगे तार्क्षे विवस्वांस्त्रिदशेश्वरे ।भगवांस्त्वागते पूज्ये संख्यावान्पण्डिते मिते ॥
15.1.27 · p. 65
अनुष्टुप्
धनपती कुबेराढ्यौ वृषपती वृषेश्वरौ ।हिमाराती रविर्वह्निः प्रजापतिर्नृपो विधिः ॥
15.1.28 · p. 65
metre not recognised
समाघातो वधे युद्धे परिघातोऽस्त्रघातयोः ।पुरस्कृतेऽर्चितान्यूने व्यतीपातोऽक्षययोगयोः ॥
15.1.29 · p. 65
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
अपचितिर्व्ययार्चनहानिषुप्रतिकृतिः प्रतिकारसमानयोः ।कुहरितं रटिते पिकनिस्वनेपरिगतं गतवेष्टितलब्धिषु ॥
15.1.30 · p. 66
द्रुतविलम्बितम्metre not read in every linenearly द्रुतविलम्बितम्