निदान
nidānaक्ली · neut.In 13 kośas: 10 synonym verses, 7 as a nānārtha head word, 2 as a meaning of another word.
निमित्ते कारणं हेतुर्बीजं योनिर्निबन्धनम् ॥ १५१३ ॥निदानमथ कार्यं स्यादर्थः कृत्यं प्रयोजनम् ।
अनुष्टुप्
genderक्लीneut.
genderक्लीneut.
आयुर्वेदी भिषग्वैद्यो दोषज्ञः स्याच्चिकित्सकः ।उपचर्या चिकित्सा स्यान्निदानं हेतुरुच्यते ॥ ६१२ ॥
अनुष्टुप्
genderक्लीneut.
हेतुर्ना कारणं बीजं क्लीबे करणमित्यपि ।क्लीब आद्यं कारणं तु निदानं मूलवस्तु तत् ॥ ९३ ॥
अनुष्टुप्
genderक्लीneut.
हेतुर्नाऽथ द्वयोर्योनिर्निदानं त्वादिकारणम् ।जन्यं कार्यं जन्म-जनुर्-जननान्युद्भवो भवः ॥ २१ ॥
अनुष्टुप्
genderक्लीneut.
आकारस्त्विङ्गितं हेतुर्निमित्तं कारणं समम् ।निबन्धनं निदाने तु बीजं कार्यं तु तद्भवम् ॥ ३८६ ॥
अनुष्टुप्
genderक्लीneut.
प्रतिनादः प्रतिशब्दः प्रतिध्वानं प्रतिश्रुतिः ।निदानं कारणं हेतुः कृत्यमर्थः प्रयोजनम् ॥ १४१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ति (wrong syllable)
genderक्लीneut.
निमित्तं कारणं योनिर्निदानञ्च निबन्धनम् ।बीजं हेतुश्च नामानि सप्तैव प्रथयन्ति वै ॥ २७५६ ॥
अनुष्टुप्
genderक्लीneut.
आदिकारणमित्येतन्निदानं तत् प्रकीर्तितम् ।आत्मा स्वो जीवः पुरूषः क्षेत्रज्ञः पुरुषोऽपि च ॥
अनुष्टुप्
genderक्लीneut.
आत्मा क्षेत्रज्ञपुरुषौ निदानं त्वादिकारणम् ।निमित्तं कारणं बीजं हेतुरर्थ उपधिवत् ॥ २७६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 प (wrong syllable)
genderक्लीneut.
निदानमवसानेऽपि स्वामिन्यपि भवेदिनः ।जठरः कठिनेऽप्युक्तः प्राज्ञैः परिणतेऽपि च ॥ ८२५ ॥
अनुष्टुप्
meaningsअवसान
निदानं तण्डके [58] विद्यात्कारणे व्याधिनिर्णये ।अम्लानं निर्मले ज्ञेयमम्लानं कुसुमान्तरम् ॥
अनुष्टुप्
खण्डनेऽप्यवदाने च निर्याणं त्वपि हस्तिनः ।नेत्रान्ते निर्गमे मोक्षे मरणे च प्रकीर्तितम् ॥ ४४ ॥
अनुष्टुप्
doubtful
तोदनं व्यथने तोत्रे दंशनं वर्मदंशयोः ।दर्शनं दर्पणे शास्त्रे नयनस्वप्नबुद्धिषु ॥दमनः कुसुमे वीरे उपशान्तेऽपि कुत्रचित् ।दशनः शिखरे दन्ते कवचे तु नपुंसकम् ॥दहनो दुष्टचेष्टाग्निभल्लाते चित्रकेऽपि च ।दृशानं तेजसि क्लीबं स्यात्पुमांस्तु विरोचने ॥देवनन्तु जिगीषायां स्यात्क्रीडाव्यवहारयोः ।अक्षेषु देवनः पुंसि सेवायामपि देवना ॥ध्वजी रथे च भूदेवे भये सर्पे धराधरे ।धन्वी ककुभवृक्षे स्यादर्जुने च धनुर्धरे ॥धन्व क्लीबे स्थले चापे धन्वा ना मरुदेशके ।धमनो नालभेदे भस्त्राध्मापकक्रूरयोस्त्रिषु ॥धमनी च शिराहट्टविलासिन्योरपि स्त्रियाम् ।धावनन्तु गतौ शुद्धै पृश्नीपर्ण्यान्तु धावनी ॥धाम गेहे तनौ रश्मौ स्थाने प्रभावजन्मनोः ।नन्दनं वासवोद्यानं पुमानात्यजहर्षयोः ॥नन्दी हरद्वारपाले कन्दवाले वटद्रुमे ।नन्दिन्युमाधेनुभेदगङ्गाननान्दृषु स्त्रियाम् ॥नलिन्याकाशगङ्गायां पद्मिन्यां कमलाकरे ।अम्भोरुहे तु न पुमान् नीलिकायां नपुंसकम् ॥निदानं वत्सदामादिकारणे क्षयकारणे ।निधनं नाशकुलयोः प्रधनं युधि दारुणे ॥पवनं स्यात्कुम्भकारपाकस्थाने नपुंसकम् ।स्यात्पुमांस्तु जगत्प्राणे निष्पावे प्रयतेऽपि च ॥प्रधानं प्रकृतिप्रज्ञामहामात्यपरात्मसु ।एकत्वे चोत्तमे क्लीबं वाच्यलिङ्गन्तु कुत्रचित् ॥पद्मिनी स्त्रीविशेषे स्यात्पद्मसङ्घे सरोऽम्बुजे ।प्रसन्ना स्त्री सुरायां स्यात्सन्तुष्टामलयोस्त्रिषु ॥प्रसूनं पुष्पफलयोः क्लीबं जाते तु वाच्यवत् ।पत्री पत्ररथे श्येनेऽत्रिकाण्डे रथिके त्रिषु ॥पर्व स्यादुत्सवे ग्रन्थौ प्रस्तावचिह्नभेदयोः ।स्याद्दर्शप्रतिपत्सन्धौ विषुवत्प्रभृतिष्वपि ॥पक्ष्मसूत्रांशमुद्रादिकिञ्जल्कनेत्ररोमसु ।पाठीनः पाठके मीनभेदे च गुग्गुलुद्रुमे ॥
metre not recognisednearly अनुष्टुप्nearly अनुष्टुप्: pāda 2, syllable 3 प्र (wrong syllable)nearly अनुष्टुप्: pāda 4, syllable 3 न (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 3 व (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 3 ल्क (wrong syllable); pāda 4, syllable 3 च (wrong syllable)
निदान as a meaning in nānārtha verses
- कोषकल्पतरु उत्तिष्ठतिपर्यवाद्रिपुभावेऽवादवस्थायां व्यवाद्यमे । उदो निदान…र्देहोद्भवोद्यमे । व्युदो विरोधनस्वैरकृत्योः समुद उद्यमे । रुङ्निर्णये प्रत्युदोऽङ्गीकृतौ स्पर्धाभियानयोः ॥ ९६ ॥ Koṣakalpataru 3.5.96
- नानार्थार्णवसंक्षेप तीर्थशास्त्रे निदाने योग्ये च स्त्रीपुष्पे दर्शनेष्वपि । उपाध्यायेऽप्युपाये च प्राहाचार्यकुलेऽपरः ॥ ५४३ ॥ Nānārthārṇavasaṃkṣepa 2.5.543