कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

किरीटिन्

kirīṭinपुं · masc.

In 11 kośas: 10 synonym verses, 1 as a nānārtha head word.

गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम स्वर्गाधिकारो दिक्पालाधिकारश्च प्रथमस्तरङ्गः Gīrvāṇabhāṣābhūṣaṇa 1.30 · p. 10
वज्रपक्षः श्वेतमुखः किरीटिः सर्पकुण्डलः ।भद्रेश्वरश्चन्द्रमौलिः श्रीकण्ठः पाण्डुचन्दनः ॥ ३० ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 श्वे (wrong syllable)
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.41 · p. 93
अर्जुनः फाल्गुनः पार्थः सव्यसाची धनञ्जयः ।राधावेधी किरीट्यैन्द्रिः श्वेताश्वः फाल्गुनो नरः ॥ ४१ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.16 · p. 246
नरः कृष्णोऽर्जुनो राधावेधी फाल्गुन-फल्गुनौ ।किरीटी विजयो जिष्णुः श्वेताश्वो हरिसारथिः ॥ १६ ॥
अनुष्टुप्
genderपुंmasc.
नाममालिका Nāmamālikā · भोज गगनादिनामधेयप्रकरणम् Nāmamālikā 2.14 · p. 7
सूर्यः सूरिर्ग्रहधनो हरिदक्षीणलोचनः ।हेलिः किरीटी पद्माप्तो हरिर्वासरवल्लभः ॥ १४ ॥
अनुष्टुप्
genderपुंmasc.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 144 · p. 70
वृषसेनः सुनिर्मोको दैत्यारिः शक्रनन्दनः ।कर्णशूली किरीटी च शब्दभेदी धनञ्जयः ॥ १४४ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.339 · p. 143
किरीट्यैन्द्रिः सुभद्रेशश्चापे गाण्डीवगाण्डिवे ।पाञ्चाली याज्ञसेनी च द्रौपदी नित्ययौवना ॥ ३३९ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1151 · p. 179
अर्जुनः कर्णजित् पार्थः राधावेधी धनञ्जयः ।सव्यसाची सुभद्रेशः किरीटी च कपिध्वजः ॥ ११५१ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.154 · p. 122
पार्थः किरीटी वीभत्सुः श्वेतवाजी कपिध्वजः ।राधाभेदी सुभद्रेशो गुडाकेशो बृहन्नलः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण उक्तशेषाध्यायः Śabdaratnākara 3.8.1838 · p. 223
अर्जुनः फल्गुनो जिष्णुः सव्यसाची धनंजयः ।कृष्णः किरीटी बीभत्सुः कर्णशत्रुः कपिध्वजः ॥ १८३८ ॥
अनुष्टुप्
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव क्षत्त्रियवर्गः Trikāṇḍaśeṣa 2.8.16 · p. 63
पार्थः किरीटी गाण्डीवी गुडाकेशो बृहन्नलः ।अर्जुनः फाल्गुनो जिष्णुर्विजयश्च धनञ्जयः ॥ १६ ॥
अनुष्टुप्
genderपुंmasc.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.486 · p. 89
स्त्री विद्युति किरीटी तु नार्जुने त्रिः समौलिके ।कीनाशोऽग्नौ यमे पीतहरिते मिश्रवर्णके ॥ ४८६ ॥
अनुष्टुप्