All kośas › Nāmamālikā
नाममालिका Nāmamālikā
314 verses · 2,274 words tagged · 502 marked doubtful (dashed)
गगनादिनामधेयप्रकरणम्
इति नाममालिकायामहिराजेनैव संगृहीतायां स्वर्गादिनामधेयप्रकरणमिदमखिलसुकविमतम् ॥
गगनादिनामधेयप्रकरणम् ।
आकाशं शब्दगुणकं नक्षत्रपदमच्युतम् ।विद्याधराप्सरोयक्षरक्षोगन्धर्वमन्दिरम् ॥ १ ॥
2.1 · p. 6
अनुष्टुप्
छायायां तस्य तिमिरं तमिस्रं भ्रमरं तमः ।पुंस्यन्धकारो मलिनो लोकान्धकर ईर्यते ॥ २ ॥
2.2 · p. 6
अनुष्टुप्
आकाशकुसुमं तारं कोरकं कारकण्टकम् ।निरकं निर्मलं संग्यं नक्षत्रेषु निगद्यते ॥ ३ ॥
2.3 · p. 6
अनुष्टुप्
तद्धूमकेतुनाम स्यात्कालदूतः स एव हि ।रक्तभे तूपरागः स्यात्कृष्णर्क्षे तु कुवेलयम् ॥ ५ ॥
2.5 · p. 6
अनुष्टुप्
शुक्रे कविः शुचिः काव्यः पूर्वदेवपुरोहितः ।गुरौ बृहस्पतिः सूर्यः सुरेज्यः सूरिवासवौ ॥ ६ ॥
2.6 · p. 6
अनुष्टुप्
बिम्बे तस्य सुधासारः कलापूर्णं च मण्डलम् ।चन्द्रिका च सुधा छाया सुखा ज्योत्स्ना तु कौमुदी ॥ ८ ॥
2.8 · p. 6
अनुष्टुप्
वन्यलो विशदा शारदेन्दुकान्तिर्निगद्यते ।हिमे च मधुपूरः स्यात्तुषारस्तुच्छशीकरः ॥ ९ ॥
2.9 · p. 6
अनुष्टुप्
तत्समूहे हिमानी स्याच्छीतलानी तु शीतलम् ।रात्रिर्निशीथिनी काली निशाकरकुटुम्बिनी ॥ १० ॥
2.10 · p. 7
अनुष्टुप्
निशा स्याच्छुक्लपक्षे तु प्रसन्ना चन्द्रिकावती ॥ ११ ॥
2.11 · p. 7
पूर्णिमा पूर्णचन्द्रा स्यात्तत्क्षपा विमला भवेत् ।कृष्णपक्षे निशाः कृष्णास्तामस्यस्तमसाप्लुताः ॥ १२ ॥
2.12 · p. 7
अनुष्टुप्
अमायां स्यादमावास्या पैतृकः पितृवासरः ।तद्यामिन्यां तमोरात्रिः कालरात्रिः करालिका ॥ १३ ॥
2.13 · p. 7
अनुष्टुप्
सूर्यः सूरिर्ग्रहधनो हरिदक्षीणलोचनः ।हेलिः किरीटी पद्माप्तो हरिर्वासरवल्लभः ॥ १४ ॥
2.14 · p. 7
अनुष्टुप्
गता गतानुगतिका छाया जायांशुमालिनः ।शताङ्गे कूबरी तस्य मरुच्चक्रो महाजवः ॥ १५ ॥
2.15 · p. 7
अनुष्टुप्
अमायुः पृतनाधीशो यन्ताहर्मुखसूचकः ।परिधिः परिवेषः स्यात्स सूर्यावरणोऽपि च ॥ १६ ॥
2.16 · p. 7
अनुष्टुप्
इन्द्रचापे मणिधनुश्चित्रं वल्मिकसंभवम् ।करको वर्षपाषाणो दन्तभेदी विमुक्तकः ॥ १८ ॥
2.18 · p. 8
अनुष्टुप्