कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

गुडाकेश

guḍākeśaपुं · masc.

In 7 kośas: 10 synonym verses, 1 as a nānārtha head word, 1 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.481 · p. 30
अर्जुनः फाल्गुनः पार्थः सव्यसाची धनंजयः ॥ ७०८ ॥राधावेधी किरिट्यैन्द्रिर्जिष्णुः श्वेतहयो नरः ।बृहन्नलो गुडाकेशः सुभद्रेशः कपिध्वजः ॥ ७०९ ॥बीभत्सः कर्णजित्तस्य गाण्डीवं गाण्डिवं धनुः ।
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.77 · p. 28
अवटेट इति ख्यातो ज्येष्ठाजो ज्यैष्ठिनेयकः ।मुञ्जकेशो गुडाकेश उभौ वर्वरकेशिनि ॥ ७७ ॥
अनुष्टुप्
genderविadj.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.42 · p. 93
बृहन्नडो गुडाकेशः सुभद्रेशश्च कर्णजित् ।हनूमत्कपिपर्यायध्वजपर्याय इत्यपि ॥ ४२ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नभःस्थदेवप्रकाण्डः Kalpadrukośa 2.3.85 · p. 389
केदारश्चन्दिलो भीमो भैरवो गजदैत्यभित् ।शितिकण्ठो गुडाकेशः श्रीकण्ठः पांशुचन्दनः ॥ ८५ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.17 · p. 246
कपिध्वजश्च कर्णारिर्गुडाकेशश्च शक्रजः ।किरातजेता * * * * * * * * * * * ।सुभद्रेशश्च बीभत्सुस्तथा मध्यमपाण्डवः ॥ १७ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.338 · p. 143
अर्जुनो नरपार्थौ तु गुडाकेशधनंजयौ ।फाल्गुनः सव्यसाची च राधावेधी बृहन्नटः ॥ ३३८ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1152 · p. 179
ऐन्दिर्धन्वी नरो योगी जिष्णुः चित्राङ्गसूदनः ।बीभत्सश्च बीभत्सुर्वै गुडाकेशो बृहन्नटः ॥ ११५२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 बी (wrong syllable)
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.154 · p. 122
पार्थः किरीटी वीभत्सुः श्वेतवाजी कपिध्वजः ।राधाभेदी सुभद्रेशो गुडाकेशो बृहन्नलः ॥
अनुष्टुप्
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव स्वर्गवर्गः Trikāṇḍaśeṣa 1.1.44 · p. 10
कण्ठेकालजयन्तगुह्यगुरवो जोतिङ्गगोपालकौपिङ्गाक्षः कटमर्दरेवतजटाटङ्काव्ययाः कूटकृत् ।चन्द्रापीडमहानटौ च शमिरो हः शैलधन्वा जटा-चीरोऽथर्वणनन्दिवर्धनगुडाकेशाग्रकालञ्जराः ॥ ४४ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव क्षत्त्रियवर्गः Trikāṇḍaśeṣa 2.8.16 · p. 63
पार्थः किरीटी गाण्डीवी गुडाकेशो बृहन्नलः ।अर्जुनः फाल्गुनो जिष्णुर्विजयश्च धनञ्जयः ॥ १६ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ शान्ताः Koṣakalpataru 6.30.27 · p. 368
व्याजे निमित्तेऽप्यथ जीवितेशोजीवातुजीवाधिपयोः कृतान्ते ।कान्तेऽथ शंभौ हरिसारथौ चभवेद्गुडाकेश इहानले तु ॥ २७ ॥
उपजातिः

गुडाकेश as a meaning in nānārtha verses

  • शब्दरत्नावली फाल्गुनफलिन्यग्निशिखायान्तु फल्यां स्त्री तद्वति त्रिषु । फाल्गुणोऽर्जुनवृक्षे च गुडाकेशनदीजयोः ॥ मासभेदे पुमानेव पौर्णमास्यान्तु फाल्गुनी । ब्रह्मा प्रजापतौ ऋत्विग्योगभेदद्विजेषु ना ॥ ब्रह्म तत्त्वे च वेदे च तपस्यपि च न द्वयोः । वन्धनी वटिजीवातु नङिमाठनकर्मसु (?) ॥ बन्धनञ्च वधे बन्धे हिंसायाञ्च नपुंसकम् ॥ Śabdaratnāvalī 7.20.62