जरायु
jarāyuपुं · masc.In 12 kośas: 10 synonym verses, 3 as a nānārtha head word, 5 as a meaning of another word.
गर्भाशयो जरायूल्बे कललोल्बे पुनः समे ॥ ५४० ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
genderपुंmasc.
विजाता च प्रजाता च प्रसूता स्त्री निगद्यते ।गर्भाशयो जरायुः स्यादुल्वं च कललं स्मृतम् ॥ ५०० ॥
अनुष्टुप्
genderपुंmasc.
श्रद्धालुर्दोहदवती स्त्रियां गर्भाशयस्तु ना ।जरायुर्ना चास्त्रियां द्वे कललोल्वेऽपरामरे ॥ ४६ ॥
अनुष्टुप्
genderपुंmasc.
पक्वाशयादधो नाभेरूर्ध्वं त्वाहृत्स्थलं भवेत् ।आमाशयो जरायुस्तु पुंसि गर्भाशयोऽपरा ॥ ५५ ॥
अनुष्टुप्
genderपुंmasc.
गर्भशयो जरायूल्बे प्रसवे विजननं स्मृतम् ।उल्बं च कललं प्रोक्तं दोहदं लालसा पुनः ॥ २०४ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
उलबं च जरायुश्च गर्भाशयोऽपि कथ्यते ॥ ८६१ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
दम् जम्भावश्च जायायाः क्वचिदन्यैर्निगद्यते ।गर्भाशयो जरायुः स्याद् जरायुरवलापता (?) ।न स्त्रियां कललोल्वा च सप्तकं त्वामलाह्वये ॥
अनुष्टुप्
genderपुंmasc.
सगोत्रः स्वजनश्चाथ जारश्चोपपतिः समौ ।गर्भाशयो जरायुर्ना स्यादुल्बं कललोऽस्त्रियाम् ॥ ११३९ ॥
अनुष्टुप्
genderपुंmasc.
जनुर्जननजन्मानि जनिरुत्पत्तिरुद्भवः ।गर्भाशयो जरायुः स्यादुल्बं च कललोऽस्त्रियाम् ॥ १८ ॥
अनुष्टुप्
genderपुंmasc.
जहकस्तु पुमान् काले त्रि तु क्षुद्रे परः पुनः ।त्यागिन्याह जरायुस्तु न स्त्री गर्भाशयेऽथ नप् ॥ ७८५ ॥
अनुष्टुप्
meaningsगर्भाशय
आरण्यके सामभेदे जलात्मा तु द्वयोरयम् ।महिषे त्रि तु तत्र स्याद् यस्यात्मा जडतां गतः ॥ ७८६ ॥
अनुष्टुप्
doubtful
जरायु as a meaning in nānārtha verses
- धरणिकोश अपराअपरं स्यादपाचीनं पश्चाद्गात्रं च दन्तिनाम् । अपरमिदानीमर्थे जरायुश्चापरा स्मृता ॥ Dharaṇikośa 26.3.26
- कोषकल्पतरु उल्बउल्बोऽस्त्रियां स्यात्कमले जरायौ कम्बुः पुमान्स्याद्वलये गजे च । शम्बूकके स्त्री तु न शङ्खवाची जम्बूः स्त्रियां जम्बुरपि द्रुभेदे ॥ २९ ॥ Koṣakalpataru 6.24.29
- कोषकल्पतरु अपरपश्चाच्छरीरे करिणां स्त्रियां तु भवेज्जरायौ चरमेऽधुनार्थे । आर्वाग्भवे भेद्यसमं वदन्ति दन्तच्छदे पुंसि तथाधरः स्यात् ॥ ८३ ॥ Koṣakalpataru 6.27.83
- शब्दरत्नावली अमराअमरस्त्रिदशे वज्रद्रुमेनेन्द्रपुरि स्त्रियाम् ॥ गुडुच्यामपि दूर्वायां जरायुस्थूनयोरपि । अपरा च जरायौ स्याद्गज(?)पश्चार्द्धके स्त्रियाम् ॥ अर्वाचीने वाच्यलिङ्गमितरस्मिन्नपि त्रिषु । अछरो वसुभेदे स्यात्सावधाने क्रतौ पुमान् ॥ अन्तरे परिधाने स्यादवकाशे परात्मनि । छिद्रतादर्थ्यभेदेषु तुल्येऽवसरमध्ययोः ॥ Śabdaratnāvalī 7.27.52
- वैजयन्ती चिकुरचपलः पारदे शीघ्रे दुर्विनीते चले कपौ । चले केशे च चिकुरो जराय्वस्त्र्यंबुजेऽपि च ॥ ३९ ॥ Vaijayantī 7.5.39