कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

निकृति

nikṛtiस्त्री · fem.

In 13 kośas: 11 synonym verses, 4 as a nānārtha head word, 6 as a meaning of another word.

नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नाट्यवर्गः Amarakośa 1.7.30
कपटोऽस्त्री व्याजदम्भोपधयश्छद्मकैतवे ।कुसृतिर्निकृतिः शाठ्यं प्रमादोऽनवधानता ॥ ३० ॥
अनुष्टुप्
genderस्त्रीfem.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध सामान्यकाण्डम् Abhidhānaratnamālā (Halāyudha) 4.740 · p. 85
ईर्ष्या स्यात्कुहना दम्भो मिथ्याचर्या च कुक्कुटिः ।कुसृतिर्निकृतिर्माया शाम्बरी पथकल्पना ॥ ७४० ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव नाट्यप्रकाण्डः Kalpadrukośa 2.5.121 · p. 430
कपटोऽस्त्री व्याजदम्भोपधयश्छद्मकैतवे ।कुसृतिर्निकृतिः शाठ्यं पुंस्युपाधिर्मिषं छलम् ॥ १२१ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव नाट्यप्रकाण्डः Kalpadrukośa 2.5.133 · p. 431
तिरस्क्रिया तिरस्कारो न्यक्कारो निकृतिः स्त्रियाम् ।निकारः सूक्षणं क्षेपो रीढा सूर्क्षणसूर्क्षणे ॥ १३३ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नाट्यवर्गः Koṣakalpataru 1.6.197 · p. 97
माया स्त्री कुसृतिस्तथा च निकृतिर्व्याजोऽपदेशोपधीदम्भः कैतवपक्ष(त्र?)शाठ्यकुहकं दण्डाजिनं स्यान्मिषम् ।* * * * * * * * * * * * *छद्म स्याच्छलमस्त्रियां तु कपटं कूटं च संश्चन्निभम् ॥ १९७ ॥
शार्दूलविक्रीडितम्metre not read in every line
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.42 · p. 106
कुहको व्यंसको मायिदाण्डाजिनिकजालिकाः ।मायायां निकृतिः शाठ्यं शठता कपटे तथा ॥ ४२ ॥
अनुष्टुप्
genderस्त्रीfem.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट ऊर्ध्वलोकसर्गः Paryāyaśabdaratna 1.171 · p. 24
उपधिः पुंसि दम्भे स्याच्छाठ्ये निकृतिरिष्यते ।क्रीडायां खेलना खेला केलिर्नर्म द्रवः पुमान् ॥ १७१ ॥
अनुष्टुप्
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.560 · p. 72
शाठ्यं स्यात् शठता माया कुसृतिर्निकृतिः पुनः ।कपटं कैतवं कूटं मिषं लक्षं तथा छलम् ॥ ५६० ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.471 · p. 33
रीटाभिर्भूतिनिकृतिरसूक्षणमसूक्ष्मणम् ।न्यक्कारोऽपि च नीकारस्त्ववहेलनमाननम् ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.485 · p. 34
अथ शाठ्यञ्च शठता कुसृतिर्निकृतिश्च सा ।हिंसा फले चतुष्कं स्यात् शाठ्यपर्याय ईरितः ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण नाट्याध्यायः Śabdaratnākara 2.8.1018 · p. 127
छलना तु न ना शाठ्यं कुसृतिर्निकृतिः स्त्रियौ ।प्रतारणातिसंधानवञ्चनानि प्रलोभनम् ॥ १०१८ ॥
अनुष्टुप्
genderस्त्रीfem.
धरणिकोश Dharaṇikośa · धरणिदास तपादः Dharaṇikośa 15.1.19 · p. 64
प्रसूती प्रसवोत्पादौ निकृती शाठ्यभर्त्सने ।दुर्गतिर्नरके नैःस्व्ये संततिः पङ्क्तिगोत्रयोः ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ तान्ताः Koṣakalpataru 6.16.36 · p. 223
भवेत्स्रवन्त्यौषधिसिन्धुभेदेवाते त्वमात्ये वहतिर्वृषे नास्त्री दुर्गतिः स्यान्निरये च निःस्वे ।डिम्बे गदे स्याद्विकृतिर्विकारेशठे तु शाठ्ये निकृतिर्निकारे ॥ ३६ ॥
उपजातिःmetre not read in every line
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् स्त्रीलिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 3.1.40 · p. 4
निर्वृतिर्मनसस्तोषे मोक्षेऽस्तमयबाढयोः ।नियतिः सयमे दैवे निकृतिः शठशाठ्ययोः ॥ ४० ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश तान्ताः Śabdaratnāvalī 7.16.112 · p. 220
निकृतिः स्त्री शठे शाठ्ये दैन्ये क्षेये च भर्त्सने ।निर्वृतिः सुत्थितौ सौख्ये तथास्तङ्गमने स्त्रियाम् ॥
अनुष्टुप्

निकृति as a meaning in nānārtha verses