All kośas › Dharaṇikośa
धरणिकोश Dharaṇikośa
1,382 verses · 11,274 words tagged · 1,895 marked doubtful (dashed)
धान्ताः · धार्धश्लोकः
॥ धार्धश्लोकः ॥
विधुश्चन्द्रे हृषीकेशे कर्पूरे च विधुः स्मृतः ।विधी विधानधातारौ विधिः स्यात्कालदैवयोः ॥
18.2.1 · p. 100
अनुष्टुप्
विधा विधौ प्रकारे च गजान्नवेतनर्धिषु ।सुधा लेपोऽमृतं मूर्वा गङ्गेष्टिका स्नुही सुधा ॥
18.2.2 · p. 100
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 न्न (wrong syllable); pāda 4, syllable 3 ष्टि (wrong syllable)
वधूर्नवोढयोषायां स्नुषाभार्याङ्गनासु च ।दधि क्षीरोद्भवं वस्तु तारे दधि च वासके ॥
18.2.3 · p. 100
अनुष्टुप्
आधयः स्युर्मनःपीडाव्यसनाधिष्ठानबन्धकाः ।साधु शोभनमाख्यातं साधुर्वार्धुषिकेऽपि च ॥
18.2.4 · p. 101
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 1 व्यस (syllable split)
राधो वैशाखमासे स्याद्राधा च कृष्णगोपिका ।अन्धो दर्शननिर्मुक्तो जन्तुरन्धं तमो मतम् ॥
18.2.5 · p. 101
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
सिन्धुर्नद्यां समुद्रे च नददेशप्रभेदयोः ।गन्धो लेशे तथामोदे गन्धः संबन्धमात्रके ॥
18.2.6 · p. 101
अनुष्टुप्
शुद्धं शुक्रे च पूते च केवले च प्रयुज्यते ।सिद्धो योगे समुत्पन्ने सिद्धाः स्युर्देवयोनयः ॥
18.2.7 · p. 101
अनुष्टुप्
वृद्धं रूढे च शैलेये वृद्धौ स्थविरपण्डितौ ।दग्धं प्लुष्टं दिक् च दग्धा रविर्यस्यां न तिष्ठति ॥
18.2.8 · p. 101
अनुष्टुप्
दिग्धो विषाक्तबाणे स्याद्दिग्धं लिप्तार्थवाचकम् ।विद्धं सूच्यादिनिर्भिन्ने सादृश्यक्षिप्तयोरपि ॥
18.2.9 · p. 101
अनुष्टुप्
श्राद्धं श्रद्धान्विते श्राद्धं हव्यकव्यविधौ स्मृतम् ।वृद्धिः स्याद्वर्धने ऋद्धौ वृद्धिर्योगकुरुण्टयोः ॥
18.2.10 · p. 102
अनुष्टुप्
विवधवीवधौ भारे पर्याहारे तथाध्वनि ।अवधी कालदण्डौ स्तः सीमानोऽवधयः स्मृताः ॥
18.2.11 · p. 102
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 ध (wrong syllable)
उपधिं व्याजमिच्छन्ति रथस्यावयवे तथा ।परिधिर्यज्ञियतरोः शाखायामुपसूर्यके ॥
18.2.12 · p. 102
अनुष्टुप्
संनिधिः [52] संनिधाने स्यात्प्रत्यक्षे संनिधिः स्मृतः ।निषधः कठिने देशे तद्राजे पर्वतान्तरे ॥
18.2.13 · p. 102
अनुष्टुप्
उपाधिर्धर्मचिन्तायां गृहद्रव्ये विशेषणे ।आनद्धं मुरजाद्यं स्यादानद्धं बद्धमात्रकम् ॥
18.2.15 · p. 102
अनुष्टुप्
न्यग्रोधौ चावटव्यामौ न्यग्रोधी वृषपर्णिका ।कबन्धं सलिले रुण्डे कबन्धो राक्षसान्तरम् ॥
18.2.16 · p. 103
अनुष्टुप्
महौषधी पलाण्डु स्याच्चण्डा चातिविषापि च ।परिव्याधो वेतसे स्यात्परिव्याधो द्रुमोत्पले ॥
18.2.17 · p. 103
अनुष्टुप्
अवरोधस्तिरोधाने राजदारेषु तद्गृहे ।समुन्नद्धाः समुद्भूतपण्डितंमन्यगर्विताः ॥
18.2.18 · p. 103
अनुष्टुप्
अवष्टब्धमदूरे स्यादाक्रान्तमवलम्बितम् ।ब्रह्मबन्धुरधिक्षेपे निदर्शने द्विजान्तरे ॥
18.2.19 · p. 103
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र्श (wrong syllable)
आशाबन्धः समाश्वासे तथा मर्कटजालके ।अनिरुद्ध उषास्वाम्यनिरुद्धो यश्चरो भवेत् ॥
18.2.20 · p. 103
अनुष्टुप्
उपलब्धिः स्मृता बुद्धौ प्राप्तौ ज्ञाने च दृश्यते ।तीक्ष्णगन्धा वचा प्रोक्ता तीक्ष्णगन्धा च राजिका ॥
18.2.21 · p. 103
अनुष्टुप्