कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

अतिवेल

ativelaवि · adj.

In 9 kośas: 8 synonym verses, 2 as a nānārtha head word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.1506 · p. 57
अत्यर्थे गाढमुद्गाढं बाढं तीव्रं भृशं दृढम् ॥ १५०५ ॥अतिमात्रातिमर्यादनितान्तोत्कर्षनिर्भराः ।भरैकान्तातिवेलातिशया जृम्भा तु जृम्भणम् ॥ १५०६ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह स्वर्गवर्गः Amarakośa 1.1.67
सततानारताश्रान्तसन्तताविरतानिशम् ॥ ६५ ॥नित्यानवरताजस्रमप्यथातिशयो भरः ।अतिवेलभृशात्यर्थातिमात्रोद्गाढनिर्भरम् ॥ ६६ ॥तीव्रैकान्तनितान्तानि गाढबाढदृढानि च ।क्लीबे शीघ्राद्यसत्त्वे स्यात् त्रिष्वेषां सत्त्वगामि यत् ॥ ६७ ॥
अनुष्टुप्
genderविadj.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध सामान्यकाण्डम् Abhidhānaratnamālā (Halāyudha) 4.719 · p. 83
अत्यर्थमतिमर्यादमतिवेलं च कथ्यते ।व्यवधानं तिरोधानमन्तर्धिरपवारणम् ॥ ७१९ ॥
अनुष्टुप्
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्वर्गवर्गः Koṣakalpataru 1.2.168 · p. 24
प्रकाममतिकामं च निकामं चातिवेलवत् ।अतिरेकभरोत्कर्षातिशया अतिशायने ॥ १६८ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.2742 · p. 446
उत्कर्षोऽतिशयस्तीव्रं नितान्तं निर्भरो भरः ।एकान्तमतिवेलञ्च गाढं बाढं भृशं पुनः ॥ २७४२ ॥
अनुष्टुप्
genderविadj.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.157 · p. 11
अतिवेलं भृशं गाठं प्रगाढं सुदृढं दृढम् ।उद्गाढं वाढमत्यर्थं सुभृशं भृशमित्यपि ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण दिक्पालाध्यायः Śabdaratnākara 1.3.132 · p. 18
अविरतसन्ततसततानारतमनवरतमनिशमश्रान्तम् ।नित्यमजस्रं तीव्रं भृशमतिवेलं नितान्तमत्यन्तम् ॥ १३२ ॥
गीतिः
genderविadj.
वैजयन्ती Vaijayantī · यादवप्रकाश अर्थवल्लिङ्गाध्यायः Vaijayantī 5.4.131 · p. 211
अतिमात्रेऽतिमर्यादमतिवेलातिमानकम् ।भृशमत्यन्तमत्यर्थमधिकोद्गाढनिर्भरम् ॥ १३१ ॥
अनुष्टुप्
genderविadj.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध अनेकार्थकाण्डम् Abhidhānaratnamālā (Halāyudha) 5.803 · p. 92
अतिमात्रेऽप्यतिवेलं कायेऽप्युत्सेध इष्यते सद्भिः ।पृष्ठास्थन्यपि वंशः कदली करिवैजयन्त्यां च ॥ ८०३ ॥
आर्या
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् चतुरक्षरकाण्डः Nānārthārṇavasaṃkṣepa 6.10 · p. 23
अतिवेलं भृशे वेलामतिक्रान्तेऽप्यथोच्यते ।सहाये स्यादनुचरस्तथैवाप्यनुगन्तरि ॥ १० ॥
अनुष्टुप्