नाश
nāśaपुं · masc.In 14 kośas: 14 synonym verses, 13 as a nānārtha head word, 39 as a meaning of another word.
मृतिः संस्था मृत्युकालौ परलोकगमोऽत्ययः ॥ ३२३ ॥पञ्चत्वं निधनं नाशो दीर्घनिद्रा निमीलनम् ।दिष्टान्तोऽस्तं कालधर्मोऽवसानं सा तु सर्वगा ॥ ३२४ ॥
अनुष्टुप्
genderपुंmasc.
अभावो नाशे संक्रामसंक्रमौ दुर्गसंचरे ॥ १५१७ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
स्यात्पञ्चता कालधर्मो दिष्टान्तः प्रलयोऽत्ययः ।अन्तो नाशो द्वयोर्मृत्युर्मरणं निधनोऽस्त्रियाम् ॥ ११६ ॥
अनुष्टुप्
genderपुंmasc.
निधनं नाशो मृत्युर्मरणं पञ्चत्वमत्ययः कालः ।संस्था स्याद्दिष्टान्तो निमीलनं दीर्घनिद्रा च ॥ ६२८ ॥
आर्या
genderपुंmasc.
अपि स्यात्तद्वत्प्रलयो दिष्टान्तोऽप्यत्ययोऽपि च ।नाशः स्त्रियां पञ्चता स्यान्निधनं षण् द्वयोः पुनः ॥ ३७४ ॥
अनुष्टुप्
genderपुंmasc.
निगारोद्गारनिक्षावा उद्ग्राहो गरणादिषु ।उपरामे त्ववाविभ्यो रतिर्नाशस्त्वभावके ॥ ८० ॥
अनुष्टुप्
genderपुंmasc.
स्युः कालधर्म-प्रलयात्ययान्त-दिष्टान्त-नाशाः परलोकयात्रा ।स्याद्दीर्घनिद्रा च मृतिश्च संस्थामृत्युर्द्वयोः स्यादपि पञ्चता स्त्री ॥ ७१ ॥
इन्द्रवज्रा
genderपुंmasc.
वीराणां यद्रणे नृत्तं तस्मिन्वीरजयन्तिका ।नाशस्त्वपक्रमोऽपायो विप्रयाणं पलायनम् ॥ २०२ ॥
अनुष्टुप्
genderपुंmasc.
नाशोऽभावस्तथा संनिवेशः संस्थानमीक्ष्यते ।विस्रम्भोऽप्यथ विश्वासो विकारः परिणामतः ॥ ३९० ॥
अनुष्टुप्
genderपुंmasc.
दीर्घनिद्रा च दिष्टान्तः परलोकगमस्तथा ।नाशोऽस्तं चेति मृत्योर्नामानि कथितानि वै ॥ ४७७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
नाशोऽभावो द्वयं नाम नाशस्य कथ्यते बुधैः ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्य (wrong syllable)
genderपुंmasc.
मारको मरको मारः संघातोऽपि च घातनम् ।अथाघातो वधस्थानं प्रघात इति कुत्रचित् ॥मरणं प्रलयो नाशः कालधर्मश्च पञ्चता ।द्वयोर्मृत्युर्भूमिलाभो निपातो निधनोऽस्त्रियाम् ॥
अनुष्टुप्
genderपुंmasc.
लयो नाशः कालधर्मो दीर्घनिद्रा च पञ्चता ।मरणं निधनं मृत्युर्द्वयोर्जीवोऽसुधारणम् ॥ १०५७ ॥
अनुष्टुप्
genderपुंmasc.
शौर्यं वीर्यमथ स्थाम बलं शुष्म तरः सहः ।नाशस्त्वपक्रमोऽपायो विप्रयाणं पलायनम् ॥ २१० ॥
अनुष्टुप्
genderपुंmasc.
बलाद्ग्रहे त्वाङ्परोऽथ वेर्विभागे विलेपने ।हावे जैह्म्येऽथोत्परोऽयं नाशोद्धरणयोर्मतः ॥ ७२ ॥
अनुष्टुप्
meaningsउच्छिदि
कीर्णतिः स्याद्विहारेऽभे रमिः कान्ताववादुपात् ।व्याङभिभ्यो निवृत्तौ स नाशेऽतेरतिशायने ॥ ८० ॥
अनुष्टुप्
meaningsरमि
उदो नाशे समोऽर्थित्वे निरोऽतिपचने पचिः ।गिरति स्याद्गिलति च द्वयं निगरणे मतम् ॥ ६ ॥
अनुष्टुप्
meaningsउत्पच्
लोध्रे तथा गन्धरसेऽथ दर्शःसूर्येन्दुसङ्गेऽप्यवलोकनेऽपि ।श्रौते च पक्षान्त विधौ तथाथस्पर्शो भवेत्स्पर्शनदानयोश्च ।त्वाचे गुणेऽर्तौ च नृवैश्ययोस्तुनास्त्री प्रवेशे विडिह प्रजायाम् ।मले न ना स्त्री तु खगादिबन्धेकचोत्तरस्थो निकरे च पाशः ।कर्णान्तगः शोभनवाचकः स्या-न्निन्दार्थकश्चात्र परस्थितोऽयम् ।नाशो विनाशानुपलम्भयोः स्यात्पलायनेऽथ क्षवथौ पुमान्स्यात् ॥ ६ ॥
इन्द्रवज्राtwo metres in one verse
मृतावदर्शने नाकुः स्याद्वल्मीके वनस्पतौ ।पक्षः पार्श्वगरुत्साध्यसहायबलभित्तिषु ॥ ६९ ॥
अनुष्टुप्
doubtful
नाश as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् निष्ठानिष्ठा निष्पत्तिनाशान्ताः काष्ठोत्कर्षे स्थितौ दिशि । Amarakośa 3.3.80
- नामलिङ्गानुशासनम् निधनप्रसूनं पुष्पफलयोर्निधनं कुलनाशयोः । Amarakośa 3.3.233
- धरणिकोश निष्ठानिष्ठा निष्पत्तिनाशान्तयाच्ञानिर्वहणेषु च । काष्ठा दिक्कालमर्यादाकर्षेषु काष्ठमिन्धनम् ॥ Dharaṇikośa 11.2.1
- धरणिकोश अन्तकान्तौ प्रस्तरलोहकौ प्रियधवौ कान्ते प्रियङ्गुस्त्रियौ केतुश्चिह्नपताकयोश्च करणे केतुश्च शेषग्रहे । अन्तो नाश[स]मीपयोर्निगदितः प्रान्ते स्वरूपेऽप्यसौ द[न्तः] [34] सानुनिकुञ्जयोश्च दशने दन्ती स्मृता चौषधिः ॥ Dharaṇikośa 15.1.12
- धरणिकोश संस्थाआस्थामालम्बनं विद्यादास्था चास्थानयत्नयोः । संस्था तु प्रणिधौ नाशे स्थितिसादृश्ययोरपि ॥ Dharaṇikośa 16.2.1
- धरणिकोश निरोधसंनद्धो वर्मिते व्यूढे दुर्विधो दुर्गते खले । प्रसिद्धो भूषिते ख्याते निरोधो नाशरोधयोः ॥ Dharaṇikośa 18.1.7
- धरणिकोश निधनदंशनं कवचे दंशे गहनं गह्वरे वने । अवनं रक्षणे प्रीतौ निधनं कुलनाशयोः ॥ Dharaṇikośa 19.1.11
- धरणिकोश अत्ययप्रणयः प्रेमणि ख्यातो याच्ञाविश्रम्भयोरपि । अत्ययोऽतिक्रमे कृच्छ्रे दोषे च नाशदण्डयोः ॥ Dharaṇikośa 25.2.21
- धरणिकोश पराभवपराभवौ नाशावज्ञे परिप्लवौ चपलाकुलौ । उपप्लवौ राहुयोगौ जीवंजीवौ द्रुपक्षिणौ ॥ Dharaṇikośa 28.1.6
- कोषकल्पतरु व्ययतिउदोऽयतिस्तथेतिश्च प्रभोत्पत्त्योः प्रकीर्तितौ । अभ्युद्भ्यां तु समृद्धौ स्तो नाशे वेस्तावतेः पुनः ॥ २४ ॥ Koṣakalpataru 3.5.24
- कोषकल्पतरु विप्लवतिआङः प्रवति संप्लुत्यामुत्प्लुतौ स तथोद्धृतौ । अनोः प्लविः स्यात्सहगे विप्लवोत्पातयोरुपात् ॥ औद्धत्येऽथाङभिभ्यां स शौचे नाशे तु वेः परः । समः साकं प्लवे लौल्यलाघवोन्मोहनेकरे ॥ इषतिश्चेङ्खतिर्द्वौ स्तः प्रात्परौ वाजिनां गतौ । अभिघातेऽभ्याङ्परोऽजिर्वेस्तु वीजन-शाठ्ययोः ॥ २७ ॥ Koṣakalpataru 3.5.27
- कोषकल्पतरु विलीलिपौ तु वेर्द्रवे नाशे प्राच्चेष्टानाशमृत्युषु । अतेः प्राच्च तिरोभूतौ नेराङश्च गृदे मृतौ ॥ २१ ॥ Koṣakalpataru 3.5.21
- कोषकल्पतरु निर्रुध्अनो रुधिर्भवेद्युक्तावुपाद्दाक्षिण्यरोधयोः । प्रतेश्चौर्येऽवतोऽन्तर्धौ निर्नाशे वेर्विरोधने ॥ Koṣakalpataru 3.5.435
- कोषकल्पतरु संस्थाआस्थावलम्बस्थितियत्नवाञ्छा- सूक्ता च संस्था स्थितिनाशतौल्ये । व्यक्तौ च यूथं तु गणे तिरश्चां बृंहेऽस्त्रियां स्त्री कुसुमप्रभेदे ॥ ९९ ॥ Koṣakalpataru 6.18.99
- कोषकल्पतरु निरोधस्यात्सं[9a]रोधो रोधने क्षेपणे च रोधे नाशे ज्ञैर्निरोधः प्रदिष्टः । उत्सेधः स्यादुच्छ्रये स्त्री न काये विश्रब्धश्चानुद्भटे चापि शान्ते ॥ ७० ॥ Koṣakalpataru 6.20.70
- कोषकल्पतरु स्थानस्थानं तु न स्त्री स्थितिसंनिवेशा- वकाशनाशास्त्वथ सूनमाहुः । पुष्पे द्वयोनं प्रसवे च तद्व- दुच्छूनवाचि त्वपरोपमं स्यात् ॥ ८८ ॥ Koṣakalpataru 6.21.88
- कोषकल्पतरु संधानसंधानमाहुर्गमने वधे च निवृत्तिनाशे मृतसंस्कृतौ च । सैन्येऽप्युपायेऽपगमे च मेढ्रे संभारसिद्ध्योर्द्रविणोपपत्तौ ॥ ६९ ॥ Koṣakalpataru 6.21.69
- कोषकल्पतरु अभावशत्रौ तथा तेजसि च प्रभावो नाशेऽप्यसत्ताविषयेऽप्यभावः । विभाव उक्तो रसकारणेऽपि तथा प्रदिष्टः परिचित्यभिन्नः ॥ २७ ॥ Koṣakalpataru 6.29.27
- नानार्थार्णवसंक्षेप निष्ठानान्दिः कल्याणवृद्धौ स्यान्नाट्यारम्भार्चनान्तरे । निष्ठोत्कर्षेऽप्यवस्थायां नाशेऽन्ते व्रतयाच्ञयोः ॥ ५८ ॥ Nānārthārṇavasaṃkṣepa 2.1.58
- नानार्थार्णवसंक्षेप चुम्रत्रिस्त्वम्लरससंयुक्ते चाङ्गेर्यां तु स्त्रियामियम् । चुम्रशब्दः पुमान्नाशे विषण्णे तु त्रिषु स्मृतः ॥ ४३१ ॥ Nānārthārṇavasaṃkṣepa 2.5.431
- नानार्थार्णवसंक्षेप वीकस्याद्वीकोऽर्थेऽनिले नाशे वसन्तेऽक्षिमले पुनः । वीका स्त्रीत्यब्रवीत् कश्चिद् वीक्षाशब्दस्तु नृस्त्रियोः ॥ १२६९ ॥ Nānārthārṇavasaṃkṣepa 2.5.1269
- नानार्थार्णवसंक्षेप निरोधप्रसोमदेववर्गस्य पञ्चमे साम्नि कीर्तिता । प्रतिषधे निरोधस्तु रोधे संक्षयनाशयोः ॥ ११६ ॥ Nānārthārṇavasaṃkṣepa 3.2.116
- नानार्थार्णवसंक्षेप निधनकुले नाशे सामभक्तौ पञ्चम्यामथ भेद्यवत् । न्यस्ते निसृष्टः स्त्री तु स्यान्निसृष्टा कन्यकान्तरे ॥ १०२० ॥ Nānārthārṇavasaṃkṣepa 4.1020
- परमानन्दीयनाममाला अन्तअगः सूर्ये द्रुमे सर्पे पर्वतेऽन्तः स्वरूपके । प्रान्तावयवोर्नाशे निश्चये निकटेऽपि च ॥ ८ ॥ Paramānandīyanāmamālā 5.1.8
- परमानन्दीयनाममाला अनयअमृता मागधीपथ्यामलकीषु गुडूच्यपि । अनयः पामरे नाशे व्यसनेऽथावधिर्बिले ॥ २९ ॥ Paramānandīyanāmamālā 5.1.29
- परमानन्दीयनाममाला हिंसाहिंसा प्राणापहारे स्यान्नाशे चौर्यादिके तथा । हेतिरुस्रास्त्रयोः प्रोक्तो हेलिः सूर्येऽप्यथो हनुः ॥ ३७६ ॥ Paramānandīyanāmamālā 5.28.376
- शब्दरत्नावली अन्तअस्तः पुंसि पश्चिमाद्रौ क्षिप्तावसितयोस्त्रिषु । अन्तं स्वरूपे नाशे ना न स्त्री शेषेऽन्तिके त्रिषु ॥ Śabdaratnāvalī 7.16.2
- शब्दरत्नावली संस्थावीथिः पंक्तौ पुंसि पथे गृहाङ्गे रूपकान्तरे । संस्थो मृतावस्थितयोः स्त्रियान्तु स्थितिनाशयोः ॥ Śabdaratnāvalī 7.17.7
- शब्दरत्नावली निरोधनिरोधः प्रतिषेधे स्यात् नाशे आवरणेऽपि च ॥ Śabdaratnāvalī 7.19.29
- शब्दरत्नावली निधनतोदनं व्यथने तोत्रे दंशनं वर्मदंशयोः । दर्शनं दर्पणे शास्त्रे नयनस्वप्नबुद्धिषु ॥ दमनः कुसुमे वीरे उपशान्तेऽपि कुत्रचित् । दशनः शिखरे दन्ते कवचे तु नपुंसकम् ॥ दहनो दुष्टचेष्टाग्निभल्लाते चित्रकेऽपि च । दृशानं तेजसि क्लीबं स्यात्पुमांस्तु विरोचने ॥ देवनन्तु जिगीषायां स्यात्क्रीडाव्यवहारयोः । अक्षेषु देवनः पुंसि सेवायामपि देवना ॥ ध्वजी रथे च भूदेवे भये सर्पे धराधरे । धन्वी ककुभवृक्षे स्यादर्जुने च धनुर्धरे ॥ धन्व क्लीबे स्थले चापे धन्वा ना मरुदेशके । धमनो नालभेदे भस्त्राध्मापकक्रूरयोस्त्रिषु ॥ धमनी च शिराहट्टविलासिन्योरपि स्त्रियाम् । धावनन्तु गतौ शुद्धै पृश्नीपर्ण्यान्तु धावनी ॥ धाम गेहे तनौ रश्मौ स्थाने प्रभावजन्मनोः । नन्दनं वासवोद्यानं पुमानात्यजहर्षयोः ॥ नन्दी हरद्वारपाले कन्दवाले वटद्रुमे । नन्दिन्युमाधेनुभेदगङ्गाननान्दृषु स्त्रियाम् ॥ नलिन्याकाशगङ्गायां पद्मिन्यां कमलाकरे । अम्भोरुहे तु न पुमान् नीलिकायां नपुंसकम् ॥ निदानं वत्सदामादिकारणे क्षयकारणे । निधनं नाशकुलयोः प्रधनं युधि दारुणे ॥ पवनं स्यात्कुम्भकारपाकस्थाने नपुंसकम् । स्यात्पुमांस्तु जगत्प्राणे निष्पावे प्रयतेऽपि च ॥ प्रधानं प्रकृतिप्रज्ञामहामात्यपरात्मसु । एकत्वे चोत्तमे क्लीबं वाच्यलिङ्गन्तु कुत्रचित् ॥ पद्मिनी स्त्रीविशेषे स्यात्पद्मसङ्घे सरोऽम्बुजे । प्रसन्ना स्त्री सुरायां स्यात्सन्तुष्टामलयोस्त्रिषु ॥ प्रसूनं पुष्पफलयोः क्लीबं जाते तु वाच्यवत् । पत्री पत्ररथे श्येनेऽत्रिकाण्डे रथिके त्रिषु ॥ पर्व स्यादुत्सवे ग्रन्थौ प्रस्तावचिह्नभेदयोः । स्याद्दर्शप्रतिपत्सन्धौ विषुवत्प्रभृतिष्वपि ॥ पक्ष्मसूत्रांशमुद्रादिकिञ्जल्कनेत्ररोमसु । पाठीनः पाठके मीनभेदे च गुग्गुलुद्रुमे ॥ Śabdaratnāvalī 7.20.57
- शब्दरत्नाकर रिष्टरुचिः कन्तिस्पृहार्चिःषु रीतिः स्थित्यारकूटयोः । रेणुर्मुनौ च पांसौ च रिष्टं नाशे शुभाशुभे ॥ १९८८ ॥ Śabdaratnākara 4.1.1988
- शब्दरत्नाकर निर्वृतिनालिका विवरे वेणुभाजने चुल्लिरन्ध्रके । निर्गन्धः श्रमणे निःस्वे निर्वृतिः सौख्यनाशयोः ॥ २११३ ॥ Śabdaratnākara 4.1.2113
- त्रिकाण्डशेष निरोधरोधे निरोधो नाशे च बुद्धो ज्ञाते जिने बुधे । निषेधे बुद्धयोर्बाधो रौहिणेये कवौ बुधः ॥ २१९ ॥ Trikāṇḍaśeṣa 3.3.219
- वैजयन्ती निष्ठानिष्ठोत्कर्षे व्यवस्थायां नाशेऽन्ते व्रतयज्ञयोः । भित्तिमूले प्रधौ नेमिर्निन्दा कुत्सापवादयोः ॥ २१ ॥ Vaijayantī 6.2.21
- वैजयन्ती रिष्टरहो रहस्ये सुरते रिष्टं नाशे शुभेऽशुभे । रुक्मं हेम सुलोहं च रेतसी शुक्लमंबु च ॥ २७ ॥ Vaijayantī 6.3.27
- वैजयन्ती चुम्रचेलं वासोऽक्षमं काम्यं गर्हितं बर्हिचन्द्रकः । चुम्रो नाशे विषण्णे च चोक्षो गीतमनोज्ञयोः ॥ ३१ ॥ Vaijayantī 6.5.31
- वैजयन्ती निर्वृतिचापे तृणत्वे तृणता दारिद्येऽपि च दुर्गतिः । पद्माकरेऽब्जे नलिनी स्वास्थ्ये नाशे च निर्वृतिः ॥ १० ॥ Vaijayantī 7.2.10
- वैजयन्ती निधननिधनोऽस्त्री कुले नाशे निस्त्रिंशः क्रूरखड्गयोः । नालीकमब्जे बाणे ना निशान्तं गृहशान्तयोः ॥ ५१ ॥ Vaijayantī 7.5.51
- वैजयन्ती पराभवअग्निरुद्रौ पशुपती नाशावज्ञे पराभवौ । रक्षः सन्तौ पुण्यजनौ नीचमूर्खौ पृथग्जनौ ॥ २६ ॥ Vaijayantī 8.1.26