कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

दशमिन्

daśaminपुं · masc.

In 11 kośas: 11 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.340 · p. 17
वार्धकं स्थाविरं ज्यायान्वर्षीयान्दशमीत्यपि ॥ ३४० ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह मनुष्यवर्गः Amarakośa 2.6.69
वर्षीयान्दशमी ज्यायान्पूर्वजस्त्वग्रियोऽग्रजः ।
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.97 · p. 31
झर्झरोऽपि च यामः स्याद्वर्षीयान्दशमीत्यपि ।पितामहाः पितुर्वंश्या मातुर्मातामहाश्च ते ॥ ९७ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.16 · p. 210
भवेद्दशमिता चात्र वार्द्धकं भाववृन्दयोः ।अतिवृद्धस्तु वर्षीयान्वर्षिष्ठो दशमी च सः ॥ १६ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.5 · p. 102
जी[56]नो जीर्णो जरी यातयामो वृद्धत्ववार्द्धके ।विस्रसा स्थाविरं ज्यायान्वर्षीयान्दशमी पुनः ॥ ५ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.106 · p. 38
अतिवृद्धे तु दशमी ज्यायाञ्शब्दश्च कथ्यते ।तुन्दिले तुण्डिभस्तुण्डी तुण्डिकश्चापि तुण्डिलः ॥ १०६ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.501 · p. 63
विस्त्रसा च जरा स्याद्वै वार्द्धकं स्थाविरं पुनः ।ज्यायान् जरत्तरश्चैव वर्षीयान् दशमी तथा ॥ ५०१ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.203 · p. 96
वर्षीयान् दशमी ज्यायान् अतिवृद्धे समं त्रयम् ।अथ ज्येष्ठः पूर्वजः स्यादग्रजोऽग्रिय इत्यपि ॥
अनुष्टुप्
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि तृतीयः काण्डः Śabdaratnākara 3.4 · p. 188
यौवनिकापि तारुण्ये स्थविरे तु जरन् जरी ।जरन्तश्च जीन-जीर्णावतिवृद्धे दश्म्ययम् ॥ ४ ॥
metre not recognised
genderपुंmasc.doubtful
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण मनुष्याध्यायः Śabdaratnākara 3.1.1142 · p. 141
केशादौ जरया शौक्ल्यं पलितं विस्रसा जरा ।जरठः स्थविरो वृद्धः प्रवया दशमी जरन् ॥ ११४२ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश अर्थवल्लिङ्गाध्यायः Vaijayantī 5.4.4 · p. 201
वर्षीयान् दशमी ज्यायान् कनिष्ठोऽवरजोऽनुजः ।जघन्यजो यवीयांश्च पूर्वजे त्वग्रियोऽग्रजः ॥ ४ ॥
अनुष्टुप्
genderविadj.