द्विपाद्य
dvipādyaपुं · masc.In 9 kośas: 9 synonym verses.
genderपुंmasc.
genderपुंmasc.
इति यः क्रियते सन्धिः प्रतीकारः पुमानयम् ।द्विपाद्यो द्विगुणो दण्डो भागधेयोऽस्त्रियां बलिः ॥ १०३ ॥
अनुष्टुप्
genderपुंmasc.
दिशोदण्डस्तु दिग्दण्डो दम्यो दण्ड्यश्च भेद्यवत् ।द्विपाद्यश्च त्रिपाद्यश्च दण्डो द्वित्रिगुणो हि यः ।साम सान्त्वं सान्त्वनं च ढौकन-प्राभृते समे ॥ ६२ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
आगो मन्तुश्च बन्धे तूद्दानं बन्धनसन्धने ।प्रोक्तो द्विगुणदण्डे तु द्विपाद्यो द्विपदीति च ॥ २७२ ॥
अनुष्टुप्
genderपुंmasc.
genderपुंmasc.
अथापराधो मन्तुः स्यात्तथागः त्वग इत्यपि ।अथ बन्धनमुद्दानं बन्धः संयमनन्तथा ॥उचिताद्द्विगुणो दण्डो द्विपाद्यमभिधीयते ।राजग्राह्ये तु भागे स्यात् भागधेयो बलिः करः ॥
अनुष्टुप्
genderक्लीneut.
द्विपाद्यो द्विगुणो दण्डः शुल्को घट्टादिदेयके ।बलिः करो भागधेय उपदा स्यादुपायनम् ॥ १२८८ ॥
अनुष्टुप्
genderपुंmasc.
प्रदेशनं प्राभृतञ्च लम्बा तूत्कोच आमिषः ।दण्डो दमः साहसोऽस्त्री द्विपाद्यो द्विगुणो दमः ॥ ४६ ॥
अनुष्टुप्
genderपुंmasc.