अपराध
aparādhaपुं · masc.In 15 kośas: 12 synonym verses, 1 as a nānārtha head word, 26 as a meaning of another word.
प्रक्रिया त्वधिकारोऽथ मर्यादा धारणा स्थितिः ।संस्थाऽपराधस्तु मन्तुर्व्यलीकं विप्रियागसी ॥ ७४४ ॥
अनुष्टुप्
genderपुंmasc.
genderपुंmasc.
व्यलीकमपराधः स्यादागो मन्तुश्च विप्रियम् ।प्रणतिः स्यादनुनयः प्रणिपातश्च सान्त्वनम् ॥ ७४९ ॥
अनुष्टुप्
genderपुंmasc.
संस्था स्थितिश्च मर्यादा सीमा मन्तुस्तु पुंस्ययम् ।अपराधोप्यलीको स्त्री स्यात् क्लीबे विप्रियागसी ॥ ९४ ॥
अनुष्टुप्
genderपुंmasc.
आदेशोऽपि नियोगश्च शासनं शिष्टिरित्यपि ।विप्रियागो-व्यलीकानि मन्तुः स्यादपराधवत् ॥ ७७ ॥
अनुष्टुप्
genderपुंmasc.
अपराधो व्यलीकं च मन्तुः स्याद्विप्रियागसी ।भागधेयो बलिश्चैव करे सेना पताकिनी ॥ ३६४ ॥
अनुष्टुप्
genderपुंmasc.
नृयानं दोलिका दोली भूपयानं चतुष्किका ।अपराधो मन्तुरागो दण्डो भूपवलिः करः ॥ २३३ ॥
अनुष्टुप्
genderपुंmasc.
प्रस्तावोऽवसरो वेला वारश्च समयः क्षणः ।आगोऽपराधो मन्तुश्च व्यलीकं विप्रियाहिते ॥ ९२ ॥
अनुष्टुप्
genderपुंmasc.
व्यलीकं विप्रियं मन्तुः आगाऽपराध उच्यते ॥ १२१५ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
अथापराधो मन्तुः स्यात्तथागः त्वग इत्यपि ।अथ बन्धनमुद्दानं बन्धः संयमनन्तथा ॥उचिताद्द्विगुणो दण्डो द्विपाद्यमभिधीयते ।राजग्राह्ये तु भागे स्यात् भागधेयो बलिः करः ॥
अनुष्टुप्
genderपुंmasc.
ते पञ्चधा वणिग्भिक्षुच्छात्रलिङ्गिकृषीवलाः ।आगोऽपराध उद्दानं बन्धनं दण्डनं दमः ॥ १२८७ ॥
अनुष्टुप्
genderपुंmasc.
अपराधो मन्तुरेनः खसृमं विप्रियागसी ।अपवादस्तु निर्देशो निदेशः शासनं तथा ॥ ४७ ॥
अनुष्टुप्
genderपुंmasc.
अपराध as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् किल्बिषउपादानेऽप्यामिषं स्यादपराधेऽपि किल्बिषम् ॥ २२४ ॥ Amarakośa 3.3.224
- नामलिङ्गानुशासनम् आगस्पापापराधयोरागः खगबाल्यादिनोर्वयः ॥ २३१ ॥ Amarakośa 3.3.231
- धरणिकोश एनस्वेधा विद्वानपि ब्रह्मा वर्चांसि रूपविट्त्विषः । एनोऽपराधे दुरिते आगः पापापराधयोः ॥ Dharaṇikośa 31.1.3
- कल्पद्रुकोशः अपचर्अपराधे त्वपादाङोऽनुत्थानेऽनुगमे त्वनोः । प्रतिसंभ्यां तु संहारे प्रत्यूहे विघ्नगण्डकौ ॥ १०५ ॥ Kalpadrukośa 1.10.105
- कोषकल्पतरु किल्बिषस्याद्धेमले ना निकषः स्त्रियां तु रक्षोजनन्यां नहुषोऽहिराज्ञोः । पापेऽन्तिमे स्यात्कलुषं परस्मिं- स्तदाविले कल्मषरोगयोस्तु । तथापराधेऽपि च किल्बिषं स्या- त्स्पन्दे दृशोः स्यान्निमिषो निमेषः ॥ ४६ ॥ Koṣakalpataru 6.30.46
- कोषकल्पतरु आगस्विष्णौ बुधे ब्रह्मणि चाथ पापे- ऽपराध आगोऽथ पुरीषदीप्त्योः । रूपेऽपि वर्चोऽथ सुधांशुपुत्रे पुमांश्च वेदे त्वभिलाषके च ॥ ९९ ॥ Koṣakalpataru 6.31.99
- कोषकल्पतरु एनस्छन्दो यदृच्छाचरणे च पद्य- भेदेऽप्यदन्तस्तु पुमान्समार्थः । एनोऽपराधे कलुषे मन[89b]स्तु चित्ते धियां पुंसि भवेन्न रोदः ॥ १०० ॥ Koṣakalpataru 6.31.100
- नानार्थार्णवसंक्षेप अङ्कअङ्कः समीप उत्सङ्गे चिह्ने स्थानापराधयोः । रूपकाणां विशेषे च नाटकादेश्च पर्वसु ॥ ६ ॥ Nānārthārṇavasaṃkṣepa 2.2.6
- नानार्थार्णवसंक्षेप आगस्आष्ट्रं तु रश्मावाकाशेऽप्यागः पापापराधयोः । रहस्ये चोक्थशब्दस्तु सामस्तोत्रेषु च त्रिषु ॥ १२ ॥ Nānārthārṇavasaṃkṣepa 2.3.12
- नानार्थार्णवसंक्षेप एनस्एनः पापेऽपराधे च स्यादोजो बलतोययोः । दीप्तौ प्रकाशेऽवष्टम्भे काव्यालङ्कारभेदके ॥ १६ ॥ Nānārthārṇavasaṃkṣepa 2.3.16
- नानार्थार्णवसंक्षेप रन्ध्रसङ्ख्याभेदे तु शङ्खस्य शस्त्रस्यायसि लक्षयेत् । अपराधे तु रन्ध्रस्य व्याधेः कुष्ठाख्यभेषजे ॥ ८ ॥ Nānārthārṇavasaṃkṣepa 2.5.8
- नानार्थार्णवसंक्षेप छिद्रछिद्रं रन्ध्रेऽपराधे च दूषणे त्वजयोऽब्रवीत् । एतेषु क्लीबलिङ्गं स्यात् त्रिषु तुच्छिद्रवत्यदः ॥ ४४५ ॥ Nānārthārṇavasaṃkṣepa 2.5.445
- नानार्थार्णवसंक्षेप मन्तुवैमनस्येऽपराधे च तथा शोके प्रजापतौ । अजयस्त्वाह विज्ञे त्रिस्तथैव स्यात् प्रियंवदे ॥ ९६२ ॥ Nānārthārṇavasaṃkṣepa 2.5.962
- नानार्थार्णवसंक्षेप रन्ध्रविवरे चापराधे च भूषणे त्वपरे विदुः । लग्नादप्यष्टमे राशौ विदुः सांवत्सरा इदम् ॥ १०९३ ॥ Nānārthārṇavasaṃkṣepa 2.5.1093
- नानार्थार्णवसंक्षेप व्यलीकपीडायां च विलक्षे चाप्यपराधे विपर्यये । केचित् त्वाहुर्भेद्यलिङ्गमप्रिये व्यञ्जनं पुनः ॥ १५९४ ॥ Nānārthārṇavasaṃkṣepa 4.1594
- नानार्थार्णवसंक्षेप विप्रियजलदुर्गे भेघवत् तु गहने विप्रियं तु नप् । अपराधे भेद्यवत् तु विज्ञेयं विगतप्रिये ॥ १७०८ ॥ Nānārthārṇavasaṃkṣepa 4.1708
- नानार्थार्णवसंक्षेप शाबरलोध्रे क्ली त्वपराधे च पापे च शबरस्य तु । सम्बन्धिान त्रि ना तु स्यान्मासि श्रावणिके तथा ॥ १८२३ ॥ Nānārthārṇavasaṃkṣepa 4.1823
- परमानन्दीयनाममाला एनस्एकोऽथ केवले पूज्य एनः पापापराधयोः । एडमूकः शठे कर्णवाग्विवर्जित एव च ॥ ८० ॥ Paramānandīyanāmamālā 5.5.80
- शब्दरत्नावली अङ्कक्रोडान्तिकापराधेषु तथाङ्कं पापदुःखयोः । एकः संख्याभेदे श्रेष्ठे त्रिषु स्यात् केवलान्ययोः ॥ Śabdaratnāvalī 7.1.3
- शब्दरत्नावली मन्तुमतं ज्ञाते सम्मते च मतिबुद्धीच्छयोः स्मृता । मन्तुः पुंस्यपराधे स्याद् विद्यातरि च मानुषे ॥ Śabdaratnāvalī 7.16.36
- शब्दरत्नावली आगस्अदः परस्मिन्नत्र त्रिष्वभ्यासोऽभ्यसनेऽन्तिके । आगः पापेऽपराधे स्यादाग इत्यपि कुत्रचित् ॥ Śabdaratnāvalī 7.32.15
- शब्दरत्नावली एनस्ओजः क्लीबं बले दीप्ताववष्टम्भप्रकाशयोः । एनः पापेऽपराधेऽपि निन्दायामपि न द्वयोः ॥ Śabdaratnāvalī 7.32.19
- त्रिकाण्डशेष एनस्उदर्च्चिरुत्प्रभे वह्नावेनः पापपराधयोः । कनीयाननुजेऽल्पे च कंसो मानेसुरान्तरे ॥ ४४४ ॥ Trikāṇḍaśeṣa 3.3.444
- वैजयन्ती छिद्रछन्दः श्रुतीच्छापद्येषु च्छिद्रं रंध्रापराधयोः । जालं गवाक्ष आनाये क्षारके कपटे गणे ॥ ९ ॥ Vaijayantī 6.3.9
- वैजयन्ती आगस्आगः किल्बिषमेनश्च त्रीणि पाप्मापराधयोः । शकुनं च निमित्तं च शुभादेः सूचकेऽपि च ॥ १६ ॥ Vaijayantī 8.3.16
- वैजयन्ती रन्ध्रपिण्डारे त्ववटोः पाणेश्चायुधस्य त्वयस्यपि । अपराधे तु रन्ध्रस्य बदरस्य तु नागरे ॥ ९ ॥ Vaijayantī 8.6.9