कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

शुल्क

śulkaपुंक्ली · m. n.

In 15 kośas: 12 synonym verses, 10 as a nānārtha head word, 2 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.502 · p. 30
शुल्कस्तु घट्टादिदेयं धर्माध्यक्षस्तु धार्मिकः ॥ ७२४ ॥धर्माधिकरणी चाथ हट्टाध्यक्षोऽधिकर्मिकः ।
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह क्षत्रियवर्गः Amarakośa 2.8.27
घट्टादिदेयं शुल्कोऽस्त्री प्राभृतं तु प्रदेशनम् ॥ २७ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.104 · p. 100
कारः करो नाथोद्दानं बन्धनं शुल्कमस्त्रियाम् ।घट्टादिदेये द्रव्ये स्यादथापि द्विविधं भयम् ॥ १०४ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.40 · p. 248
प्रक्रिया चाथ शुल्कोऽस्त्री देयं घट्टादिकेषु यत् ।स्थायुकोऽधिकृतो ग्रामे गोपो ग्रामेषु भूरिषु ॥ ४० ॥
अनुष्टुप्
genderपुंक्लीm. n.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पुंनपुंसकलिङ्गाधिकारः Koṣakalpataru 4.5.35 · p. 111
genderपुंक्लीm. n.
प्राग्वंशशब्दः पुंसि भवति । अयं प्राग्वंशो यज्ञकुटी । शृङ्खलं त्रिषु लिङ्गेषु जानीहि । अयं शृङ्खलः इयं शृङ्खला इदं शृङ्खलम् । एते पुंसि कथिताः । अयं चमसः सोमपात्रम् । अयं स्तम्भः । निदाघो घर्मः । पशुर्गवादिः ।शूको धान्यादीनाम् । विटकः पिण्डकृतपरिमाणद्रव्यं शौण्डो वा ।वल्कलकुण्डलहिमचिह्नखलीनककुदगुह्यशुल्कशकलानि ।तीरोलूखलकवचानि च विद्यादितरजातौ ॥ ७७ ॥
metre not recognised
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.349 · p. 145
घट्टशुल्कावुभौ तुल्यौ अरिशत्रू द्विषन्रिपुः ।विपक्षोऽसहनो दस्युर्द्विड्द्वेषी शात्रवोऽपि च ॥ ३४९ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास पुंनपुंसकलिङ्गसंग्रहः Paramānandīyanāmamālā 6.5.130 · p. 227
genderपुंक्लीm. n.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.273 · p. 59
राज्ञां क्षेत्रादिभागे तु भागधेयं बलिः करः ।नद्यादितरणादौ यद्द्रव्यं शुल्कं तदिष्यते ॥ २७३ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.994 · p. 185
शुल्कं घट्टादिदेयं स्वं ख्यातं विश्वे हि सर्वदा ।
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.208 · p. 125
घट्टादिदेये शुल्कोऽस्त्री यौतुकान्तधनेऽपि च ।उपहारः प्राभृतं स्यादुपग्राह्यमुपायनम् ॥
अनुष्टुप्
genderपुंक्लीm. n.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण क्षत्रियाध्यायः Śabdaratnākara 3.3.1288 · p. 157
द्विपाद्यो द्विगुणो दण्डः शुल्को घट्टादिदेयके ।बलिः करो भागधेय उपदा स्यादुपायनम् ॥ १२८८ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नानार्थवर्गः Amarakośa 3.3.32
पुष्परेणौ च किञ्जल्कः शुल्कोऽस्त्री स्त्रीधनेऽपि च ।
अनुष्टुप्
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध अनेकार्थकाण्डम् Abhidhānaratnamālā (Halāyudha) 5.828 · p. 95
रतिभुक्त्योः सम्भोगः पथिदेये स्त्रीधने च शुल्कं स्यात् ।वंशाङ्कुरे करीरं वृक्षविशेषेऽपि कथयन्ति ॥ ८२८ ॥
आर्या
धरणिकोश Dharaṇikośa · धरणिदास कार्धश्लोकः Dharaṇikośa 1.2.2 · p. 5
कं केशे कं च नारीणां करणे च तयोर्गणे ।शुल्कं घट्टे विवाहार्थे जामातुर्गृह्यते च यत् ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ कान्ताः Koṣakalpataru 6.1.10 · p. 136
घट्टादिदेये दुहितुश्च पत्युःस्याद्बन्धके शुल्कमपि स्त्रियां न ।मुष्कोऽण्डकोशे तुरगादिमानेस्त्रियां न वृन्देऽपि स मोक्षवृक्षे ॥ १० ॥
उपजातिः
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.1387 · p. 161
आपन्ने परुषेऽम्ले चं शुल्कं त्वस्त्री महीपतेः ।मार्गादिषु प्रदेयेऽर्थे विवाहाय वराद्धने ॥ १३८७ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.1388 · p. 161
ग्राह्ये शुष्मं तु नप् तोये संयोगबलयोरपि ।कश्चित्तु पुंसि सवितर्यपि मारुतकालयोः ॥ १३८८ ॥
अनुष्टुप्
doubtful
शब्दरत्नावली Śabdaratnāvalī · मथुरेश कान्ताः Śabdaratnāvalī 7.1.24 · p. 178
श्लोको यशसि पद्ये च स्तोकः स्याच्चातकाल्पयोः ।शुल्कं घट्टादिदेये तु वरादर्थग्रहे स्त्रियाः ॥
अनुष्टुप्
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.2015 · p. 245
शब्दः कीर्तौ ध्वनौ वाक्ये श्रवणेऽक्षरगीतयोः ।स्यादध्वदेयजामातृदेययोः शुल्कमस्त्रियाम् ॥ २०१५ ॥
अनुष्टुप्
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.46 · p. 107
शिलाटको विलेपेऽट्टे शुल्को यौतकदानयोः ।श्वाविध्वृक्षौ च शल्लक्यौ मणौ खड्गे च सस्यकः ॥ ४६ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश नानालिङ्गाध्यायः Vaijayantī 6.5.89 · p. 237
पथि देये शुल्कमस्त्री जामात्रा यच्च दीयते ।श्रुतं शास्त्रावधृतयोर्नपुमाकर्णितेऽर्थवत् ॥ ८९ ॥
अनुष्टुप्

शुल्क as a meaning in nānārtha verses