कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

बन्ध

bandhaपुं · masc.

In 15 kośas: 16 synonym verses, 6 as a nānārtha head word, 45 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.285 · p. 25
इन्द्रियायतनमङ्गविग्रहौ क्षेत्रगात्रतनुभूघनास्तनूः ।मूर्तिमत्करणकायमूर्तयो वेरसंहननदेहसंचराः ॥ ५६३ ॥घनो बन्धः पुरं पिण्डो वपुः पुद्गलवर्ष्मणी ।कलेवरं शरीरेऽस्मिन्नजीवे कुणपं शवः ॥ ५६४ ॥मृतकं रुण्डकबन्धौ त्वपशीर्षे क्रियायुजि ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 क (wrong syllable)
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ शूद्रवर्गः Koṣakalpataru 2.4.34 · p. 298
पाशकश्चैव पाशो यस्तथाकर्ष[145b]श्च ईरितः ।आकर्षकस्तत्कुशलः पाश्या स्त्री पाशसंहतौ ॥पाशाकर्षौ बन्ध-वल्गे शुल्ब-शुम्बे बटारकः ।गुणः स्त्रियौ रज्जु-तन्त्र्यौ वटी त्रिष्वथ सा यदि ॥ ३४ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.248 · p. 40
गुणो वराटो रज्जुः स्त्री नना शुल्बा वटी त्रयम् ।ग्रन्थिर्बन्धो व्रजो गोष्ठं गोष्ठीनं तु पुराव्रजः ॥ २४८ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.229 · p. 129
इन्द्रियायतनं बन्धोऽघनः ? [71] पुद्गलसंज्ञकाः ।तनुः करणमाख्यातं मृतवर्ष्म कलेवरम् ॥ २२९ ॥
अनुष्टुप्
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त भूमिभानुः Pañcatattvaprakāśa 2.242 · p. 17
विपत्तिरापद्दुःखाधिः कुणपः शवकः शवः ।प्रग्रहोपग्रहौ बन्धः कारा बन्धनमन्दिरम् ॥ २४२ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति अङ्गवर्गः Śāradīyākhyanāmamālā 2.1.20 · p. 21
संहननं घनो बन्धः पुरः पिण्डं च पुद्गलम् ।हृषीकमक्षं करणं ग्रहणं च खमिन्द्रियम् ॥ २० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 न (wrong syllable)
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.902 · p. 137
व्याधिस्थानं तथा वेरं चतुःशाखः षडङ्गकम् ।भूधनो विग्रहो वर्ष्म घनो बन्धश्च सञ्चरः ॥ ९०२ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.207 · p. 125
अथापराधो मन्तुः स्यात्तथागः त्वग इत्यपि ।अथ बन्धनमुद्दानं बन्धः संयमनन्तथा ॥उचिताद्द्विगुणो दण्डो द्विपाद्यमभिधीयते ।राजग्राह्ये तु भागे स्यात् भागधेयो बलिः करः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि चतुर्थः काण्डः Śabdaratnākara 4.91 · p. 225
उदकोदे दक-दगे कबन्धं बन्ध-मन्धके ।कमन्धमापः स्री भूम्नि आपः सन्तस्त्र्युत्सूत्सकौ ॥ ९१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 स्त्र्यु (wrong syllable)
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वैश्याध्यायः Śabdaratnākara 3.4.1413 · p. 171
मुष्टिः स्यात् कटकं बन्धः खनित्रमवदारणम् ।व्रीहयः स्तम्बकरयः शालयः सिततण्डुलाः ॥ १४१३ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वैश्याध्यायः Śabdaratnākara 3.4.1503 · p. 182
वस्नोऽर्घोऽवक्रयो मूल्यं विक्रयः प्रक्रयः पणः ।विपणः पणयस्त्वाधिर्बन्धोऽथायो धनागमः ॥ १५०३ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण शूद्राध्यायः Śabdaratnākara 3.5.1539 · p. 186
पाशो रश्मिर्गुणो बन्धो वराटः प्रग्रहो वटः ।शुल्बं शुल्बाप्यथ व्याधो मृगयुर्लुब्धकश्च सः ॥ १५३९ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश वैश्याध्यायः Vaijayantī 3.8.70 · p. 128
वस्नोऽर्घोऽवक्रयो मूल्यं बन्धः प्रणय आधिकः ।नीवी परिपणं मूलं धनं लाभोऽधिकं फलम् ॥ ७० ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश शूद्राध्यायः Vaijayantī 3.9.31 · p. 138
ग्रन्थिर्बन्धो व्रजो गोष्ठो गौष्ठीनं तु पुरा व्रजः ।मन्थस्तु मन्था मन्थानो वैशाखः खजकोऽपि च ॥ ३१ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश भूताध्यायः Vaijayantī 4.4.53 · p. 177
बन्धः प्रजानुकः कायो भूघनः संचरोऽपि च ।प्राया वयांस्यस्य दशास्तारुण्यं यौवनं वयः ॥ ५३ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश धर्मकर्माध्यायः Vaijayantī 5.2.28 · p. 194
बंधनं प्रसितिर्बंधः क्लान्तिस्तु क्लमथः क्लमः ।परिसर्या परीसारः परिसर्पः परिक्रमः ॥ २८ ॥
अनुष्टुप्
genderपुंmasc.doubtful
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धातुवर्गः Koṣakalpataru 3.5.67 · p. 52
बन्धे तथोत्परोऽथ स्यात्समाघातेंऽसयत्यपि ।कर्णभे[दे] कर्णयति तथा छिद्रयति स्मृतम् ॥वेगे तु जवतीति स्याच्छूषति प्रसवे भवेत् ।धर्षति स्याद्धर्षयते बलात्कारेऽथ दुःख्यति ॥तथा तन्तस्यति प्रोक्तं पम्पस्यति च दुःखने ॥ ६७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 क (wrong syllable)nearly अनुष्टुप्: pāda 1, syllable 5 द्ध (wrong syllable)
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धान्ताः Koṣakalpataru 6.20.56 · p. 240
धीरे च सौम्ये बुधिते पराभो-ऽथार्धं समेंऽशे शकले तु पुंसि ।अन्धं तमस्यप्सु विदृक्षु भेद्येबन्धस्तु चेतोरुजि बन्धने च ॥ ५६ ॥
इन्द्रवज्रा
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् पुल्लिँङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.2.81 · p. 28
अन्नसङ्ग्रामयोः पृक्षं समाम्नाये समामनत् ।प्रैषस्तु प्रेषणे मर्दे बन्धस्त्वाधौ च बन्धने ॥ ८१ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् पुल्लिँङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.2.82 · p. 28
सीसाख्यलोहभेदे च वैजयन्त्यामपाठि सः ।बुध्नः प्रजापतौ रुद्रे पृष्ठान्ते स्वर्गतुण्डयोः ॥ ८२ ॥
अनुष्टुप्
meaningsसीस
doubtful
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.1966 · p. 239
आधिबन्धनयोर्बन्धो बन्धुर्बान्धवकामयोः ।बलो रामे दैत्यभैदे काके बलवति त्रिषु ॥ १९६६ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश पुंलिङ्गाध्यायः Vaijayantī 6.1.39 · p. 217
श्वेतार्के डाडिमे फालो बन्धाः सीसाधियन्त्रणाः ।बलिः पूजोपहारे च दैत्यभेदे करेऽपि च ॥ ३९ ॥
अनुष्टुप्

बन्ध as a meaning in nānārtha verses

  • धरणिकोश संकोचनाराचा लौहबाणा स्यु [र्नाराचो जलहस्तिनि?] । संकोचं कुङ्कुमं प्रोक्तं संकोचो मीनबन्धयोः ॥ Dharaṇikośa 5.2.7
  • धरणिकोश करणकरणं कायकायस्थसाधनेन्द्रियकर्मसु । बन्धे च वालवादौ च करणः शूद्राविशोः सुतः ॥ Dharaṇikośa 14.3.19
  • धरणिकोश बन्धनतोदनं व्यथने तोत्रे छदनं गरुतिच्छदे । कठिनं कक्खटे स्थाल्यां बन्धनं वधबन्धयोः ॥ Dharaṇikośa 19.1.13
  • धरणिकोश कारावारि स्याद्वालके तोये वारिस्तु गजबन्धिनी । कारा बन्धे तदागारे कारो निश्चयहिंसयोः ॥ Dharaṇikośa 26.2.6
  • धरणिकोश चारचारः पियालवृक्षे स्याच्चारोऽपसर्पबन्धयोः । क्षारः स्याल्लवणद्रव्ये चूर्णादौ काचभस्मनोः ॥ Dharaṇikośa 26.2.8
  • धरणिकोश खलखलं भूस्थानबन्धेषु पामरक्रूरयोः खलः । मलं पापे च किट्टे च वर्चस्के कृपणे मलाः ॥ Dharaṇikośa 27.2.1
  • कोषकल्पतरु आबन्धिप्रादविच्छेदनिर्माणेऽथाध्मानस्तम्भयोर्वितः । आङः संभ्रमबन्धार्थो गूढबन्धे च भूषणे ॥ १५ ॥ Koṣakalpataru 3.5.15
  • कोषकल्पतरु उपनहिवेष्टने विस्तृतौ तु स्यात्परेर्नहिरुपादपात् । बन्धेऽवाद्वेष्टनेऽथाङ आधाने सम उद्यमे ॥ १७ ॥ Koṣakalpataru 3.5.17
  • कोषकल्पतरु प्रतिमुञ्चतिमोक्षणे स्यान्मोचयति मुञ्चति स चाङ्परो न हि । प्रतेर्निष्क्रमणे बन्धे निरस्त्वङ्मोचने व्यये ॥ २० ॥ Koṣakalpataru 3.5.20
  • कोषकल्पतरु चारकचारको गजहयादिपालके बन्धभिद्यपि पियालपादपे । कर्णधारदनुजेषु तारकौ लोचने तु स मतो नपुंसके ॥ ४३ ॥ Koṣakalpataru 6.1.43
  • कोषकल्पतरु कचचन्द्रे चौरे चोऽथ वागीशपुत्रे बन्धे शुष्कस्यारुषः स्यात्कचो ना । स्त्रीभ्यां काचः शिक्यमृद्दृष्टिरुक्षु मोचः शिग्रौ शाल्मलीरम्भयोः स्त्री ॥ २ ॥ Koṣakalpataru 6.5.2
  • कोषकल्पतरु संकोचक्रकचो ग्रन्थिलवृक्षे करपत्रे स्यात्तु संकोचम् । काश्मीरे नरि मीने । बन्धेऽथो लोहबाणे स्यात् ॥ ११ ॥ Koṣakalpataru 6.5.11
  • कोषकल्पतरु धधः स्याद्विरिञ्चौ वदने तु बन्धे वान्ते मतौ धीर्धुरपीह केतौ । धूरश्वमातर्यपि चित्रके च धूर्ते तु लिङ्गं भजते परस्य । Koṣakalpataru 6.20.1
  • कोषकल्पतरु नबन्धे बुद्धेऽभावे नो नरि ना नौस्तरण्यां स्यात् ॥ ८१ ॥ Koṣakalpataru 6.21.81
  • कोषकल्पतरु यमनवीरे प्रसूने दमनोऽथ वान्तौ तथार्दने स्याद्वमनं यमे तु । प्रदिष्ट आद्ये यमनोऽथ बन्धो- परामनाम्नोश्चरमे हृतौ च ॥ १० ॥ Koṣakalpataru 6.21.10
  • कोषकल्पतरु बन्धनस्याद्वन्धनं बन्धवधानजन्तौ ने च पुंसि । भवेद्वचक्नुर्द्विजवाग्मिवाची फले तु पुष्पे गदितं प्रसूनम् ॥ ६३ ॥ Koṣakalpataru 6.21.63
  • कोषकल्पतरु नाहगेहेऽथ ग्राहः स्यादवहारे स्याद्ग्रहे पुंसि । नाहः कूटे बन्धे स्नेहोऽस्त्री सौहृदे तैले । स्नेहुश्चन्द्रे रोगेऽथ रणे प्राह प्रहारे च ॥ ३८ ॥ Koṣakalpataru 6.32.38
  • कोषकल्पतरु विग्रहसूत्रे तुलाया नरि तद्वदेव प्रग्राह आद्येऽप्यथ भर्त्सने स्यात् । बन्धेऽवधौ चाथ रणे शरीरे स्याद्विग्रहो विस्तरणे विभागे ॥ ४६ ॥ Koṣakalpataru 6.32.46
  • नानार्थार्णवसंक्षेप अन्ताअन्ता तु नृस्त्रियोर्बन्धे घञ्याकारेऽपि चान्ततेः । अन्तनायां तु पुल्लिँङ्गो भेद्यवत् तु पचाद्यचि ॥ २४ ॥ Nānārthārṇavasaṃkṣepa 2.5.24
  • नानार्थार्णवसंक्षेप चारबन्धे प्रियालवृक्षेऽथ तत्फले क्लीबमङ्गणे । चारी तु स्त्री नाट्यनान्द्यां गयाम्रस्य च सेचने ॥ ४११ ॥ Nānārthārṇavasaṃkṣepa 2.5.411
  • नानार्थार्णवसंक्षेप शादशादस्तु शष्पे पङ्के च शदने स्वर्णबन्धयोः । ना त्रिस्तु शत्तरि शदसम्बन्धिनि च सा पुनः ॥ १३४६ ॥ Nānārthārṇavasaṃkṣepa 2.5.1346
  • नानार्थार्णवसंक्षेप बन्धनबन्धनं स्यात् संयमने त्रि तु बन्धस्य साधने । बन्धे तु रभसः प्राह बन्धकी तु स्त्रियामियम् ॥ १२३८ ॥ Nānārthārṇavasaṃkṣepa 4.1238
  • नानार्थार्णवसंक्षेप निरसनउपाये तरणे चाथ स्यान्निर्हरणमित्यदः । निर्हृतौ मुष्टिमान्द्ये च बन्द्धुं निरसनं पुनः ॥ २२ ॥ Nānārthārṇavasaṃkṣepa 6.22
  • नानार्थार्णवसंक्षेप आकलनआत्मने च हिते ना तु यद्यर्थस्या विदूषकः(?) । अना त्वाकलना बन्धे सङ्ख्यानज्ञानयोरपि ॥ ७० ॥ Nānārthārṇavasaṃkṣepa 6.70
  • परमानन्दीयनाममाला मूमूर्बन्धवेश्मनोर्योऽथ ब्रह्मवातयमेषु च । यं जले या रमायात्रोः खट्वाङ्गरथयोरपि ॥ ३५ ॥ Paramānandīyanāmamālā 1.35
  • परमानन्दीयनाममाला कचकोकस्तु चक्रवाके स्थाद्वृके खर्जूरिकाद्रुमे । कचो वाक्पतिपुत्रे स्यात्केशे बन्धे व्रणान्तरे ॥ ८६ ॥ Paramānandīyanāmamālā 5.7.86
  • परमानन्दीयनाममाला नियमनियमोऽथावधौ ज्ञाने व्रते निश्चयबन्धयोः । नालिका चुल्हिकारन्ध्रे बिलकालविशेषयोः ॥ २७३ ॥ Paramānandīyanāmamālā 5.18.273
  • शब्दरत्नावली अनुबन्धअवरोधो नृपगृहे तिरोधाने नृपाङ्गने । अवष्टब्धः समाक्रान्तेऽविदूरेऽप्यवलम्बिते ॥ अनुबन्धी च तृष्णायां हिक्कायाभवि च स्त्रियाम् । अनुबन्धो बन्धे दोषोत्पादने च विनश्वरे ॥ Śabdaratnāvalī 7.19.38
  • शब्दरत्नावली ननकारः सुगति बन्धे नेता नीस्तरणो च नौः । नुः स्तुतौ ना निषधे च नो भवेत्प्रतिषेधके ॥ Śabdaratnāvalī 7.20.1
  • शब्दरत्नावली बन्धनफलिन्यग्निशिखायान्तु फल्यां स्त्री तद्वति त्रिषु । फाल्गुणोऽर्जुनवृक्षे च गुडाकेशनदीजयोः ॥ मासभेदे पुमानेव पौर्णमास्यान्तु फाल्गुनी । ब्रह्मा प्रजापतौ ऋत्विग्योगभेदद्विजेषु ना ॥ ब्रह्म तत्त्वे च वेदे च तपस्यपि च न द्वयोः । वन्धनी वटिजीवातु नङिमाठनकर्मसु (?) ॥ बन्धनञ्च वधे बन्धे हिंसायाञ्च नपुंसकम् ॥ Śabdaratnāvalī 7.20.62
  • शब्दरत्नावली यमनमार्जनो लोध्रवृक्षे स्यात्क्लीबं मार्ष्टौ तु मार्जनम् । मानिनी तु स्त्रियां फल्यां मानी मानवति त्रिषु ॥ मैथुनं सङ्गते क्लीबं सुरते च नपुंसकम् । यमनो ना यमे क्लीबं बन्धे चोपरतावपि ॥ यवनो जातिभिद्देशभिदोर्वेगाश्वयोरपि । यवन्योषधिभेदे स्त्री वेगिनि त्वभिधेयवत् ॥ यापनं स्यान्निरसने कालक्षेपे च वर्त्तने । युवा श्रेष्ठे च तरुणे निसर्गबलसंयुते ॥ योजनं स्याच्चतुष्क्रोश्यां योगमाने परात्मनि । रसनं स्वादने शब्दे स्याद्रास्नाजिह्वयोः स्त्रियाम् ॥ Śabdaratnāvalī 7.20.68
  • शब्दरत्नावली संयमनसदादानो गन्धहस्तिन्यैरावतगणेशयोः । सम्बदनं वशीकारे क्लीबमालोचनेऽपि च ॥ समादानं समीचीनग्रहे बौद्धाह्णिकेऽपि च । सम्वाहनन्तु भारादिवाहने चाङ्गमर्दने ॥ समापनं परिच्छेदप्रमापनसमाप्तिषु । सनातनो हरे विष्णौ नित्यपित्रतिथिष्वपि ॥ सनातनी भवान्यान्तु वाण्यब्धिसुतयोः स्त्रियाम् । स्तनयित्नुर्जलधरे विद्युति स्तनिते स्त्रियाम् ॥ सरोजिनी तु कमलाकरपङ्कजयोः स्त्रियाम् । समापन्नं वधे क्लिष्टे समाप्तप्राप्तयोरपि ॥ संयमनं व्रते बन्धे यमपूर्यामपि स्त्रियाम् । भवेत्सारसनं काञ्च्यामुरस्तेन तनुत्रिणाम्(?) ॥ सामयोनिर्ग्रजब्रह्मसामोत्थेषु भवेत्पुमान् । सुदर्शनो विष्णुचक्रे जम्बूवृक्षे सुरलाये ॥ क्लीबं महेन्द्रनगरे प्रज्ञौषधिभिदोः स्त्रियाम् । सुयामुनोऽच्युते मेघे प्रासादवत्सराजयोः ॥ सुकर्मा योगभेदे स्यात्सत्कर्मविधिकर्मणोः । सुधन्वा वीरभेदे स्याद्धानुष्के विश्वकर्मणि ॥ सुपर्वा पुंसि वंशे तु धूमपर्वामरेषु च ॥ Śabdaratnāvalī 7.20.127
  • शब्दरत्नावली काराऐन्द्रिर्जयन्ते काके ना स्त्री शचीशिवयोरपि । ओड्रः पुंभूम्नि देशे स्यात्तरुभेदे पुमानयम् ॥ करो रश्मौ च करके शुण्डप्रत्यायपाणिषु । कद्रुस्त्रिषु पिशङ्गे स्यान्नागमातरि तु स्त्रियाम् ॥ कारो हिमगिरौ यत्ने वलौ पत्यौ वधे पुमान् । कारा स्त्रियां बन्धगृहे बन्धे दूत्यां प्रसेवके ॥ कारिः क्रियायां स्त्रीलिङ्गो वाच्यलिङ्गस्तु शिल्पिनी । क्रूरं स्यात्कठिने घोरे नृशंसेऽपि च वाच्यवत् ॥ कारुस्त्वष्टरि पुंसि स्यात्त्रिषु कर्तरि शिल्पिनि । कीरः शुके देशभेदे क्लीबं स्यान्नीरदुग्धयोः ॥ कुरुर्ना भक्तनृपयोः पुंबहुत्वे च निवृति । क्षुद्रः क्रूरेऽधमेऽल्पे च कृपणेऽपि च वाच्यवत् ॥ क्षुद्रा व्यङ्गानटीधृष्टाबृहतीसरधासु च । चाङ्गेरी मक्षिकामात्रे हिंस्रा वादरतासु च ॥ क्षुरः स्याच्छेदनद्रव्ये कोकिलाक्षे च गोक्षुरे । खुरः शफे कोलदले तथा छेदनवस्तुनि ॥ क्रोष्ट्री कृष्णविदार्युक्ताशृगालीलाङ्गलीषु च । खरो धर्मे गर्दभे ना तीक्ष्यो त्रिष्वौषधे स्त्रियाम् ॥ खरुर्दर्पे हरे दन्ते हये ना धवले त्रिषु ॥ Śabdaratnāvalī 7.27.7
  • शब्दरत्नावली चारकुम्भकारोपकरणे क्लीबं ना चक्रवाकके । चारो गतौ पियालद्रुबन्धापसर्पणेषु च ॥ चित्रा नक्षत्र गोडुम्बा नदी भिद्दन्तिकासु च । मायासर्पाखुपर्णीषु नाडीसुभद्रयोः स्त्रियाम् ॥ आलेख्यतिलकाश्चर्यकर्बुरेषु च न द्वयोः । चीरं वस्त्रान्तरे रेखागोस्तनलेखनेषु च ॥ Śabdaratnāvalī 7.27.11
  • शब्दरत्नावली हारिहंसकोकिलसिंहाश्वकपिभेदेशुकाहिषु । लोकान्तराग्निकृष्णेषु शिवे ना पिङ्गले त्रिषु ॥ हारः पुमानुरोभूषायुद्धमुक्तावलीषु च । हारि युद्धादि भङ्गेषु स्त्री पान्यसन्ततिवन्धयोः ॥ Śabdaratnāvalī 7.27.50
  • शब्दरत्नावली निग्रहनिग्रहो भर्त्सने बन्धमर्यादाभङ्गयोरपि । निर्व्यूहः शेखरे द्वारे निर्यासनागदन्तयोः ॥ Śabdaratnāvalī 7.33.20
  • शब्दरत्नावली तत्तदप्रकाशे विभागे च शक्तौ प्राधान्यबन्धयोः । भावे मोक्षे च लाभे च स्यादाबद्धोर्द्ध्वकर्मणोः (?) ॥ यद्गर्हायामधृतौ च हेतावपि निगद्यते । यदि स्यात्तु विगर्हायां विकल्पे विस्मयेपि च ॥ Śabdaratnāvalī 8.1.37
  • शब्दरत्नावली निन निषेधे तूपमायां शिरश्चालन इत्यपि ॥ नि सामीप्ये निवेशेऽतिशये दाने च संशये । नित्यार्थे कोशले क्षेपे बन्धेऽन्तर्भावमोक्षयोः ॥ आश्रये राश्यधोभावविन्यासोयरमेष्वपि । नु प्रश्नातीततर्कानुनयोपमानहेतुषु ॥ Śabdaratnāvalī 8.1.39
  • शब्दरत्नाकर आधिआत्मा तु जीवपरयोः शरीरे स्वस्थभावयोः । धृतावग्नौ मतौ वातेऽप्याधिर्व्यसनबन्धयोः ॥ १८७२ ॥ Śabdaratnākara 4.1.1872
  • तन्त्राभिधान नधिषणा धीः समाख्याता धूश्च स्याद्भार-चिन्तयोः । न-कारः सुगते बन्धे नुः स्तुतौ च प्रकीर्त्तितः ॥ २१ ॥ Tantrābhidhāna 3.21
  • त्रिकाण्डशेष चारकचारको भोजके बन्धे नाटकाङ्गेऽपि चूलिका । चित्रकं चित्रके क्लीबं व्याघ्रैरण्डौ च चित्रकौ ॥ २१ ॥ Trikāṇḍaśeṣa 3.3.21
  • त्रिकाण्डशेष इन्द्राणीअभीक्ष्णं तु भृशे नित्ये स्यादिन्द्राणीन्द्रयोषिति । स्त्री बन्धे सिन्धुवारे च चक्षुर्दर्शनमीक्षणम् ॥ १२१ ॥ Trikāṇḍaśeṣa 3.3.121
  • त्रिकाण्डशेष नियमयन्त्रणाबन्धयोश्चाऽथ पञ्चमः स्वरसङ्ख्ययोः । पद्मोऽस्त्री बिन्दुजालेऽब्जे व्यूहे सङ्ख्यान्तरे निधौ ॥ २९९ ॥ Trikāṇḍaśeṣa 3.3.299
  • त्रिकाण्डशेष चारकर्ब्बुरे तिलके चित्रं सुभद्रातारयोः स्त्रियाम् । चन्द्रः शशिनि कर्पूरे चारो बन्धापसर्पयोः ॥ ३४९ ॥ Trikāṇḍaśeṣa 3.3.349
  • वैजयन्ती आधियत्नेऽर्केऽग्नौ मतौ वातेऽप्याखू सूकरमूषिकौ । आधिस्तु व्यसने चित्तदुःखेऽधिष्ठानबंधयोः ॥ ७ ॥ Vaijayantī 6.1.7