कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

उपदा

upadāस्त्री · fem.

In 12 kośas: 12 synonym verses, 1 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.737 · p. 31
प्राभृतं ढौकनं लञ्चोत्कोचः कौशलिकामिषे ।उपाच्चारः प्रदानं दा हारो ग्राह्यायने अपि ॥ ७३७ ॥
अनुष्टुप्
genderस्त्रीfem.doubtful
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह क्षत्रियवर्गः Amarakośa 2.8.45
उपायनमुपग्राह्यमुपहारस्तथोपदा ।
अनुष्टुप्
genderस्त्रीfem.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.434 · p. 50
उपदा प्राभृतं प्रोक्तमुपग्राह्यमुपायनम् ।लञ्चोत्कोचमुपादानमुपचारस्तथामिषम् ॥ ४३४ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.85 · p. 98
उपायनमुपग्राह्यं प्राभृतं च प्रदेशनम् ।उपदा स्त्र्युपहारे ना यौतकादेस्तु देयके ॥ ८५ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.64 · p. 250
उपहारस्तूपचार उपग्राह्यमुपायनम् ।उपदानं चोपदा स्यादायस्त्वर्थागमो भवेत् ॥ ६४ ॥
अनुष्टुप्
genderस्त्रीfem.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.274 · p. 59
नृपादिद्रष्टुकामेन दीयमानसुमादिके ।तत्प्राभृतं चोपग्राह्यमुपदा च प्रदेशनम् ॥ २७४ ॥
अनुष्टुप्
genderस्त्रीfem.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति पण्डितवर्गः Śāradīyākhyanāmamālā 2.4.124 · p. 32
उपग्राह्यं ढौकनिका प्राभृतोपायनोपदाः ।आज्ञा नियोग आदेशो निर्देशः शासनं वचः ॥ १२४ ॥
अनुष्टुप्
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1203 · p. 188
उपहार उपग्राह्य उपचार उपायनम् ।उत्कोच उपदा लञ्चा प्राभृतं ढौकनं पुनः ॥ १२०३ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.209 · p. 125
उपदा चेति पञ्चैते भेट समाह्वये मताः ।उत्कोच इति केषाञ्चित् मतं न बहुसम्मतम् ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स (wrong syllable)
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि तृतीयः काण्डः Śabdaratnākara 3.254 · p. 209
अपसर्पः, सान्त्वजे तु शाम तालव्य-दन्त्ययुक् ।प्रावृते लञ्चया लञ्च उपदोपप्रदानवत् ॥ २५४ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण क्षत्रियाध्यायः Śabdaratnākara 3.3.1288 · p. 157
द्विपाद्यो द्विगुणो दण्डः शुल्को घट्टादिदेयके ।बलिः करो भागधेय उपदा स्यादुपायनम् ॥ १२८८ ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश क्षत्रियाध्यायः Vaijayantī 3.7.45 · p. 107
पर्याहारः प्रजास्वायो भागधेयो बलिः करः ।उपदा तूपहारः स्यादुपग्राह्यमुपायनम् ॥ ४५ ॥
अनुष्टुप्
genderस्त्रीfem.

उपदा as a meaning in nānārtha verses