कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

उपायन

upāyanaक्ली · neut.

In 12 kośas: 12 synonym verses, 1 as a nānārtha head word, 2 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.737 · p. 31
प्राभृतं ढौकनं लञ्चोत्कोचः कौशलिकामिषे ।उपाच्चारः प्रदानं दा हारो ग्राह्यायने अपि ॥ ७३७ ॥
अनुष्टुप्
genderक्लीneut.doubtful
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह क्षत्रियवर्गः Amarakośa 2.8.45
उपायनमुपग्राह्यमुपहारस्तथोपदा ।
अनुष्टुप्
genderक्लीneut.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.434 · p. 50
उपदा प्राभृतं प्रोक्तमुपग्राह्यमुपायनम् ।लञ्चोत्कोचमुपादानमुपचारस्तथामिषम् ॥ ४३४ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.85 · p. 98
उपायनमुपग्राह्यं प्राभृतं च प्रदेशनम् ।उपदा स्त्र्युपहारे ना यौतकादेस्तु देयके ॥ ८५ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.64 · p. 250
उपहारस्तूपचार उपग्राह्यमुपायनम् ।उपदानं चोपदा स्यादायस्त्वर्थागमो भवेत् ॥ ६४ ॥
अनुष्टुप्
genderक्लीneut.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.275 · p. 60
उपायनमुपालभ्यमुपहार उपालयः ।स्त्रीधने तु सुदायः स्याद्धरणं यौतकं मतम् ॥ २७५ ॥
अनुष्टुप्
genderक्लीneut.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त मनुष्यमरीचिः Pañcatattvaprakāśa 1.1.34 · p. 3
उपायनमुपग्राह्यमुपहारोपढौकिते ।शाणेयं कर्गलं शाद्वं पत्रमर्णावनिः सुधम् ॥ ३४ ॥
अनुष्टुप्
genderक्लीneut.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति पण्डितवर्गः Śāradīyākhyanāmamālā 2.4.124 · p. 32
उपग्राह्यं ढौकनिका प्राभृतोपायनोपदाः ।आज्ञा नियोग आदेशो निर्देशः शासनं वचः ॥ १२४ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1203 · p. 188
उपहार उपग्राह्य उपचार उपायनम् ।उत्कोच उपदा लञ्चा प्राभृतं ढौकनं पुनः ॥ १२०३ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.208 · p. 125
घट्टादिदेये शुल्कोऽस्त्री यौतुकान्तधनेऽपि च ।उपहारः प्राभृतं स्यादुपग्राह्यमुपायनम् ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण क्षत्रियाध्यायः Śabdaratnākara 3.3.1288 · p. 157
द्विपाद्यो द्विगुणो दण्डः शुल्को घट्टादिदेयके ।बलिः करो भागधेय उपदा स्यादुपायनम् ॥ १२८८ ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश क्षत्रियाध्यायः Vaijayantī 3.7.45 · p. 107
पर्याहारः प्रजास्वायो भागधेयो बलिः करः ।उपदा तूपहारः स्यादुपग्राह्यमुपायनम् ॥ ४५ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धातुवर्गः Koṣakalpataru 3.5.74 · p. 63
उपादभुक्तौ प्रत्याङो निवासस्य विपर्यये ।परेराकोटनेऽनोस्तु धूपे वासयतिर्मतः ॥स्नेहवस्तौ च संस्कारे संस्कारे त्वधितः परः ।भरते भरति भृतौ भटत्यथ नितेः परौ ॥बिभर्तिर्भरतिः प्रोक्तौ विनये प्राङ उत्तरौ ।उपायने समृद्धौ तु समोऽथाङो विभूषणे ॥ ७४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 भ (wrong syllable)

उपायन as a meaning in nānārtha verses

  • कोषकल्पतरु उप-दाप्रतेर्विर्विनिमये व्याङ्युक्प्रसारण-विकासयोः । उपाङः परिणामे संग्रहेऽभ्याङ उपक्रमे ॥ संप्राद्ददातिराम्नाये दानेऽथोपायने ह्युपात् । आत्मनेपदवानाङो ददातिर्नित्यमीरितः ॥ [186a]स्वास्यप्रसारादन्यत्र स आङस्तु ग्रहे मतः । नितो हेतौ रोगबोधे प्रैषे तु व्याङ्परो दिशिः ॥ ५४ ॥ Koṣakalpataru 3.5.54
  • वैजयन्ती उपचारब्रह्माप्यथोपचर्यायामुपचार उपायने । उपनाहो वैरबन्धे वीणायाश्च निबन्धने ॥ १७ ॥ Vaijayantī 8.1.17