कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

द्वेषण

dveṣaṇaपुं · masc.

In 9 kośas: 10 synonym verses.

नामलिङ्गानुशासनम् Amarakośa · अमरसिंह क्षत्रियवर्गः Amarakośa 2.8.11
रिपौ वैरिसपत्नारिद्विषद्द्वेषणदुर्हृदः ॥ १० ॥द्विड्विपक्षाहितामित्रदस्युशात्रवशत्रवः ।अभिघातिपरारातिप्रत्यर्थिपरिपन्थिनः ॥ ११ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.19 · p. 91
स्थापत्यः सौविदोऽथ स्याद्भृत्यो भृतक इत्यपि ।सेवकोर्थानुजीवी स्याद्वैर्यरिर्द्वेषणो द्विषत् ॥ १९ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.48 · p. 248
अमित्रः शात्रवः शत्रुर्द्विट् द्विषन्द्वेषणो रिपुः ।परिपन्थी प्रत्यनीकः प्रतीपः परिपन्थिकः ॥ ४८ ॥
अनुष्टुप्
genderपुंmasc.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.161 · p. 28
शत्रुर्दस्युरमित्रोऽरिररातिरहितो द्विषत् ।द्वेषणः प्रत्यनीको द्विड्जिघांसुर्हिंसनो रिपुः ॥ १६१ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.260 · p. 58
शत्रौ विपक्षो दस्युश्च द्विषन्द्वेषण इत्यपि ।अभियातिः परोऽरिश्च प्रत्यर्थी चाभियातिथिः(भिः?) ॥ २६० ॥
अनुष्टुप्
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त मनुष्यमरीचिः Pañcatattvaprakāśa 1.1.31 · p. 3
शत्रुर्वैरी सपत्नोऽरिर्द्वेषणो दुर्हृदो द्विषत् ।द्विट्विपक्षोऽहितोऽराति[भि]रमित्रं सख्यहा रिपुः ॥ ३१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 1 भि]र (syllable split)
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.476 · p. 33
असूया कीर्तिता सद्भिर्दोषारोपो गुणेष्वपि ।वैरं विरोधो विद्वेषो द्वेषो द्वेषणमित्यपि ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.169 · p. 123
स पाष्णिग्राह इत्येवं पार्ष्णिग्राहक इत्यपि ।अथ शत्रुः सपत्नोऽरिर्विपक्षो द्वेषणो द्विषन् ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण क्षत्रियाध्यायः Śabdaratnākara 3.3.1282 · p. 156
षट् शरीरान्तररयः शत्रुर्द्वेषणदुर्हृदौ ।परिपन्थिसपत्नपरासुहृदः प्रतिपक्षविपक्षविरोधभृतः ॥ १२८२ ॥
अनुष्टुप्two metres in one verse
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश क्षत्रियाध्यायः Vaijayantī 3.7.41 · p. 107
द्वेषणः प्रत्यनीको द्विड् जिघांसुर्हिंसनो रिपुः ।सपत्नोऽसहनो वैरी दूषकः शात्रवः परः ॥ ४१ ॥
अनुष्टुप्
genderपुंmasc.