रिपु
ripuपुं · masc.In 18 kośas: 18 synonym verses, 1 as a nānārtha head word, 11 as a meaning of another word.
षण्ढे वर्षवरः शत्रौ प्रतिपक्षः परो रिपुः ।शात्रवः प्रत्यवस्थाता प्रत्यनीकोभियात्यरी ॥ ७२८ ॥दस्युः सपत्नोऽसहनो विपक्षो द्वेषी द्विषन्वैर्यहितो जिघांसुः ।दुर्हृत्परेः पन्थकपन्थिनौ द्विट्प्रत्यर्थ्यमित्रावभिमात्यराती ॥ ७२९ ॥
अनुष्टुप्
genderपुंmasc.
रिपौ वैरिसपत्नारिद्विषद्द्वेषणदुर्हृदः ॥ १० ॥द्विड्विपक्षाहितामित्रदस्युशात्रवशत्रवः ।अभिघातिपरारातिप्रत्यर्थिपरिपन्थिनः ॥ ११ ॥
अनुष्टुप्
genderपुंmasc.
अभियातिररातिरमित्ररिपू,प्रतिपक्षविपक्षविरोध्यरयः ।अहितोऽसहनश्च जिघांसुरिति,प्रथिताः परिपन्थिपरासुहृदः ॥ ४५५ ॥
तोटकम्
genderपुंmasc.
स्त्रीप्रियो वञ्चुलः शोके कङ्केलिः कर्णपूरकः ।अङ्कोले निचुलोऽपि स्याद्रसाले वरुणो रिपुः ॥ २१२ ॥
अनुष्टुप्
genderपुंmasc.
अमित्रः शात्रवः शत्रुर्द्विट् द्विषन्द्वेषणो रिपुः ।परिपन्थी प्रत्यनीकः प्रतीपः परिपन्थिकः ॥ ४८ ॥
अनुष्टुप्
genderपुंmasc.
आत्म-मेघ-तरि-कूप-रिपूणांनिभ( ? )गाङ्गि-किरणासि-कफानाम् ।वृक्ष-तण्डुल-समास-कन्दुक-प्रोन्दुकाशनि-कपर्द-विषाणाम् ॥ ४ ॥
metre not recognisednearly स्वागता: pāda 2, syllable 1 नि (wrong syllable)
genderपुंmasc.
अभिधानशब्दः प्रत्येकमभिसम्बध्यते । संवत्सराभिधायिनां शब्दानां संवत्सरपर्यायाणां च । गिर्यादिपर्यायाणां च । पुंयोगः स्यादित्यर्थः । तद्यथा अयं संवत्सरः हायनोऽब्द इत्यादि । अयं गिरिः पर्वतः धरः शैल इत्यादि । मासाभिधायिनाम् । अयं मासः द्विपक्षः । मासविशेषोऽपि अयं चैत्रः वैशाखः ज्येष्ठः आषाढ इत्यादि । अर्णववाचिनाम् । अयमर्णवः समुद्रः सागरः पारावारः सरित्पतिरित्यादि । अयमृतुः वसन्तः ग्रीष्मः ।देववाचिनाम् । देवः सुरः । असुरवाचिनाम् । असुरः दैत्यः । शराभिधायिनाम् । शरः काण्डः । अयमसिः खड्गः मण्डलाग्रः । अयं पङ्कः कर्दमः जम्बालः । अयमरिः शत्रुः वैरी रिपुः विपक्ष इत्यादि ।भाष्कच्छुकशारज्ज्विष्टकाश्च नित्यं स्त्रि[स्त्री]यामीषिका च ।विद्युद्दिग्भूम्यभिधानं वल्ली सरितां च विज्ञेयम् ॥ ३१ ॥
metre not recognised
संवत्सरपुंहायनपुंअब्दपुंगिरिपुंपर्वतपुंधरपुंशैलपुंमासपुंचैत्रपुंवैशाखपुंज्येष्ठपुंआषाधपुंअर्णवपुंसमुद्रपुंसागरपुंपारावारपुंसरित्पतिपुंऋतुपुंवसन्तपुंग्रीष्मपुंदेवपुंसुरपुंअसुरपुंदैत्यपुंशरपुंकाण्डपुंअसिपुंखड्गपुंमण्डलाग्रपुंपङ्कपुंकर्दमपुंजम्बालपुंअरिपुंशत्रुपुंवैरिन्पुंरिपुपुंविपक्षपुंभास्स्त्रीकच्छुस्त्रीकशास्त्रीरज्जुस्त्रीइष्टकास्त्रीईषिकास्त्रीविद्युत्स्त्रीदिश्स्त्रीभूमिस्त्रीवल्लीस्त्रीसरित्स्त्री
genderपुंmasc.
शत्रुर्दस्युरमित्रोऽरिररातिरहितो द्विषत् ।द्वेषणः प्रत्यनीको द्विड्जिघांसुर्हिंसनो रिपुः ॥ १६१ ॥
अनुष्टुप्
genderपुंmasc.
वैर्यारातिरमित्रोऽरिर्द्विट् सपत्नो द्विषद्रिपुः ।भ्रातृव्यो दुर्जनः शत्रुर्दुष्टो द्वेषी खलोऽहितः ॥ ४४ ॥
अनुष्टुप्
genderपुंmasc.
घट्टशुल्कावुभौ तुल्यौ अरिशत्रू द्विषन्रिपुः ।विपक्षोऽसहनो दस्युर्द्विड्द्वेषी शात्रवोऽपि च ॥ ३४९ ॥
अनुष्टुप्
genderपुंmasc.
शत्रुर्वैरी सपत्नोऽरिर्द्वेषणो दुर्हृदो द्विषत् ।द्विट्विपक्षोऽहितोऽराति[भि]रमित्रं सख्यहा रिपुः ॥ ३१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 1 भि]र (syllable split)
genderपुंmasc.
अरिर्वैरी रिपुः शत्रुर्विपक्षो द्विट् द्विषत्परः ।प्रत्यर्थी प्रत्यवस्थाता सपत्नः शात्रवोऽहितः ॥ २० ॥
अनुष्टुप्
genderपुंmasc.
विपक्षः प्रत्यवस्थाता सपन्थः परिपन्थकः ।प्रत्यर्थी परिपन्थी च प्रतिपक्षः रिपुः पुनः ॥ ११९० ॥
अनुष्टुप्
genderपुंmasc.
genderपुंmasc.
परिपन्थिः रिपुर्वैरी घातकामित्रदस्यवः ।द्वेषी द्विट् शात्रवोऽरातिरभिधाती च विद्विषः ॥
अनुष्टुप्
genderपुंmasc.
विमताहितशात्रववैरिरिपुद्विषतो द्विडरात्यभिधात्यरयः ।प्रत्यनीकप्रतिद्वन्द्विप्रत्यवस्थातृदस्यवः ।द्वेष्यानिष्टप्रतिस्पर्धिप्रत्यवस्कन्दिनोऽपि च ॥ १२८३ ॥
तोटकम्two metres in one verse
genderपुंmasc.
कोधाख्यो हूं तनुत्रश्च शस्त्रादौ रिपुसंज्ञकः ॥हूं॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
द्वेषणः प्रत्यनीको द्विड् जिघांसुर्हिंसनो रिपुः ।सपत्नोऽसहनो वैरी दूषकः शात्रवः परः ॥ ४१ ॥
अनुष्टुप्
genderपुंmasc.
रिपु as a meaning in nānārtha verses
- धरणिकोश परपरोऽभ्यासे रिपौ श्रेष्ठे दूरेऽथ केवले परम् । धरा भूभिर्धराः शैलाः कर्पासतूलको धरः ॥ Dharaṇikośa 26.2.2
- धरणिकोश कल्लोलपेशलं चतुरे चारौ पुद्गलो वपुरात्मनोः । कल्लोलौ रिपूल्लोलौ सरलौ वृद्धपापकौ ॥ Dharaṇikośa 27.1.6
- कोषकल्पतरु भ्रातृव्यविद्वद्भिः कथितः श्वशुर्य इति च भ्रातृव्य उक्तो रिपौ स्याद्भ्रातुस्तनयेऽथ पूतिकरजे प्रोक्तः प्रकीर्यः पुमान् । भेद्याभो विनिकीर्यकेऽथ सुरभेर्भावे मनोज्ञस्य च सौरभ्यं गुणगौरवे निगदितं नेपथ्यमुक्तं बुधैः ॥ ७१ ॥ Koṣakalpataru 6.26.71
- कोषकल्पतरु वृत्रमासेऽद्रिभेदे च पुमानथ स्याद् वृत्रो रिपौ दानवशक्रयोश्च । ध्वान्ते घने पर्वतवाचकोऽथ सत्रं वने वाससि कैतवे च ॥ ३० ॥ Koṣakalpataru 6.27.30
- कोषकल्पतरु शात्रवना संश्रवक्लेशनयोर्वचःस्थे त्रये रिपौ शात्रव आदिलिङ्गः । भावे गणे च द्विषतां द्वयोनो- ऽथो माधवः केशवराधमासोः ॥ २३ ॥ Koṣakalpataru 6.29.23
- नानार्थार्णवसंक्षेप दस्युतेषु ना तु रिपौ त्रिस्तु तस्करेऽथ द्रवत् त्रिषु । पलायके द्रावके च द्रवन्ती तु स्त्रियामियम् ॥ ५८१ ॥ Nānārthārṇavasaṃkṣepa 2.5.581
- नानार्थार्णवसंक्षेप अहितअहिंसितेऽप्यहिंसायां पुनः क्लीबेऽहितः पुनः । ना रिपौ त्रि त्वपथ्येऽथ स्यादषाढा स्त्रियामियम् ॥ ३९ ॥ Nānārthārṇavasaṃkṣepa 4.39
- नानार्थार्णवसंक्षेप जीवदमेदासंज्ञौषधीभेदे टाबन्ता स्यादना पुनः । जीवना जीवयत्यर्थे जीवदस्तु रिपौ पुमान् ॥ ८०६ ॥ Nānārthārṇavasaṃkṣepa 4.806
- परमानन्दीयनाममाला छित्वरछगलाख्या पुटे मेषे नीलिकारञ्जितांशुके । छगली चौषधीभेदे छित्वरो रिपुधूर्तयोः ॥ १९३ ॥ Paramānandīyanāmamālā 5.12.193
- शब्दरत्नावली दस्युभेषजे द्रुविकारे च भव्ये भाविनि वाच्यवत् । दस्युश्चौरे रिपौ पुंसि महासाहसिकेऽपि च ॥ दायः सोल्लुण्ठभाषायां भक्तव्यपितृवस्तुति । दाने च हरणे स्थाने खण्डनेऽपि च कुत्रचित् ॥ दिव्यं लवङ्गे स्त्रीधात्र्यां चारौ दिविभवे त्रिषु । दूष्यं वस्त्रगृहे क्लीबं दूषणीये तु वाच्यवत् ॥ दूत्यं दूतस्वभावे च भावे कर्मणि न द्वयोः । दैत्योऽसुरे स्त्रियां गन्धकूट्यां चण्डौषधावपि ॥ धन्याधात्र्यामामलक्यां धन्यं पुत्रवति त्रिषु । धान्यं त व्रीहिधन्याकनीवारादिषु द द्वयो ॥ धिष्ट्यं स्थाने गृहे शक्तावृक्षे च न द्वयोः । नाट्यं तौर्यत्रिके लास्ये ताण्डवेऽपि च न द्वयोः । नित्यन्तु सतते क्लीबं शाश्वते त्रिषु कीर्त्यते ॥ पथ्या स्त्रियां हरीतक्यां हिते पथभवे त्रिषु । पद्यं श्लोके तु शूद्रे ना स्त्रियां पद्या तु वर्त्मनि ॥ पाक्यं विड्लवणे क्लीबं यवक्षारे भवेत्पुमान् ॥ Śabdaratnāvalī 7.26.18
- शब्दरत्नाकर भ्रातृव्यकरिण्यां कुलटायां च भ्रातृव्यो भ्रातृजे रिपौ । भवनं जन्मगृहयोः भुवनं जगदम्भसोः ॥ २१४० ॥ Śabdaratnākara 4.1.2140