कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

प्रत्यर्थिन्

pratyarthinपुं · masc.

In 14 kośas: 14 synonym verses, 4 as a nānārtha head word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.729 · p. 30
षण्ढे वर्षवरः शत्रौ प्रतिपक्षः परो रिपुः ।शात्रवः प्रत्यवस्थाता प्रत्यनीकोभियात्यरी ॥ ७२८ ॥दस्युः सपत्नोऽसहनो विपक्षो द्वेषी द्विषन्वैर्यहितो जिघांसुः ।दुर्हृत्परेः पन्थकपन्थिनौ द्विट्प्रत्यर्थ्यमित्रावभिमात्यराती ॥ ७२९ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह क्षत्रियवर्गः Amarakośa 2.8.11
रिपौ वैरिसपत्नारिद्विषद्द्वेषणदुर्हृदः ॥ १० ॥द्विड्विपक्षाहितामित्रदस्युशात्रवशत्रवः ।अभिघातिपरारातिप्रत्यर्थिपरिपन्थिनः ॥ ११ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.456 · p. 53
प्रत्यर्थी पर्यवस्थाता द्वेषी वैरी च शात्रवः ।शत्रुः सपत्नो भ्रातृव्यः प्रत्यनीको द्विषन्मतः ॥ ४५६ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.49 · p. 248
प्रत्यर्थी प्रत्यवस्थाता प्रतिपक्षः परोऽप्यरिः ।दस्युः सपत्नोऽसहनो विरोद्ध्रररु-दुर्हृदः ॥ ४९ ॥
अनुष्टुप्
genderपुंmasc.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1122 · p. 145
प्रलोभशीले तु त्रिः स्यात् प्रलोभी स्यात् तु पुंस्ययम् ।किङ्कराताह्वये पुष्पस्तम्बे प्रत्यर्थिवाक् तु ना ॥ ११२२ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.350 · p. 145
प्रत्यर्थी च पराराती प्रत्यनीको जिघांसुकः ।अमित्रः प्रत्यवस्थाताभियातिरहितोऽपि च ॥ ३५० ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.260 · p. 58
शत्रौ विपक्षो दस्युश्च द्विषन्द्वेषण इत्यपि ।अभियातिः परोऽरिश्च प्रत्यर्थी चाभियातिथिः(भिः?) ॥ २६० ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट पाताललोकसर्गः Paryāyaśabdaratna 3.21 · p. 125
वैक्षाः प्रत्यर्थिनः पापा वेलम्भाश्च विरोधिनः ।तद्राजा मकराक्षः स्याद्ब्रह्मपुत्रस्तु तद्विषे ॥ २१ ॥
अनुष्टुप्
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त मनुष्यमरीचिः Pañcatattvaprakāśa 1.1.32 · p. 3
प्रत्यर्थी परिपथ्यस्व? आप्तः प्रत्ययितश्चरः ।चारो गूढनरो तर्वे? वशिकोऽन्तःपुराधिकृत् ॥ ३२ ॥
अनुष्टुप्
genderपुंmasc.
शब्दचन्द्रिका Śabdacandrikā · वामनभट्टबाण क्षत्रियप्रकरणम् Śabdacandrikā 5.2.21 · p. 43
दस्युः शत्रुरमित्रारिररातिरहितो द्विषत् ।प्रत्यर्थी प्रत्यवस्थाता दूषणः शात्रवः परः ॥ २१ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति राजवर्गः Śāradīyākhyanāmamālā 3.2.20 · p. 36
अरिर्वैरी रिपुः शत्रुर्विपक्षो द्विट् द्विषत्परः ।प्रत्यर्थी प्रत्यवस्थाता सपत्नः शात्रवोऽहितः ॥ २० ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1190 · p. 186
विपक्षः प्रत्यवस्थाता सपन्थः परिपन्थकः ।प्रत्यर्थी परिपन्थी च प्रतिपक्षः रिपुः पुनः ॥ ११९० ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.171 · p. 123
प्रत्यर्थी हिंसको विद्विट् सपत्नान्तकोऽप्रियः ।अभिघातिः परो दुर्हृदहिनो दौर्हृदोऽपि च ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश क्षत्रियाध्यायः Vaijayantī 3.7.42 · p. 107
प्रत्यर्थी पर्यवस्थाता प्रतिपक्षो विपक्षकः ।दुर्हृद्द्वेष्यभियातिश्च परिपन्थी विरोध्यपि ॥ ४२ ॥
अनुष्टुप्
genderपुंmasc.
धरणिकोश Dharaṇikośa · धरणिदास नार्धश्लोकः Dharaṇikośa 19.2.60 · p. 119
शिखण्डी च मयूरः स्याच्छिखण्डी क्षत्रियान्तरम् ।प्रत्यर्थी शत्रुराख्यातः प्रतिवादी च कीर्तितः ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् वाच्यलिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 3.4.41 · p. 44
प्रत्यर्थी त्ववगन्तव्यः शात्रवप्रतिवादिनोः ।पामरस्तु भवेदज्ञे नीचे च रभसः पुनः ॥ ४१ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1123 · p. 145
शत्रौ स्याद्भेद्यलिङ्गं तु प्रतियोगिनि ना पुनः ।पलाशी पादपे द्वे तु राक्षसे भेद्यवत् पुनः ॥ ११२३ ॥
अनुष्टुप्
doubtful
शब्दरत्नावली Śabdaratnāvalī · मथुरेश नान्ताः Śabdaratnāvalī 7.20.117 · p. 244
प्रस्फाटनं ताडने स्यात्सूर्वेऽपि च विकाशने ।प्रतिमानं प्रतिच्छायादन्तिदन्तान्तरालयोः ॥प्रतियत्नस्तु लिप्सोपग्रहसंस्कारकर्मसु ।प्रत्यर्थी तु भवच्छत्रौ प्रतिवादिनि वाच्यवत् ॥
अनुष्टुप्