वैरिन्
vairinपुं · masc.In 17 kośas: 15 synonym verses, 1 as a nānārtha head word, 4 as a meaning of another word.
षण्ढे वर्षवरः शत्रौ प्रतिपक्षः परो रिपुः ।शात्रवः प्रत्यवस्थाता प्रत्यनीकोभियात्यरी ॥ ७२८ ॥दस्युः सपत्नोऽसहनो विपक्षो द्वेषी द्विषन्वैर्यहितो जिघांसुः ।दुर्हृत्परेः पन्थकपन्थिनौ द्विट्प्रत्यर्थ्यमित्रावभिमात्यराती ॥ ७२९ ॥
अनुष्टुप्
genderपुंmasc.
रिपौ वैरिसपत्नारिद्विषद्द्वेषणदुर्हृदः ॥ १० ॥द्विड्विपक्षाहितामित्रदस्युशात्रवशत्रवः ।अभिघातिपरारातिप्रत्यर्थिपरिपन्थिनः ॥ ११ ॥
अनुष्टुप्
genderपुंmasc.
प्रत्यर्थी पर्यवस्थाता द्वेषी वैरी च शात्रवः ।शत्रुः सपत्नो भ्रातृव्यः प्रत्यनीको द्विषन्मतः ॥ ४५६ ॥
अनुष्टुप्
genderपुंmasc.
अरिः षष्ठं विपक्षं च द्वेष्यः शत्रुश्च षट् द्विषन् ।विरोधी वैरिसंज्ञं च षट्कोणं चैव सप्तकं ॥ ४४ ॥
अनुष्टुप्
genderपुंmasc.
स्थापत्यः सौविदोऽथ स्याद्भृत्यो भृतक इत्यपि ।सेवकोर्थानुजीवी स्याद्वैर्यरिर्द्वेषणो द्विषत् ॥ १९ ॥
अनुष्टुप्
genderपुंmasc.
वैरी वैरायमाणश्च विरोधी च विपक्षवत् ।अभिघाती चाभिमातिर्जिघांस्वरात्यरातयः ॥ ५० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्व (wrong syllable)
genderपुंmasc.
अभिधानशब्दः प्रत्येकमभिसम्बध्यते । संवत्सराभिधायिनां शब्दानां संवत्सरपर्यायाणां च । गिर्यादिपर्यायाणां च । पुंयोगः स्यादित्यर्थः । तद्यथा अयं संवत्सरः हायनोऽब्द इत्यादि । अयं गिरिः पर्वतः धरः शैल इत्यादि । मासाभिधायिनाम् । अयं मासः द्विपक्षः । मासविशेषोऽपि अयं चैत्रः वैशाखः ज्येष्ठः आषाढ इत्यादि । अर्णववाचिनाम् । अयमर्णवः समुद्रः सागरः पारावारः सरित्पतिरित्यादि । अयमृतुः वसन्तः ग्रीष्मः ।देववाचिनाम् । देवः सुरः । असुरवाचिनाम् । असुरः दैत्यः । शराभिधायिनाम् । शरः काण्डः । अयमसिः खड्गः मण्डलाग्रः । अयं पङ्कः कर्दमः जम्बालः । अयमरिः शत्रुः वैरी रिपुः विपक्ष इत्यादि ।भाष्कच्छुकशारज्ज्विष्टकाश्च नित्यं स्त्रि[स्त्री]यामीषिका च ।विद्युद्दिग्भूम्यभिधानं वल्ली सरितां च विज्ञेयम् ॥ ३१ ॥
metre not recognised
संवत्सरपुंहायनपुंअब्दपुंगिरिपुंपर्वतपुंधरपुंशैलपुंमासपुंचैत्रपुंवैशाखपुंज्येष्ठपुंआषाधपुंअर्णवपुंसमुद्रपुंसागरपुंपारावारपुंसरित्पतिपुंऋतुपुंवसन्तपुंग्रीष्मपुंदेवपुंसुरपुंअसुरपुंदैत्यपुंशरपुंकाण्डपुंअसिपुंखड्गपुंमण्डलाग्रपुंपङ्कपुंकर्दमपुंजम्बालपुंअरिपुंशत्रुपुंवैरिन्पुंरिपुपुंविपक्षपुंभास्स्त्रीकच्छुस्त्रीकशास्त्रीरज्जुस्त्रीइष्टकास्त्रीईषिकास्त्रीविद्युत्स्त्रीदिश्स्त्रीभूमिस्त्रीवल्लीस्त्रीसरित्स्त्री
genderपुंmasc.
वैर्यारातिरमित्रोऽरिर्द्विट् सपत्नो द्विषद्रिपुः ।भ्रातृव्यो दुर्जनः शत्रुर्दुष्टो द्वेषी खलोऽहितः ॥ ४४ ॥
अनुष्टुप्
genderपुंmasc.
विद्वान् विदद्बुधात्मज्ञेष्वाहान्यो विदुरेऽप्यमुम् ।व्यूढं विन्यस्तविस्तीर्णसंहतेष्वथ वैरिवाक् ॥ २७ ॥
अनुष्टुप्
genderविadj.
शत्रुर्वैरी सपत्नोऽरिर्द्वेषणो दुर्हृदो द्विषत् ।द्विट्विपक्षोऽहितोऽराति[भि]रमित्रं सख्यहा रिपुः ॥ ३१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 1 भि]र (syllable split)
genderपुंmasc.
अरिर्वैरी रिपुः शत्रुर्विपक्षो द्विट् द्विषत्परः ।प्रत्यर्थी प्रत्यवस्थाता सपत्नः शात्रवोऽहितः ॥ २० ॥
अनुष्टुप्
genderपुंmasc.
genderपुंmasc.
परिपन्थिः रिपुर्वैरी घातकामित्रदस्यवः ।द्वेषी द्विट् शात्रवोऽरातिरभिधाती च विद्विषः ॥
अनुष्टुप्
genderपुंmasc.
विमताहितशात्रववैरिरिपुद्विषतो द्विडरात्यभिधात्यरयः ।प्रत्यनीकप्रतिद्वन्द्विप्रत्यवस्थातृदस्यवः ।द्वेष्यानिष्टप्रतिस्पर्धिप्रत्यवस्कन्दिनोऽपि च ॥ १२८३ ॥
तोटकम्two metres in one verse
genderपुंmasc.
द्वेषणः प्रत्यनीको द्विड् जिघांसुर्हिंसनो रिपुः ।सपत्नोऽसहनो वैरी दूषकः शात्रवः परः ॥ ४१ ॥
अनुष्टुप्
genderपुंmasc.
वैरिन् as a meaning in nānārtha verses
- कोषकल्पतरु परपरस्त्वनात्मोत्तमवैरिदूरे स्यात्केवले चापि विशेष्यलिङ्गः । भरस्तु भारेऽतिशये वरस्त्व- भीष्टे सुरादेर्दुहितुश्च पत्यौ ॥ १०० ॥ Koṣakalpataru 6.27.100
- परमानन्दीयनाममाला कण्टककण्टको नरके शाखिकण्टके दोषवैरिणोः । कुमुदो दिग्गजे दैत्ये भुजंगे कैरवे कपौ ॥ १२१ ॥ Paramānandīyanāmamālā 5.7.121
- शब्दरत्नावली जीवदगानर्दं सारसे क्लीबं कैवर्तीमुस्तकेऽपि च । जलदो मुस्तके मेघे जीवदो वैरिवैद्ययोः ॥ Śabdaratnāvalī 7.18.14
- त्रिकाण्डशेष दस्युनिन्द्ये वस्त्रगृहे दूष्यं दस्युस्तस्करवैरिणौ । भेषजे द्रुविकारे च द्रव्यं भव्ये च पित्तले ॥ ३१४ ॥ Trikāṇḍaśeṣa 3.3.314