शात्रव
śātravaपुं · masc.In 17 kośas: 14 synonym verses, 3 as a nānārtha head word, 4 as a meaning of another word.
षण्ढे वर्षवरः शत्रौ प्रतिपक्षः परो रिपुः ।शात्रवः प्रत्यवस्थाता प्रत्यनीकोभियात्यरी ॥ ७२८ ॥दस्युः सपत्नोऽसहनो विपक्षो द्वेषी द्विषन्वैर्यहितो जिघांसुः ।दुर्हृत्परेः पन्थकपन्थिनौ द्विट्प्रत्यर्थ्यमित्रावभिमात्यराती ॥ ७२९ ॥
अनुष्टुप्
genderपुंmasc.
रिपौ वैरिसपत्नारिद्विषद्द्वेषणदुर्हृदः ॥ १० ॥द्विड्विपक्षाहितामित्रदस्युशात्रवशत्रवः ।अभिघातिपरारातिप्रत्यर्थिपरिपन्थिनः ॥ ११ ॥
अनुष्टुप्
genderपुंmasc.
प्रत्यर्थी पर्यवस्थाता द्वेषी वैरी च शात्रवः ।शत्रुः सपत्नो भ्रातृव्यः प्रत्यनीको द्विषन्मतः ॥ ४५६ ॥
अनुष्टुप्
genderपुंmasc.
अरातिरहितः शत्रुः दूषणः शात्रवः परः ।मित्रं निजात्मीयजनौ वयस्येष्टहितप्रियाः ॥ ३४० ॥
अनुष्टुप्
genderपुंmasc.
दुर्हृद्दस्युः सपत्नो द्विड् विपक्षः शात्रवोऽहितः ।परौचाभेर्मातियाती परेः पन्थिकपन्थिनौ ॥ २० ॥
अनुष्टुप्
genderपुंmasc.
अमित्रः शात्रवः शत्रुर्द्विट् द्विषन्द्वेषणो रिपुः ।परिपन्थी प्रत्यनीकः प्रतीपः परिपन्थिकः ॥ ४८ ॥
अनुष्टुप्
genderपुंmasc.
घट्टशुल्कावुभौ तुल्यौ अरिशत्रू द्विषन्रिपुः ।विपक्षोऽसहनो दस्युर्द्विड्द्वेषी शात्रवोऽपि च ॥ ३४९ ॥
अनुष्टुप्
genderपुंmasc.
दस्युः शत्रुरमित्रारिररातिरहितो द्विषत् ।प्रत्यर्थी प्रत्यवस्थाता दूषणः शात्रवः परः ॥ २१ ॥
अनुष्टुप्
genderपुंmasc.
अरिर्वैरी रिपुः शत्रुर्विपक्षो द्विट् द्विषत्परः ।प्रत्यर्थी प्रत्यवस्थाता सपत्नः शात्रवोऽहितः ॥ २० ॥
अनुष्टुप्
genderपुंmasc.
शत्रश्च शात्रवोऽमित्रः प्रत्यनीकः परस्तथा ॥ ११८९ ॥
अनुष्टुप्
genderपुंmasc.
परिपन्थिः रिपुर्वैरी घातकामित्रदस्यवः ।द्वेषी द्विट् शात्रवोऽरातिरभिधाती च विद्विषः ॥
अनुष्टुप्
genderपुंmasc.
स्थापत्यः स्थापतीकश्च रिपौ शत्रुः सशात्रवः ।अभिमातिरभियातिरारातिश्चाऽप्यरातियुक् ॥ २५१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 भि (wrong syllable)
genderपुंmasc.
विमताहितशात्रववैरिरिपुद्विषतो द्विडरात्यभिधात्यरयः ।प्रत्यनीकप्रतिद्वन्द्विप्रत्यवस्थातृदस्यवः ।द्वेष्यानिष्टप्रतिस्पर्धिप्रत्यवस्कन्दिनोऽपि च ॥ १२८३ ॥
तोटकम्two metres in one verse
genderपुंmasc.
द्वेषणः प्रत्यनीको द्विड् जिघांसुर्हिंसनो रिपुः ।सपत्नोऽसहनो वैरी दूषकः शात्रवः परः ॥ ४१ ॥
अनुष्टुप्
genderपुंmasc.
शात्रव as a meaning in nānārtha verses
- नानार्थार्णवसंक्षेप प्रत्यर्थिन्प्रत्यर्थी त्ववगन्तव्यः शात्रवप्रतिवादिनोः । पामरस्तु भवेदज्ञे नीचे च रभसः पुनः ॥ ४१ ॥ Nānārthārṇavasaṃkṣepa 3.4.41
- नानार्थार्णवसंक्षेप विपक्षऋषिभेदे भवेन्ना तु विपक्षः शात्रवे तथा । पक्षिपक्षे भेद्यवत् तु वीतपक्षे पुमान् पुनः ॥ १७०६ ॥ Nānārthārṇavasaṃkṣepa 4.1706
- नानार्थार्णवसंक्षेप विरोधिन्(सूर्ये ?) जन्मन्यथो पुंसि विरोधी शात्रवे त्रि तु । विरोद्धरि विपाकी तु यवक्षारे पुमांस्त्रि तु ॥ १७३१ ॥ Nānārthārṇavasaṃkṣepa 4.1731
- त्रिकाण्डशेष कल्लोलमृगे जले च कमलं कुवले बदरोत्पले । कल्लोलौ शात्रवोल्लोलौ पर्कट्याञ्च कमण्डलुः ॥ ३८८ ॥ Trikāṇḍaśeṣa 3.3.388