भृतक
bhṛtakaपुं · masc.In 14 kośas: 14 synonym verses, 2 as a meaning of another word.
genderपुंmasc.
genderपुंmasc.
अतलस्पर्शमगाधं गम्भीरं स्याद्गभीरमस्थागम् ।नावा तार्यं नाव्यं द्राग्भृतकं तत्क्षणोद्धृतं तोयम् ॥ ६४९ ॥
गीतिः
genderविadj.
स्थापत्यः सौविदोऽथ स्याद्भृत्यो भृतक इत्यपि ।सेवकोर्थानुजीवी स्याद्वैर्यरिर्द्वेषणो द्विषत् ॥ १९ ॥
अनुष्टुप्
genderपुंmasc.
तदालम्बि तु शिक्यं स्यात्काचो न त्र्यङ्कटोऽस्त्रियाम् ।भारिको भारवाहः स्याद्भृतकस्तु भरण्यभुक् ॥तथा कर्मकरो वैतनिकोऽपि धमको(?)ऽथ सः ।भृतिं विना कर्मकारोऽथ भरण्यं च वेतनम् ॥कर्मण्यं भर्म मूल्यं च भरणं निष्क्रयः पणः ॥ ३९ ॥
अनुष्टुप्
genderपुंmasc.
भृत्योऽथ भृतकः पत्तिः पदातिः पदगोऽनुगः ।भटोऽनुजीव्यनुचरः शस्त्रजीवी च किङ्करः ॥ २९ ॥
अनुष्टुप्
genderपुंmasc.
भृतकः कर्मकारोऽपि खलपूर्बहुकर्मकृत् ।भृतिः पणस्तथा मूल्ये भरणावेतने मते ॥ २८ ॥
अनुष्टुप्
genderपुंmasc.
नियुक्तकर्मकारे स्याद्भृतको भृतिभुक्तथा ।कर्मकारो वैतनिकः कर्मी निर्भाग्य इत्यपि ॥ ५८४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 वै (wrong syllable)
genderपुंmasc.
सेवकः किंकरो भृत्योऽनुजीव्यनुचरोऽनुगः ।दासः प्रेक्षो भृतकश्च चेटः कर्मकरोऽपि च ॥ १६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 त (wrong syllable)
genderपुंmasc.
भृतिभुग्भृतको वैतनिकः कर्मकरी अपि ।निर्भृतिः कर्मकारोऽयं कथ्यते साक्षरैरिह ॥ ५३५ ॥
अनुष्टुप्
genderपुंmasc.
वैतंसिकः कौटकिकः कौटिको मांसिकोऽपि च ।भृतिभुक् भृतकः कर्मकरो वैतनिकश्च सः ॥
अनुष्टुप्
genderपुंmasc.
ते मौलभृतकश्रेणीसुहृदाटविकद्विषः ।राज्याङ्गानि तु पौराणां श्रेण्यः प्रकृतयस्तथा ॥ १२७१ ॥
अनुष्टुप्
genderपुंmasc.
परैधितः परास्कन्दी परजातः पराचितः ।भृतकः स्यात् कर्मकरः प्रेष्यो वैतनिकोऽपि सः ॥ १५६७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 क (wrong syllable)
genderपुंmasc.
भृतके भृतिभुक्कर्मकरो वैतनिकस्त्रिषु ।भरण्यं भरणं भर्म वेतनं निष्क्रयो भृतिः ॥ ५ ॥
अनुष्टुप्
genderपुंmasc.
भृतक as a meaning in nānārtha verses
- नानार्थार्णवसंक्षेप नेपना त्रिस्तु भृतके नेमस्त्वन्ने वज्रे पुरोहिते । अर्धे च ना त्रिः सदृशे समीपे चाथ खे नपि ॥ ६९९ ॥ Nānārthārṇavasaṃkṣepa 2.5.699
- नानार्थार्णवसंक्षेप कीनाशपीतप्रधाने पुंसि स्याद् राक्षसे तु द्वयोस्त्रि तु । कदर्यानार्यभृतककृतघ्नेषु कृषीवले ॥ ४८७ ॥ Nānārthārṇavasaṃkṣepa 4.487