निष्ट्य
niṣṭyaपुं · masc.In 6 kośas: 6 synonym verses, 1 as a nānārtha head word, 1 as a meaning of another word.
पुलिन्दा नाहला निष्ट्याः शबरा वरुटा भटाः ।माला भिल्लाः किराताश्च सर्वेऽपि म्लेच्छजातयः ॥ ९३४ ॥
अनुष्टुप्
genderपुंmasc.
किराताः शबरा निष्ट्याः पुलिन्दा नाहला भटाः ।माला म्लेच्छादयो भिल्लाः कथ्यन्ते ह्यन्तजातयः ॥ ५९९ ॥
अनुष्टुप्
genderपुंmasc.
इतरः पामरो मर्मरीकः प्राकृत-बर्बरौ ।क्षुधुनो यवनो म्लेच्छो मातङ्गस्तु जनंगमः ॥अन्तावसायी श्वपचः श्वपाको निष्ट्य-नाहलौ ।अन्तेवासी दिवाकीर्तिः पुल्कसः प्लव इत्यपि ॥ ४४ ॥
अनुष्टुप्
genderपुंmasc.
पुलिन्दा नाहला निष्ट्याः शबरा वरुडा भुराः ।मेदा भिल्लाः किराताश्च सर्वेऽपि म्लेच्छजातयः ॥ ४७ ॥
अनुष्टुप्
genderपुंmasc.
मालाः भिल्लाः पुलिन्दाश्च किराताः वकटाः भटाः ।शबराः नाहलाः निष्ट्याश्चेत्युक्ता म्लेच्छजातयः ॥ १५८४ ॥
अनुष्टुप्
genderपुंmasc.
अन्ध्री तु शबरान्निष्ट्यं भिल्लं सा निष्ठ्यपूर्विका ।किरातं पर्णशबरी शबरान्निष्ट्यपूर्विका ॥ ४६ ॥
अनुष्टुप्
genderपुंmasc.
सदृशे निष्ट्यशब्दस्तु मर्त्यजात्यन्तरे द्वयोः ।अन्ध्रीशबरजे निष्ट्या पुनः स्वातौ स्त्रियामथ ॥ ६९० ॥
अनुष्टुप्
निष्ट्य as a meaning in nānārtha verses
- कोषकल्पतरु कण्डोलस्यात्कुम्भकारेऽञ्जनके कुला[लं] कण्डोल उक्तः पिटके च निष्ट्ये । अद्रौ सुवेलः प्रणते च शान्ते- ऽवेलोऽपलापेऽप्यथ पूगचूर्णे ॥ ४० ॥ Koṣakalpataru 6.28.40