कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

शबर

śabaraपुं · masc.

In 12 kośas: 12 synonym verses, 3 as a nānārtha head word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.934 · p. 37
पुलिन्दा नाहला निष्ट्याः शबरा वरुटा भटाः ।माला भिल्लाः किराताश्च सर्वेऽपि म्लेच्छजातयः ॥ ९३४ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह शूद्रवर्गः Amarakośa 2.10.20
भेदाः किरातशबरपुलिन्दा म्लेच्छजातयः ॥ २० ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.599 · p. 67
किराताः शबरा निष्ट्याः पुलिन्दा नाहला भटाः ।माला म्लेच्छादयो भिल्लाः कथ्यन्ते ह्यन्तजातयः ॥ ५९९ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ शूद्रवर्गः Koṣakalpataru 2.4.47 · p. 299
पुलिन्दा नाहला निष्ट्याः शबरा वरुडा भुराः ।मेदा भिल्लाः किराताश्च सर्वेऽपि म्लेच्छजातयः ॥ ४७ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.433 · p. 155
कौतूहलं च कु[84]तुकं कौतुकं तु कुतूहले ।पुलिन्दा वरुटा भिल्ला नाहलाः शबरा अपि ॥ ४३३ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.591 · p. 102
किराताश्च पुलिन्दाश्च शबरा म्लेच्छजातयः ।किराते शबरो व्याधः पुलिन्दो मृगयुस्तथा ॥ ५९१ ॥
अनुष्टुप्
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त मनुष्यमरीचिः Pañcatattvaprakāśa 1.1.77 · p. 6
शूद्रोऽन्त्यवर्णोऽङ्घ्रिभवः श्यामः सेवनजीवनः ।भिल्लः किरातः शबरो निषादो वेणुकल्मषः ॥ ७७ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1584 · p. 254
मालाः भिल्लाः पुलिन्दाश्च किराताः वकटाः भटाः ।शबराः नाहलाः निष्ट्याश्चेत्युक्ता म्लेच्छजातयः ॥ १५८४ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि तृतीयः काण्डः Śabdaratnākara 3.355 · p. 217
पुलिन्द्रोऽपि, शबरे तु पत्रशबर उच्यते ।वरटो वारटोऽप्युक्त इडीडौ म्लेच्छजातिके ॥ ३५५ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण शूद्राध्यायः Śabdaratnākara 3.5.1561 · p. 188
मातंगश्वपचावन्तेवासिचाण्डालपुष्यलाः ।भिल्लाः किराताः शबराः पुलिन्दाश्च निषादकाः ॥ १५६१ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश देशाध्यायः Vaijayantī 3.1.34 · p. 37
अप्यन्ये केरलाः कुल्याः सेतुजाः कुलकालकाः ।इषीकाः शबरारट्टा इत्याद्या नीवृतः पृथक् ॥ ३४ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश मनुष्याध्यायः Vaijayantī 3.5.23 · p. 73
चौर्यात् सा चाक्रिकं वेनी वंशिकं फलिनी कुथम् ।निषादी कुक्कुटं भिल्ली शबरं कोहली नसम् ॥ २३ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ रान्ताः Koṣakalpataru 6.27.88 · p. 315
अर्चेय( ? )संतत्यभिधानवाची-श्रेष्टेऽन्यवत्स्याच्छबरस्तु पुंसि ।शंभौ च चाण्डालकजातिभेदेक्लीबे तु तोयेऽथ निशाचरे स्यात् ॥ ८८ ॥
इन्द्रवज्रा
doubtful
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1763 · p. 201
शबरो मर्त्यजातेर्द्वे प्रभेदे यस्य सम्भवः ।शूद्राद्भिल्लस्त्रियां स्त्री तु शबरी तापसस्त्रियाम् ॥ १७६३ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1764 · p. 201
रामायणप्रसिद्धायां पुल्लिँङ्गस्तु महेश्वरे ।नपुंसकं तु सलिले शबलस्तु नृलिङ्गकः ॥ १७६४ ॥
अनुष्टुप्