कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

प्राकृत

prākṛtaपुं · masc.

In 10 kośas: 16 synonym verses, 1 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.932 · p. 37
उन्माथः कूटयन्त्रं स्याद्विवर्णस्तु पृथग्जनः ।इतरः प्राकृतो नीचः पामरो बर्बरश्च सः ॥ ९३२ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह शूद्रवर्गः Amarakośa 2.10.16
विवर्णः पामरो नीचः प्राकृतश्च पृथग्जनः ।निहीनोऽपसदो जाल्मः क्षुल्लकश्चेतरश्च सः ॥ १६ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.348 · p. 41
क्षुद्रदरिद्राकिञ्चनदुर्विधदुःस्थाश्च दुर्गताः प्रोक्ताः ।इतरप्राकृतपामरपृथग्जना वर्वराश्च तुल्यार्थाः ॥ ३४८ ॥
गीतिः
genderविadj.
कल्पद्रुकोशः Kalpadrukośa · केशव शूद्रादिप्रकाण्डः Kalpadrukośa 1.8.31 · p. 205
प्राकृतोऽपसदो जाल्मो निहीनश्च पृथग्जनः ।क्षुल्लकप्रैष्यदासेयदासदासेरचेटकाः ॥ ३१ ॥
अनुष्टुप्
genderविadj.
कल्पद्रुकोशः Kalpadrukośa · केशव कालप्रकाण्डः Kalpadrukośa 2.4.85 · p. 415
दैनन्दिनः प्राकृतश्च स च स्याद्द्विविधोऽथ च ।किल्विषं कल्मषं किण्वं कल्कः पङ्कश्च न स्त्रियाम् ॥ ८५ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नाट्यप्रकाण्डः Kalpadrukośa 2.5.55 · p. 423
तदुद्भवं प्राकृतं तन्मागधी सूरसेन्यपि ।अपभ्रंशो भूतभाषा भाषाः षडथ वृत्तयः ॥ ५५ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धीवर्गः Koṣakalpataru 1.5.91 · p. 64
कार्तं कृतिः प्राकृतं तु प्रकृतिः स्यादथाकृतिः ।आकृतं वैकृतं तु स्याद्वि[कृतिः संकृ]तौ पुनः ॥ ९१ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ शूद्रवर्गः Koṣakalpataru 2.4.44 · p. 298
इतरः पामरो मर्मरीकः प्राकृत-बर्बरौ ।क्षुधुनो यवनो म्लेच्छो मातङ्गस्तु जनंगमः ॥अन्तावसायी श्वपचः श्वपाको निष्ट्य-नाहलौ ।अन्तेवासी दिवाकीर्तिः पुल्कसः प्लव इत्यपि ॥ ४४ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.19 · p. 307
कुङ्कुमाह्वस्तु गोधूमे भूमौ तूषाभिधो मतःयथर्तु वृद्धदोषोत्थः प्राकृतो वैकृतः परः ।अपक्वदोषः सामोऽसौ निरामस्तु ततोऽन्यथा ॥ १९ ॥
अनुष्टुप्
genderविadj.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.586 · p. 101
नीचे विवर्णो जाल्मश्च प्राकृतः पामरो जडः ।पृथग्जनो निहीनश्चापशदः क्षुल्लकेतरौ ॥ ५८६ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति शूद्रवर्गः Śāradīyākhyanāmamālā 3.4.69 · p. 41
इतरः प्राकृतो नीचः पामरश्च पृथग्जनः ।पुलिन्दः शम्बरो भिल्लः किरातश्च वनेचरः ॥ ६९ ॥
अनुष्टुप्
genderविadj.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.412 · p. 52
षट् संस्कृतादिकाः भाषाः कथ्यन्ते क्रमशो यथा ।संस्कृतं प्राकृतं शौरसेनी पैशाचमागधी ॥ ४१२ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1580 · p. 253
इतरः पामरो नीचः प्राकृतश्च पृथग्जनः ।विवर्णो बर्बरश्चेति नामानि विलसन्ति वै ॥ १५८० ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.361 · p. 106
क्षौमं क्षोमं दुकूलञ्च सूक्ष्मवस्त्रे भवेत् त्रयम् ।निवीतं प्राकृतञ्चेति वस्त्रे परिहिते त्रिषु ॥
अनुष्टुप्
genderविadj.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश शूद्रवर्गप्रक्लाशः Śabdaratnāvalī 3.8.25 · p. 154
नीचे निहीनहीनापसदजान्मपृथग्जनाः ।विवर्णः प्राकृतक्षुल्लक्षुल्लकेतरपामराः ।भृत्ये भुजिष्यदासेयदासेरपरिचारकाः ॥
अनुष्टुप्
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण विशेष्यनिघ्नाध्यायः Śabdaratnākara 3.6.1575 · p. 190
नीचे निहीनापशदपामरेतरबर्बराः ।विवर्णः क्षुल्लको जाल्मः प्राकृतश्च पृथग्जनः ॥ १५७५ ॥
अनुष्टुप्
genderविadj.

प्राकृत as a meaning in nānārtha verses

  • शब्दरत्नावली ग्राम्यग्राम्यं क्लीबं स्त्रीकरणे प्राकृताश्लीलयोस्त्रिषु । गुह्यं रहस्युपस्थे च गुह्यो ना दम्भकूर्मयोः । गृह्यं क्लीबं ग्रन्थभेदे स्त्री शाखानगरेऽपि च ॥ Śabdaratnāvalī 7.26.12