कण्डोल
kaṇḍolaपुं · masc.In 10 kośas: 11 synonym verses, 1 as a nānārtha head word, 1 as a meaning of another word.
प्रस्फोटनं शूर्पमस्त्री चालनी तितउः पुमान् ।स्यूतप्रसेवौ कण्डोलपिटौ कटकिलिञ्जकौ ॥ २६ ॥
अनुष्टुप्
genderपुंmasc.
कण्डोलः पिटकः पुंसि स्त्री शाला सूदपाकयोः ।स्त्रियां रसवती तत्राध्यक्षः पौरोगवस्त्रिषु ॥ ९५ ॥
अनुष्टुप्
genderपुंmasc.
ताम्बूलदो वागुरिकः * * * [ताम्बूल]पिटकस्त्रिषु ।स्त्रियौ तु पेटा-मञ्जूषे पुटकं पुस्तकादिभृत् ।वंशजे भाजने पिण्ड-कण्डोलौ पिटक[96a]स्त्रिषु ।समुद्गकः संपुटकः प्रसेवः स्यूत इत्यपि ।कटस्त्रिषु किलिञ्जो नासने वीरणनिर्मिते ।कटकोणः(लः) प्रतिग्राहः पतद्ग्राहः पतद्ग्रहः ॥ ३६ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
आवेल उल्लोल-गलौ निचोलःकण्डोल-कुद्दाल-गडोल-गल्लाः ।स्यात्पत्रपालोऽपि च हेमलोऽपिकपोल-वेतालपुलानलोऽपि ॥
उपजातिः
genderपुंmasc.
उलूखलोदूखले च कलिञ्जमुशलौ पुनः ।कण्डोलकपिटेऽयोग्रं संकरावकरौ समौ ॥ २९५ ॥
अनुष्टुप्
genderपुंmasc.
पुष्यो जनपदो रेफशोफौ सूपनितम्बकौ ।स्तम्बो निकाय्यः कण्डोलजगलौ गोलतण्डुलौ ॥ २३ ॥
अनुष्टुप्
genderपुंmasc.
चालिन्यां तितउः पुंसि प्रसेवे स्यूत इष्यते ।पुटिके पेटकः पेटः कण्डोलः कण्ड इत्यपि ॥ ४४० ॥
अनुष्टुप्
genderपुंmasc.
वंशादिनिर्मिते भाण्डे कण्डोलः पिण्ड इत्यपि ।वीरणादिविरचिते स्यातां कटकिलिञ्जकौ ॥क्लीबे महानसं पाकस्थानं रसवती स्त्रियाम् ।स्यातां महानसाध्यक्षे पौरोगवपुरोगवौ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 दि (wrong syllable)
genderपुंmasc.
मुसले मुषलोऽयोग्रमयोनिर्वंशनिर्मिते ।भाण्डे तु कण्डोलकः स्यात्कण्डोलः पिटकः पिटम् ॥ ५७ ॥
अनुष्टुप्
genderपुंmasc.
प्रस्फोटनं शूर्पमस्त्री तितउः पुंसि चालनी ।कटः किलिञ्जः कण्डोलः पिटः स्यूतः प्रसेवकः ॥ ८९३ ॥
अनुष्टुप्
genderपुंmasc.
स्यूतः प्रसेवकोऽथ स्यात्समुद्गः संपुटः पुटः ।धान्यकोष्ठे कुसूलोऽथ कण्डोलः पिटकः पिटः ॥ ६४ ॥
अनुष्टुप्
genderपुंmasc.
कण्डोल as a meaning in nānārtha verses
- नानार्थार्णवसंक्षेप पिटभक्तपिण्डे देवपीठेऽप्यथ रोमपुटे पिटः । कण्डोले च पुमान् क्ली तुच्छदिषोऽवयवान्तरे ॥ ७७२ ॥ Nānārthārṇavasaṃkṣepa 2.5.772