कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

पुल्कस

pulkasaपुं · masc.

In 5 kośas: 10 synonym verses, 1 as a nānārtha head word.

कल्पद्रुकोशः Kalpadrukośa · केशव शूद्रादिप्रकाण्डः Kalpadrukośa 1.8.35 · p. 206
अन्तेवासी दिवाकीर्तिर्मातङ्गोपि च पुल्कसः ।जनंगमः पुल्कशोऽपि निषादश्च निषत्प्लवः ॥ ३५ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ शूद्रवर्गः Koṣakalpataru 2.4.44 · p. 298
इतरः पामरो मर्मरीकः प्राकृत-बर्बरौ ।क्षुधुनो यवनो म्लेच्छो मातङ्गस्तु जनंगमः ॥अन्तावसायी श्वपचः श्वपाको निष्ट्य-नाहलौ ।अन्तेवासी दिवाकीर्तिः पुल्कसः प्लव इत्यपि ॥ ४४ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण शूद्राध्यायः Śabdaratnākara 3.5.1519 · p. 184
चण्डालात् पुल्कसो जातः तस्यां च श्वपचश्च सः ।अन्येऽप्यन्योन्यसंकीर्णा बहवः क्षुद्रजातयः ॥ १५१९ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण शूद्राध्यायः Śabdaratnākara 3.5.1560 · p. 188
चषकोऽस्त्री पानपात्रमुपदंशोऽपि दंशकः ।जनंगमदिवाकीर्तिचण्डालप्लवपुल्कसाः ॥ १५६० ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश मनुष्याध्यायः Vaijayantī 3.5.48 · p. 76
रथकारं तु माहिष्यात्करणी माहिषाडुकम् ।पुल्कसं सैव चण्डालात् किरातात्पलगण्डकम् ॥ ४८ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश मनुष्याध्यायः Vaijayantī 3.5.82 · p. 78
धीवरो मार्गसंत्राणाद्रामको दौत्यजीवनात् ।आयोगवः पुल्कसश्च स वासःकांस्यजीवनात् ॥ ८२ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश मनुष्याध्यायः Vaijayantī 3.5.85 · p. 79
क्षत्ता दौत्यद्वारपाल्यात् पुल्कसो मद्यविक्रयात् ।पेलवः पुनरस्पृश्यो जंभको नृत्तगानवित् ॥ ८५ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश मनुष्याध्यायः Vaijayantī 3.5.88 · p. 79
पुल्कसस्तान्तवेनासौ चाक्रिकस्तैलविक्रयात् ।लवणक्रीतकोऽसौ स्याल्लवणस्यैव विक्रयात् ॥ ८८ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश मनुष्याध्यायः Vaijayantī 3.5.89 · p. 79
एवमेकादश प्रोक्ता वर्णानां प्रतिलोमजाः ।गोधादिवधबन्धास्तु हरीणां पुल्कसाश्च ते ॥ ८९ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश मनुष्याध्यायः Vaijayantī 3.5.91 · p. 79
शूर्पच्छत्रादिकर्माणि सूचीनां ते च पुल्कसाः ।कैवर्तानां पक्षिपशुमृगघातनजीवनम् ॥ ९१ ॥
अनुष्टुप्
genderपुंmasc.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1190 · p. 151
व्रतिभेदे त्रिषु पुनः समृद्धे कुमुमैरथ ।पुल्कसः स्याद्द्वयोर्मर्त्यजातिभेदे यदुद्भवः ॥ ११९० ॥
अनुष्टुप्