कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

भिल्ल

bhillaपुं · masc.

In 11 kośas: 13 synonym verses, 1 as a nānārtha head word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.934 · p. 37
पुलिन्दा नाहला निष्ट्याः शबरा वरुटा भटाः ।माला भिल्लाः किराताश्च सर्वेऽपि म्लेच्छजातयः ॥ ९३४ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.599 · p. 67
किराताः शबरा निष्ट्याः पुलिन्दा नाहला भटाः ।माला म्लेच्छादयो भिल्लाः कथ्यन्ते ह्यन्तजातयः ॥ ५९९ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव शूद्रादिप्रकाण्डः Kalpadrukośa 1.8.10 · p. 203
अथ पारशवो भिल्लो निषादः पर्वताश्रयः ।त्रिष्वितः पुष्करान्ताः स्युः शिल्पी कारुश्च कारुकः ॥ १० ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव शूद्रादिप्रकाण्डः Kalpadrukośa 1.8.36 · p. 206
पुलिका नाहला निष्ठ्याः शवरा वरुटा भटाः ।माला भिल्लाः किराताश्च ते सर्वे भिन्नजातयः ॥ ३६ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ शूद्रवर्गः Koṣakalpataru 2.4.47 · p. 299
पुलिन्दा नाहला निष्ट्याः शबरा वरुडा भुराः ।मेदा भिल्लाः किराताश्च सर्वेऽपि म्लेच्छजातयः ॥ ४७ ॥
अनुष्टुप्
genderपुंmasc.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.905 · p. 120
भास्वानिन्दौ रवौ पुंसि भेद्यलिङ्गं तु भास्वरे ।भास्वतीति स्त्रियां नद्यामुपस्यप्यथ भिल्लवाक् ॥ ९०५ ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.433 · p. 155
कौतूहलं च कु[84]तुकं कौतुकं तु कुतूहले ।पुलिन्दा वरुटा भिल्ला नाहलाः शबरा अपि ॥ ४३३ ॥
अनुष्टुप्
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त मनुष्यमरीचिः Pañcatattvaprakāśa 1.1.77 · p. 6
शूद्रोऽन्त्यवर्णोऽङ्घ्रिभवः श्यामः सेवनजीवनः ।भिल्लः किरातः शबरो निषादो वेणुकल्मषः ॥ ७७ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति शूद्रवर्गः Śāradīyākhyanāmamālā 3.4.69 · p. 41
इतरः प्राकृतो नीचः पामरश्च पृथग्जनः ।पुलिन्दः शम्बरो भिल्लः किरातश्च वनेचरः ॥ ६९ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1584 · p. 254
मालाः भिल्लाः पुलिन्दाश्च किराताः वकटाः भटाः ।शबराः नाहलाः निष्ट्याश्चेत्युक्ता म्लेच्छजातयः ॥ १५८४ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण शूद्राध्यायः Śabdaratnākara 3.5.1561 · p. 188
मातंगश्वपचावन्तेवासिचाण्डालपुष्यलाः ।भिल्लाः किराताः शबराः पुलिन्दाश्च निषादकाः ॥ १५६१ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश मनुष्याध्यायः Vaijayantī 3.5.46 · p. 75
अन्ध्री तु शबरान्निष्ट्यं भिल्लं सा निष्ठ्यपूर्विका ।किरातं पर्णशबरी शबरान्निष्ट्यपूर्विका ॥ ४६ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश मनुष्याध्यायः Vaijayantī 3.5.121 · p. 82
रजकश्चर्मकारश्च वेनो बुरुल एव च ।कैवर्तमेदभिल्लाश्च सप्तैता अन्त्यजातयः ॥ १२१ ॥
अनुष्टुप्
genderपुंmasc.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.906 · p. 120
नृजातिभेदे शबरान्निष्ट्यपूर्वान्ध्रिकासुते ।द्वयोः स्यात् सज्जनस्त्वाह पुल्लिँङ्गं पक्कणे त्रि तु ॥ ९०६ ॥
अनुष्टुप्
doubtful