श्वपच
śvapacaपुं · masc.In 16 kośas: 15 synonym verses, 2 as a nānārtha head word, 9 as a meaning of another word.
चण्डालेऽन्तावसाय्यन्तेवासिश्वपचबुक्कसाः ।निषादप्लवमातङ्गदिवाकीर्तिजनंगमाः ॥ ९३३ ॥
अनुष्टुप्
genderपुंmasc.
चण्डालप्लवमातङ्गदिवाकीर्तिजनङ्गमाः ॥ १९ ॥निषादश्वपचावन्तेवासिचाण्डालपुक्कसाः ।
अनुष्टुप्metre not read in every line
genderपुंmasc.
अन्तावसायी चण्डालो निषादश्च जनङ्गमः ।श्वपचः पक्वशश्चैव मातङ्गः प्लवकः स्मृतः ॥ ५९८ ॥
अनुष्टुप्
genderपुंmasc.
सूत्थान उष्णश्चतुरः पेशलः पेसलः पटुः ।चण्डालोऽपि च चाण्डालः श्वपाचः श्वपचः श्वपक् ॥ ३४ ॥
अनुष्टुप्
genderपुंmasc.
इतरः पामरो मर्मरीकः प्राकृत-बर्बरौ ।क्षुधुनो यवनो म्लेच्छो मातङ्गस्तु जनंगमः ॥अन्तावसायी श्वपचः श्वपाको निष्ट्य-नाहलौ ।अन्तेवासी दिवाकीर्तिः पुल्कसः प्लव इत्यपि ॥ ४४ ॥
अनुष्टुप्
genderपुंmasc.
जनङ्गमदिवाकीर्तिनिषादश्वपचादयः ।इत्यादयो म्लेच्छभेदास्तत्तद्देशेषु सम्मताः ॥ ४३४ ॥
अनुष्टुप्
genderपुंmasc.
चण्डाले श्वपचः पुष्कः पुलः पुल्क(क्क?)श इत्यपि ।चण्डालप्लवमातङ्गदिवाकीर्तिजनंगमाः ॥ ५९० ॥
अनुष्टुप्
genderपुंmasc.
मातङ्गः श्वपचोऽस्पृश्यश्चण्डालः पुक्कसः प्लवः ।म्लेच्छः तुरुष्को यवनो विद्धकर्णो वराहभुक् ॥ ७५ ॥
अनुष्टुप्
genderपुंmasc.
चाण्डालस्तु दिवाकीर्तिर्निषादश्च जनंगमः ।मातङ्गः श्वपचोऽस्पृश्योऽन्तेवासी प्लवबुक्कसौ ॥ ६८ ॥
अनुष्टुप्
genderपुंmasc.
चण्डालश्चैव चाण्डालः श्वपचः पुक्कसः प्लवः ।पुष्कसो बुक्कसश्चापि निषादश्च जनङ्गमः ॥ १५८१ ॥
अनुष्टुप्
genderपुंmasc.
डोम्बश्च श्वपचो नाम डोम्बजाते हि कथ्यते ।बुक्कसो मृतपः प्रोक्तः श्मशानकार्यकारकः ॥ १५८३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न (wrong syllable)
genderपुंmasc.
दिवाकीर्तिर्निषादश्च श्वपचोऽपि च जनाङ्गमः ।पुक्कशो निषदोऽपि स्यात् तद्भेदाः शवरादयः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 1 श्वप (syllable split)
genderपुंmasc.
चण्डालात् पुल्कसो जातः तस्यां च श्वपचश्च सः ।अन्येऽप्यन्योन्यसंकीर्णा बहवः क्षुद्रजातयः ॥ १५१९ ॥
अनुष्टुप्
genderपुंmasc.
श्वपचं सैव चण्डालाच्चर्मकञ्चुकजीवनम् ।मागधात्ताम्रजीवं सा तक्षाणं करणादसौ ॥ ३९ ॥
अनुष्टुप्
genderपुंmasc.
पुलिन्दपर्णशबरौ किराती निष्ट्यपूर्विका ।पुलिन्दश्वपचौ निष्ट्यात् किराती नान्यपूर्विका ॥ ४७ ॥
अनुष्टुप्
genderपुंmasc.
क्ली तु श्वासक्रियायां स्याच्छ्वपचस्तु द्वयोरयम् ।मर्त्यजात्यन्तरे विप्राचण्डालप्रभवे तथा ॥ १७७५ ॥
अनुष्टुप्
doubtful
निष्ठ्यादनन्यपूर्वायां किरात्यां जनिते त्रि तु ।शुनः पक्तर्यथ द्वे स्याच्छ्वपाको मनुजान्तरे ॥ १७७६ ॥
अनुष्टुप्
doubtful
श्वपच as a meaning in nānārtha verses
- धरणिकोश मातंगमृदङ्गो घोषके वाद्ये प्रियङ्गुः कङ्गुवृक्षयोः । भुजंगौ षिङ्गभुजगौ मातंगौ श्वपचद्विपौ ॥ Dharaṇikośa 3.1.4
- धरणिकोश निषादकुमुत्कृपण आख्यातः कुमुत्कैरवमुच्यते । निषादः श्वपचे प्रोक्तो नीचस्वर उदाहृतः ॥ Dharaṇikośa 17.2.14
- कोषकल्पतरु मातङ्गमातङ्गः श्वपचविषाणिनोरथ स्या- द्रक्ताङ्गः क्षितितनयेऽन्यवत्तु वीरे । जीवन्त्यामरुणरुचि स्त्रियां प्रवाले कम्पिल्ले त्यजति नृयोषितोः स लिङ्गम् ॥ २३ ॥ Koṣakalpataru 6.3.23
- कोषकल्पतरु निषादस्वरे निषादः श्वपचे प्रसाद- स्त्वनुग्रहे काव्यगुणे प्रसत्तौ । स्वाच्छ्ये नवे च प्रतिभेऽप्यधृष्टे पीते तु मुद्गे नरि शारदः स्यात् । स्त्री सप्तप[5b]र्णेऽम्बुकणागतश्च स्याद्दारदः पारदहिङ्गुलार्थः । विषेऽप्यथो सर्पिषि तोयदं स्या- न्ना मुस्तके वारिधरेऽपि तद्वत् ॥ ३४ ॥ Koṣakalpataru 6.19.34
- कोषकल्पतरु पुक्कसवाते तथात्मन्यतसः स्त्रियां तु क्षुमाभिधायामवसोऽर्कराज्ञोः । अम्भोनिधौ स्यान्नभसोऽब्दकाले क्लीबेऽन्तरिक्षेऽप्यथ पुक्कसः स्यात् । चण्डालके च श्वपचे स्त्रियां तु स्यान्नीलिकायामपि कालिकायाम् । वनीयके स्याल्लभसो धनेऽन्त्ये- ऽर्वदोरके स्त्री पनसो[88b]द्रुभेदे ॥ ८७ ॥ Koṣakalpataru 6.31.87
- शब्दरत्नावली अन्तावसायिन्अन्तावसायी मुनिभिन्नापितश्वपचेषु ना । कलानुनादी भ्रमरे कलविङ्के कपिजले ॥ Śabdaratnāvalī 7.20.140
- शब्दरत्नावली प्लवतर्कनिश्चितयोः क्लीबं नित्यनिश्चलयोस्त्रिषु । स्त्रियान्तु शालपर्ण्यां स्यात्तथा साध्वी स्त्रियामपि ॥ गीतभेदे च स्रुग्भेदे त्रिलिङ्ग्यामाह माधवः । नवस्त्रिषु नूतने स्यात्स्तुतिमात्रे पुमानयम् ॥ नीवी परिपणे स्त्री तु स्त्रीकट्यंशुकबन्धने । पक्वं विनाशाभिमुखे तथा परिणते त्रिषु ॥ प्लवो ना विहगे भेके निषादे भेलके कपौ । शलके प्रेरणे शत्रौ श्वपचे प्लवनेऽपि च ॥ Śabdaratnāvalī 7.29.13
- शब्दरत्नावली पुक्कसपनसा रोगभेदे स्याद्वानरीराक्षसीभिदोः । पयः क्षीराम्बुनोः क्लीबं पुक्कसश्वपचेऽधने ॥ Śabdaratnāvalī 7.32.26
- त्रिकाण्डशेष निषाददेशे जने जनपदौ निषादौ श्वपचस्वरौ । वाक्ये शब्दे प्रदेशेऽपि पदं पापस्तु न द्वयोः ॥ २०७ ॥ Trikāṇḍaśeṣa 3.3.207