कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

अन्तावसायिन्

antāvasāyinपुं · masc.

In 16 kośas: 19 synonym verses, 5 as a nānārtha head word, 1 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.793 · p. 37
पुस्तं लेप्यादिकर्म स्यान्नापितश्चण्डिलः क्षुरी ॥ ९२२ ॥क्षुरमर्दी दिवाकीर्तिर्मुण्डकोऽन्तावसाय्यपि ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 द्रा (wrong syllable)
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.933 · p. 37
चण्डालेऽन्तावसाय्यन्तेवासिश्वपचबुक्कसाः ।निषादप्लवमातङ्गदिवाकीर्तिजनंगमाः ॥ ९३३ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह शूद्रवर्गः Amarakośa 2.10.17
क्षुरी मुण्डी दिवाकीर्तिनापितान्तावसायिनः ।
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.598 · p. 67
अन्तावसायी चण्डालो निषादश्च जनङ्गमः ।श्वपचः पक्वशश्चैव मातङ्गः प्लवकः स्मृतः ॥ ५९८ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव शूद्रादिप्रकाण्डः Kalpadrukośa 1.8.20 · p. 204
ग्रामतक्षोऽथ स्वच्छन्दे कौटतक्षोऽथ नापितः ।वात्सीपुत्रो दिवाकीर्त्तिर्मुण्डकोन्तावसाय्यपि ॥ २० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 थ (wrong syllable)
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ शूद्रवर्गः Koṣakalpataru 2.4.27 · p. 297
निर्णेजकः स्याद्रजको धावकः कर्मकीलकः ।[145a] मर्जूरथ स्याद्विट्सारी विट्किरः कुणपश्च सः ।क्षुरमर्द्दी क्षुरी मुण्डी चण्डिलान्तावसायिनौ ॥ २७ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ शूद्रवर्गः Koṣakalpataru 2.4.44 · p. 298
इतरः पामरो मर्मरीकः प्राकृत-बर्बरौ ।क्षुधुनो यवनो म्लेच्छो मातङ्गस्तु जनंगमः ॥अन्तावसायी श्वपचः श्वपाको निष्ट्य-नाहलौ ।अन्तेवासी दिवाकीर्तिः पुल्कसः प्लव इत्यपि ॥ ४४ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.432 · p. 155
क्षुरमर्द्यन्तावसायी भद्राकरणमुण्डने ।कुसृतिः कुहकजाले त्विन्द्रजालं तथोच्यते ॥ ४३२ ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 6 क (wrong syllable)
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.577 · p. 100
अन्ते(न्ता?)वसायी नापितको नापितोऽपि च दृश्यते ।निर्णेजकस्तु रजके तत्र धीमान्विशेषकः ॥ ५७७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति शूद्रवर्गः Śāradīyākhyanāmamālā 3.4.58 · p. 40
क्षुरमर्दी दिवाकीर्तिर्नापितोऽन्तावसाय्यपि ।मुण्डनं भद्राकरणं वपनं परिवापनम् ॥ ५८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 द्रा (wrong syllable)
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1560 · p. 249
नापितोऽन्तावसायी च भण्डिवाहश्च भाण्डिकः ।भण्डिवाही दिवाकीर्तिः ग्रामणीश्चण्डिलः पुनः ॥ १५६० ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1582 · p. 253
मातङ्गोऽन्तावसायी वै दिवाकीर्तिः पुनः किल ।अन्तेवासीति नामानि मन्यन्ते पण्डितैर्जनैः ॥ १५८२ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश शूद्रवर्गप्रक्लाशः Śabdaratnāvalī 3.8.15 · p. 154
नखकुटुः दिवाकीर्ति-ग्रामण्यन्तावसायिनः ।निर्णेजकस्तु शौचेयो रजकः कर्मकीलकः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 कु (wrong syllable)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि तृतीयः काण्डः Śabdaratnākara 3.354 · p. 217
पुत्कसोऽन्तावसायी चान्तेवास्यपि पुलिन्दवत् ॥ ३५४ ॥
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण शूद्राध्यायः Śabdaratnākara 3.5.1529 · p. 185
नापितः क्षौर(रि?)को वप्ता चण्डिलान्तावसायिनौ ।ग्रामणीश्च दिवाकीर्तिः क्षुरो वपनशस्त्रकम् ॥ १५२९ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश मनुष्याध्यायः Vaijayantī 3.5.49 · p. 76
चण्डालात्पुल्कसी डोंबं निषाद्यन्तावसायिनम् ।डोंबी खषं सैव निष्ट्यात् बिभेणं हड्डिकं खषी ॥ ४९ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश मनुष्याध्यायः Vaijayantī 3.5.87 · p. 79
अन्तावसायी वपनान्मागधश्चित्रकर्मणा ।स वैदेहः पाशुपाल्यात्तद्रसानाञ्च विक्रयात् ॥ ८७ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश मनुष्याध्यायः Vaijayantī 3.5.107 · p. 80
श्मशानचेलरक्षादिवृत्तयोंऽतावसायिनः ।वनश्मशानरक्षा तु चण्डालांतावसायिनाम् ॥ १०७ ॥
अनुष्टुप्
genderपुंmasc.doubtful
वैजयन्ती Vaijayantī · यादवप्रकाश शूद्राध्यायः Vaijayantī 3.9.26 · p. 138
चण्डिलः क्षुरमर्दी स्यान्नापितोऽन्तावसाय्यपि ।क्षुरोऽस्य वपनं शस्त्रं कर्त्त्रिका कर्त्तनी कृवी ॥ २६ ॥
अनुष्टुप्
genderपुंmasc.
धरणिकोश Dharaṇikośa · धरणिदास नार्धश्लोकः Dharaṇikośa 19.2.99 · p. 126
अन्तावसायिनौ सद्भिः स्मृतौ चाण्डालनापितौ ।जायानुजीविनौ चैव ख्यातौ बककृशाश्विनौ ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नान्ताः Koṣakalpataru 6.21.72 · p. 270
मुनिभिदि त्वन्तावसायी मतः ।चाण्डाल-क्षुरिणौ नटे त्वपि बके जायानुजीवी तथानिर्द्रव्येऽथ कलानुनादिनमिह प्राहुः कुलिङ्गाह्वये ॥ ७२ ॥
शार्दूलविक्रीडितम्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् पञ्चाक्षरकाण्डः Nānārthārṇavasaṃkṣepa 7.23 · p. 95
द्वयोर्निषाद्यां चण्डालाज्जाते जात्यन्तरे नृणाम् ।सिंहस्तु नापिते प्राह चण्डाले प्राह शाश्वतः ॥ २३ ॥
अनुष्टुप्
doubtful
शब्दरत्नावली Śabdaratnāvalī · मथुरेश नान्ताः Śabdaratnāvalī 7.20.140 · p. 248
अन्तावसायी मुनिभिन्नापितश्वपचेषु ना ।कलानुनादी भ्रमरे कलविङ्के कपिजले ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 पि (wrong syllable)
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.227 · p. 169
विनीते विप्रभेदे चाऽनूचानोऽर्थी विवाद्यपि ।अन्तावसायी चाण्डाले मुनिभेदे च नापिते ॥ २२७ ॥
अनुष्टुप्

अन्तावसायिन् as a meaning in nānārtha verses

  • शब्दरत्नावली दिवाकीर्तिदिवाभीत उलूके स्यात्कुम्भिले कुमुदाकरे । दिवाकीर्तिः पुमानेव नापितान्तावसायिनोः ॥ द्वीपवती भूमिनदयोः पुंसि सिन्धौ नदेऽपि च । स्याद्धूमकेतुर्ज्वलेने तथा चोत्पातशेषके ॥ नन्द्यावर्त्तश्च नगरे गृहभेदे च पुंस्ययम् । नदीकान्तः सिन्धुवारे हिज्जले च सरित्पतौ ॥ Śabdaratnāvalī 7.16.163