पञ्चता
pañcatāस्त्री · fem.In 8 kośas: 6 synonym verses, 2 as a nānārtha head word, 1 as a meaning of another word.
स्यात्पञ्चता कालधर्मो दिष्टान्तः प्रलयोऽत्ययः ।अन्तो नाशो द्वयोर्मृत्युर्मरणं निधनोऽस्त्रियाम् ॥ ११६ ॥
अनुष्टुप्
genderस्त्रीfem.
अपि स्यात्तद्वत्प्रलयो दिष्टान्तोऽप्यत्ययोऽपि च ।नाशः स्त्रियां पञ्चता स्यान्निधनं षण् द्वयोः पुनः ॥ ३७४ ॥
अनुष्टुप्
genderस्त्रीfem.
स्युः कालधर्म-प्रलयात्ययान्त-दिष्टान्त-नाशाः परलोकयात्रा ।स्याद्दीर्घनिद्रा च मृतिश्च संस्थामृत्युर्द्वयोः स्यादपि पञ्चता स्त्री ॥ ७१ ॥
इन्द्रवज्रा
genderस्त्रीfem.
प्राणत्यागे कालधर्मः पञ्चता प्रलयो लयः ।दिष्टान्तो निधनं मृत्युर्मरणं सदनं हरिः ॥ ४०१ ॥
अनुष्टुप्
genderस्त्रीfem.
मारको मरको मारः संघातोऽपि च घातनम् ।अथाघातो वधस्थानं प्रघात इति कुत्रचित् ॥मरणं प्रलयो नाशः कालधर्मश्च पञ्चता ।द्वयोर्मृत्युर्भूमिलाभो निपातो निधनोऽस्त्रियाम् ॥
अनुष्टुप्
genderस्त्रीfem.
लयो नाशः कालधर्मो दीर्घनिद्रा च पञ्चता ।मरणं निधनं मृत्युर्द्वयोर्जीवोऽसुधारणम् ॥ १०५७ ॥
अनुष्टुप्
genderस्त्रीfem.
पञ्चता as a meaning in nānārtha verses
- नानार्थार्णवसंक्षेप पञ्चत्वपञ्चत्वं पञ्चतायां च मरणेऽथ पचत्रवाक् । स्थाल्यां स्याद्रन्धनार्थायां तथैवापूपकारके ॥ ४९ ॥ Nānārthārṇavasaṃkṣepa 3.3.49