निपात
nipātaपुं · masc.In 8 kośas: 5 synonym verses, 1 as a nānārtha head word, 2 as a meaning of another word.
केयूरादीनि नपुंसके जानीहि । इदं केयूरं बाहुभूषणम् । इदं तरलमलङ्कारः । तूर्यं वादित्रम् । अङ्गदं बाहुभूषणम् । गवाक्षशब्दं पुंसि विद्याज्जानीयात् । यथा अयं गवाक्षो वातायनः । एते शब्दाः स्त्रियां भवन्ति । इयं श्यामा स्त्री । भुशुण्डी आयुधम् । भाण्डी भिण्डिपालः ।भवतोऽपजनोपपदावङ्गपदौ पुंसि नित्यमिननिच्च ।रक्षणकोष्ठभ्रेषाश्च सह निपातोपसर्गाभ्याम् ॥ ८६ ॥
metre not recognised
genderपुंmasc.
कुण्डे तु पिठरः स्थाली पिठरी चाप्युखा सुखा ।घटे तु कुमुदः कुण्डी निपातः(वः?) कुट इत्यपि ॥ ४४७ ॥
अनुष्टुप्
genderपुंmasc.
मारको मरको मारः संघातोऽपि च घातनम् ।अथाघातो वधस्थानं प्रघात इति कुत्रचित् ॥मरणं प्रलयो नाशः कालधर्मश्च पञ्चता ।द्वयोर्मृत्युर्भूमिलाभो निपातो निधनोऽस्त्रियाम् ॥
अनुष्टुप्
genderपुंmasc.
निपातो भूमिलाभश्च मृत्युरप्यथ मारकः ।मरको मारिरुत्पाटः शवस्तु क्षितिवर्धनः ॥ ६० ॥
अनुष्टुप्
genderपुंmasc.
कालधर्मस्तु दिष्टान्तो निपातो गमिरन्धकः ।कटमोषो भूमिलाभो दीर्घनिद्रा निमीलनम् ॥ २०१ ॥
अनुष्टुप्
genderपुंmasc.
निवापस्तु भवेदुप्तौ पितॄणामपि तर्पणे ।निपातः स्यादधःपाते चादिप्रभृतिषु स्मृतः ॥ १०४ ॥
अनुष्टुप्
निपात as a meaning in nānārtha verses
- धरणिकोश स्रंसनस्रंसनं के निपाते च पृथग्भावे क्रमात्स्मृतौ । भेदनेनसमायुक्तावतिसारे च कीर्तितः ॥ Dharaṇikośa 19.3.22
- कोषकल्पतरु अवनयतिसमः संहति-पृष्ठस्थसैन्ये स्यान्निश्चये निरः । अवान्निपातेऽभेः क्रोधे न्याये स्यात्संस्कृतावपि ॥ ३८ ॥ Koṣakalpataru 3.5.38