निधन
nidhanaक्ली · neut.In 15 kośas: 15 synonym verses, 6 as a nānārtha head word, 5 as a meaning of another word.
मृतिः संस्था मृत्युकालौ परलोकगमोऽत्ययः ॥ ३२३ ॥पञ्चत्वं निधनं नाशो दीर्घनिद्रा निमीलनम् ।दिष्टान्तोऽस्तं कालधर्मोऽवसानं सा तु सर्वगा ॥ ३२४ ॥
अनुष्टुप्
genderक्लीneut.
ब्रह्मात्मभूः सुरज्येष्ठः परमेष्ठी पितामहः ।हिरण्यगर्भो लोकेशः स्वयम्भूश्चतुराननः ॥ १६ ॥धाताब्जयोनिर्द्रुहिणो विरिञ्चिः कमलासनः ।स्रष्टा प्रजापतिर्वेधा विधाता विश्वसृड्विधिः ॥नाभिजन्माण्डजः पूर्वो निधनः कमलोद्भवः ।सदानन्दो रजोमूर्तिः सत्यको हंसवाहनः ॥ १७ ॥
अनुष्टुप्
genderपुंmasc.
स्यात्पञ्चता कालधर्मो दिष्टान्तः प्रलयोऽत्ययः ।अन्तो नाशो द्वयोर्मृत्युर्मरणं निधनोऽस्त्रियाम् ॥ ११६ ॥
अनुष्टुप्
genderपुंक्लीm. n.
निधनं नाशो मृत्युर्मरणं पञ्चत्वमत्ययः कालः ।संस्था स्याद्दिष्टान्तो निमीलनं दीर्घनिद्रा च ॥ ६२८ ॥
आर्या
genderक्लीneut.
निमीलनं च निधनं रंध्रमृत्युर्विनाशनम् ।छिद्रं वसु ततो भाग्यं धर्मं च नवमं तपः ॥ ४६ ॥
अनुष्टुप्
genderक्लीneut.
अपि स्यात्तद्वत्प्रलयो दिष्टान्तोऽप्यत्ययोऽपि च ।नाशः स्त्रियां पञ्चता स्यान्निधनं षण् द्वयोः पुनः ॥ ३७४ ॥
अनुष्टुप्
genderपुंस्त्रीक्लीm. f. n.
हायनस्तेनमानानां तथैव धनमानयोः ।मानताडनयोरस्तोद्यानयोर्निधनस्य च ॥ १६६ ॥
अनुष्टुप्
genderपुंक्लीm. n.
निधनं दर्भमुष्टिः स्यात्प्रस्तरस्तद्विशेषकः ॥ ६८ ॥
genderक्लीneut.
पञ्चत्वमस्तं मरणं निमीलनंतत्रावसानं निधनस्तु न स्त्रियाम् ।मारिश्च मारी मरकः स सर्वत-श्चित्या चिता स्याच्च चितिस्तथा स्त्रियाम् ॥ ७३ ॥
इन्द्रवंशा
genderपुंक्लीm. n.
श्राद्धो[232b]त्सेध-कबन्ध-सौध-मधु चान्धं चायुधं चौषधंमौनं मानविमानयानपुलिनापीनोदपानासनम् ।उद्यानं नलिनं खलीनखलिनस्थानाभिधानौदन-ब्रह्मप्रेमसमानजानुनिधनप्रस्फोटनं पक्ष्म च ॥ ५० ॥
शार्दूलविक्रीडितम्metre not read in every line
श्राद्धपुंक्लीउत्सेधपुंक्लीकबन्धपुंक्लीसौधपुंक्लीमधुपुंक्लीअन्धपुंक्लीआयुधपुंक्लीऔषधपुंक्लीमौनपुंक्लीमानपुंक्लीविमानपुंक्लीयानपुंक्लीपुलिनपुंक्लीआपीनपुंक्लीउदपानपुंक्लीआसनपुंक्लीउद्यानपुंक्लीनलिनपुंक्लीखलीनपुंक्लीखलिनपुंक्लीस्थानपुंक्लीअभिधानपुंक्लीओदनपुंक्लीब्रह्मन्पुंक्लीप्रेमन्पुंक्लीसमानपुंक्लीजानुपुंक्लीनिधनपुंक्लीप्रस्फोटनपुंक्लीपक्ष्मन्पुंक्ली
genderपुंक्लीm. n.
समानो वर्धमानश्च विमाननिधने अपि ।हायनस्थानयानानि वस्नोद्यानासनानि च ॥ १४५ ॥
अनुष्टुप्
genderपुंक्लीm. n.
प्राणत्यागे कालधर्मः पञ्चता प्रलयो लयः ।दिष्टान्तो निधनं मृत्युर्मरणं सदनं हरिः ॥ ४०१ ॥
अनुष्टुप्
genderक्लीneut.
मृत्युः कालो मृतिः संस्था कालधर्मो निमीलनम् ।पञ्चत्वमवसानं च तथा निधनमत्ययः ॥ ४७६ ॥
अनुष्टुप्
genderक्लीneut.
मारको मरको मारः संघातोऽपि च घातनम् ।अथाघातो वधस्थानं प्रघात इति कुत्रचित् ॥मरणं प्रलयो नाशः कालधर्मश्च पञ्चता ।द्वयोर्मृत्युर्भूमिलाभो निपातो निधनोऽस्त्रियाम् ॥
अनुष्टुप्
genderपुंक्लीm. n.
लयो नाशः कालधर्मो दीर्घनिद्रा च पञ्चता ।मरणं निधनं मृत्युर्द्वयोर्जीवोऽसुधारणम् ॥ १०५७ ॥
अनुष्टुप्
genderक्लीneut.
कुले विनाशे प्रधनं तु युद्धेस्यादारुणेऽथो पवनोऽनिले स्यात् ।कुलालपाकस्थलवल्लयोश्चबीजाहितौ स्याद्वपनं च वापे ॥ १७ ॥
उपजातिः
doubtful
कुले नाशे सामभक्तौ पञ्चम्यामथ भेद्यवत् ।न्यस्ते निसृष्टः स्त्री तु स्यान्निसृष्टा कन्यकान्तरे ॥ १०२० ॥
अनुष्टुप्
doubtful
तोदनं व्यथने तोत्रे दंशनं वर्मदंशयोः ।दर्शनं दर्पणे शास्त्रे नयनस्वप्नबुद्धिषु ॥दमनः कुसुमे वीरे उपशान्तेऽपि कुत्रचित् ।दशनः शिखरे दन्ते कवचे तु नपुंसकम् ॥दहनो दुष्टचेष्टाग्निभल्लाते चित्रकेऽपि च ।दृशानं तेजसि क्लीबं स्यात्पुमांस्तु विरोचने ॥देवनन्तु जिगीषायां स्यात्क्रीडाव्यवहारयोः ।अक्षेषु देवनः पुंसि सेवायामपि देवना ॥ध्वजी रथे च भूदेवे भये सर्पे धराधरे ।धन्वी ककुभवृक्षे स्यादर्जुने च धनुर्धरे ॥धन्व क्लीबे स्थले चापे धन्वा ना मरुदेशके ।धमनो नालभेदे भस्त्राध्मापकक्रूरयोस्त्रिषु ॥धमनी च शिराहट्टविलासिन्योरपि स्त्रियाम् ।धावनन्तु गतौ शुद्धै पृश्नीपर्ण्यान्तु धावनी ॥धाम गेहे तनौ रश्मौ स्थाने प्रभावजन्मनोः ।नन्दनं वासवोद्यानं पुमानात्यजहर्षयोः ॥नन्दी हरद्वारपाले कन्दवाले वटद्रुमे ।नन्दिन्युमाधेनुभेदगङ्गाननान्दृषु स्त्रियाम् ॥नलिन्याकाशगङ्गायां पद्मिन्यां कमलाकरे ।अम्भोरुहे तु न पुमान् नीलिकायां नपुंसकम् ॥निदानं वत्सदामादिकारणे क्षयकारणे ।निधनं नाशकुलयोः प्रधनं युधि दारुणे ॥पवनं स्यात्कुम्भकारपाकस्थाने नपुंसकम् ।स्यात्पुमांस्तु जगत्प्राणे निष्पावे प्रयतेऽपि च ॥प्रधानं प्रकृतिप्रज्ञामहामात्यपरात्मसु ।एकत्वे चोत्तमे क्लीबं वाच्यलिङ्गन्तु कुत्रचित् ॥पद्मिनी स्त्रीविशेषे स्यात्पद्मसङ्घे सरोऽम्बुजे ।प्रसन्ना स्त्री सुरायां स्यात्सन्तुष्टामलयोस्त्रिषु ॥प्रसूनं पुष्पफलयोः क्लीबं जाते तु वाच्यवत् ।पत्री पत्ररथे श्येनेऽत्रिकाण्डे रथिके त्रिषु ॥पर्व स्यादुत्सवे ग्रन्थौ प्रस्तावचिह्नभेदयोः ।स्याद्दर्शप्रतिपत्सन्धौ विषुवत्प्रभृतिष्वपि ॥पक्ष्मसूत्रांशमुद्रादिकिञ्जल्कनेत्ररोमसु ।पाठीनः पाठके मीनभेदे च गुग्गुलुद्रुमे ॥
metre not recognisednearly अनुष्टुप्nearly अनुष्टुप्: pāda 2, syllable 3 प्र (wrong syllable)nearly अनुष्टुप्: pāda 4, syllable 3 न (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 3 व (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 3 ल्क (wrong syllable); pāda 4, syllable 3 च (wrong syllable)
निधन as a meaning in nānārtha verses
- धरणिकोश अभावअभावः स्यादसत्तायामभावो निधनार्थकः । गाण्डीवं गाण्डिवं चैव धनुष्यर्जुनधन्वनि ॥ Dharaṇikośa 28.2.18
- धरणिकोश नाशनाशः पलायने प्रोक्तो निधनानुपलम्भयोः । दंशः स्यात्खण्डने दोषे दंशश्च वनमक्षिका ॥ Dharaṇikośa 29.2.5
- कोषकल्पतरु पञ्चताजामाता दुहितुर्धवे प्रियतमेऽर्कावर्तरोगेऽथ वि- धाता वेधसि मन्मथेऽथ नरपादेष्ट्रोर्विनेता भवेत् । तार्क्ष्याम्बापिटिकाभिदोश्च विनतारुग्णे नते शिक्षिते त्रय्यां स्यादथ पञ्चता च निधने स्यात्पञ्चभावे तथा ॥ २७ ॥ Koṣakalpataru 6.16.27
- शब्दरत्नावली नाशनाशः पलायने पुंसि निधनानुपलम्भयोः । निशा दारुहरिद्रायां स्त्री त्रियामाहरिद्रयोः ॥ Śabdaratnāvalī 7.30.8
- तन्त्राभिधान ढदक्षपादाङ्गुलेर्मूलं सिद्धिदण्डो विनायकः । प्रहासस्त्रिभवा ऋद्धिर्निर्गुणो निधनं ध्वनिः ॥ ९८ ॥ Tantrābhidhāna 2.31.98