अत्यय
atyayaपुं · masc.In 12 kośas: 10 synonym verses, 11 as a nānārtha head word, 4 as a meaning of another word.
मृतिः संस्था मृत्युकालौ परलोकगमोऽत्ययः ॥ ३२३ ॥पञ्चत्वं निधनं नाशो दीर्घनिद्रा निमीलनम् ।दिष्टान्तोऽस्तं कालधर्मोऽवसानं सा तु सर्वगा ॥ ३२४ ॥
अनुष्टुप्
genderपुंmasc.
स्यात्पञ्चता कालधर्मो दिष्टान्तः प्रलयोऽत्ययः ।अन्तो नाशो द्वयोर्मृत्युर्मरणं निधनोऽस्त्रियाम् ॥ ११६ ॥
अनुष्टुप्
genderपुंmasc.
निधनं नाशो मृत्युर्मरणं पञ्चत्वमत्ययः कालः ।संस्था स्याद्दिष्टान्तो निमीलनं दीर्घनिद्रा च ॥ ६२८ ॥
आर्या
genderपुंmasc.
अपि स्यात्तद्वत्प्रलयो दिष्टान्तोऽप्यत्ययोऽपि च ।नाशः स्त्रियां पञ्चता स्यान्निधनं षण् द्वयोः पुनः ॥ ३७४ ॥
अनुष्टुप्
genderपुंmasc.
स्युः कालधर्म-प्रलयात्ययान्त-दिष्टान्त-नाशाः परलोकयात्रा ।स्याद्दीर्घनिद्रा च मृतिश्च संस्थामृत्युर्द्वयोः स्यादपि पञ्चता स्त्री ॥ ७१ ॥
इन्द्रवज्रा
genderपुंmasc.
नीलिका स्याज्जतुमणिर्भवेत्कोठस्तु मण्डलम् ।वालरोगोऽत्ययः क्षीरालसकं च नपुंसके ॥ ६६ ॥
अनुष्टुप्
genderपुंmasc.
मृत्युः कालो मृतिः संस्था कालधर्मो निमीलनम् ।पञ्चत्वमवसानं च तथा निधनमत्ययः ॥ ४७६ ॥
अनुष्टुप्
genderपुंmasc.
अत्ययश्वातिपतनं व्यत्ययः स्यादतिक्रमे ।अस्त्री व्रतन्तु नियमो नियामः संयमोऽपि च ॥
अनुष्टुप्
genderपुंmasc.
विलयोऽत्ययोदिष्टान्तश्चान्त आत्ययिक सृतिः ।मृतः प्रेतः परेतश्च परासुः संस्थितोऽपि च ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
प्रेतः परेतविगतासुमृतप्रमीत-प्राप्तान्तसंस्थितपरासुविलीननष्टाः ।एते दश त्रिषु कटः कुणपः शवोऽस्त्रीचित्या चिता चितिरथ प्रलयोऽत्ययोऽन्तः ॥ १०५६ ॥
वसन्ततिलका
genderपुंmasc.
अनयो व्यसने दैवे विपत्त्यशुभयोरपि ॥अत्ययोऽतिक्रमे दोषे विनाशे दण्डकृच्छ्रयोः ।अवध्यमवधार्हे स्यादनर्थकवचस्यपि ॥अव्ययो ना हरौ शब्दभेदेऽस्त्री निर्व्यये त्रिषु ।अहार्यः पुंसि शैले स्यादहर्त्तव्येऽभिधेयवत् ॥अभिख्यानाम्नि शोभायां यशस्याख्यान इत्यपि ।अभया स्त्री हरितक्यां वीरणेऽपि च न द्वयोः ॥निर्भये वाच्यलिङ्गं स्यात्प्रसादेऽपि च कुत्रचित् ।अगस्त्यो वङ्गसेनाख्यतरौ कुम्भोद्भवेऽपि च ॥आशयः स्यादभिप्रायाधारयोः पनसेऽपि च ।आत्रेयो ना मुनौ पुष्पवतीनद्योरपि स्त्रियाम् ॥आम्नायः पुंसि वेदे स्यादुपदेशे कुलक्रमे ।उदयस्तून्नतौ दीप्तौ मङ्गले पूर्वपर्वते ॥उपायः स्यादुपपन्तौ सामभेदादिके पुमान् ।ऊर्णायुः क्षणभङ्गे ना मेषे च मेषकम्बले ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 रि (wrong syllable)nearly अनुष्टुप्: pāda 1, syllable 6 प (wrong syllable); pāda 4, syllable 3 च (wrong syllable)
अत्यय as a meaning in nānārtha verses
- धरणिकोश गृह्यगृह्या शाखान्तरे प्रोक्ता गृह्यमत्ययपक्षयोः । गृह्यान्वदन्ति विद्वांसो गृहासक्तमृगाण्डजान् ॥ Dharaṇikośa 25.3.6
- कोषकल्पतरु परिवर्ततेअन्यथात्वेऽपतो घातात्यययोः स परेः परः । पलायने विनिमये निर्गमे वेः समाहृतौ ॥ ६५ ॥ Koṣakalpataru 3.5.65
- कोषकल्पतरु उपदाक्षिण्यात्ययदोषवादनमृतिव्याप्त्यंहतिप्रक्रमे पूजाचार्यविधानशक्तिषु भवेदुद्योगत( ? )द्योगयोः । गर्हाप्रश्नसमुच्चयेष्वपि भवेत्संभावने शङ्कने वीप्सेत्थंभवसंभवेषु गदितं विद्वद्भिरभ्यव्ययम् ॥ ५ ॥ Koṣakalpataru 5.1.5
- शब्दरत्नाकर कालकालः शनैश्चरेऽनेहस्यन्तकेऽत्ययवर्णयोः । शिक्ये दृग्रुचि मृद्भेदे काचः काशः शरे त्विषि ॥ १८८० ॥ Śabdaratnākara 4.1.1880